दानं शीलेष्वनुत्तमम् – 16-06-2018

 

नूतना समस्या –

“दानं शीलेष्वनुत्तमम्”

ഒന്നാംസ്ഥാനം

मानवानां परं रूपं
शीलमित्येव विश्रुतम्।
परोपकारसम्पन्नं
दानं शीलेष्वनुत्तमम्।।

Dileep Unnikrishnan

“അഭിനന്ദനങ്ങള്‍”

17 Responses to दानं शीलेष्वनुत्तमम् – 16-06-2018

  1. Prasad says:

    👌👌

  2. Gayathri.A.B says:

    👍👍

  3. Remadevi.A. NHSS irinjalakuda says:

    विद्या वित्तेष्वनुत्तमम्
    क्षमा शस्त्रेष्वनुत्तमम्
    सत्यं धर्मेष्वनुत्तमम्
    दानं शीलेष्वनुत्तमम्

  4. रविः पालक्काडु says:

    മൂന്നാംസ്ഥാനം

    योगदानेन राजत्वं
    प्रजानां हितपालने।
    योग्य, स्मरतु सर्वत्र
    दानं शीलेष्वनुत्तमम्।।

  5. श्रीजा मुम्बै। says:

    രണ്ടാംസ്ഥാനം

    शीलं प्रधानं पुरुषे
    तत्र दानं महत्तरम्।
    दानात्तु जायते सौख्यं
    दानं शीलेष्वनुत्तमम्।।

  6. कैलास् says:

    दानं जङ्गमवस्तूनां
    कर्तव्यं नो निरन्तरम्।
    दानी तु राजते स्वर्गे
    दानं शीलेष्वनुत्तमम्।।

  7. अमृता वि एस् says:

    दानेन वर्धते सौख्यं
    दानेन वर्धते यशः।
    दानी देवसमो मर्त्यः
    दानं शीलेष्वनुत्तमम्।।

  8. राजेष् says:

    महाबलिः महाशक्तः
    दानेन दिवमाप्तवान्।
    दानेनैवामृतो जातः
    दानं शीलेष्वनुत्तमम्।।

  9. लक्ष्मी विजयनगरम्। says:

    दानिनः सर्वलोकेषु
    श्रेयसा परिभूषिताः।
    दानमाचरणीयं नो
    दानं शीलेष्वनुत्तमम्।।

  10. बिजोय् एम् आर् says:

    सैनिको राष्ट्ररक्षायै
    जीवदानं करोति मे।
    दानेन जायते ख्यातिः
    दानं शीलेष्वनुत्तमम्।।

  11. विजयन्. वि. पट्टाम्पि। says:

    रक्तदानं महादान-
    मित्येव विश्रुतं किल।
    दानेन जायते तेजः
    दानं शीलेष्वनुत्तमम्।।

  12. दिलीप् उण्णिकृष्णन् says:

    ഒന്നാംസ്ഥാനം

    मानवानां परं रूपं
    शीलमित्येव विश्रुतम्।
    परोपकारसम्पन्नं
    दानं शीलेष्वनुत्तमम्।।

Leave a Reply

Your email address will not be published. Required fields are marked *