Daily Archives: September 27, 2017
मुद्रा निरोधः दुरन्त एव – यश्वन्त सिन्हा
नरेन्द्रमोदी सर्वकारस्य मुद्रानिरोधः दुरन्तः आसीदिति भूतपूर्वः केन्द्रमन्त्री भा.ज.पा.दलस्य नेता च श्रीमान् यश्वन्त सिन्हा महोदयः अवदत्। आर्थिकमाद्यं प्रति राष्ट्रस्य गतौ दले बहवः नेतारः प्रवर्तकाश्च अतृप्ताः इत्यपि तेन निगदितम्। आगोलविपण्यां मृत्तैलमूल्यं न्यूनमभवत्। तथापि तस्मात् धनं समाहृत्य आर्थिकघटनां पुनरुज्जीवयितुं वित्तमन्त्री किमपि नाकरोत्।तस्मिन् विषये पराजितः अभवत् धनमन्त्री इति स सूचितवान्। वाजपेयी सर्वकारे वित्तमन्त्री आसीत् यश्वन्त सिन्हा।
भारतेन पुनरेकवारं गतदिने धिक्कृतः।
काश्मीरे पैलट् भुशुण्डिकायाः दुष्प्रयोगविषयकस्य मिथ्यारोपस्य प्रमापनार्थं कस्याश्चित् गासा-क्षेत्रीयायाः युद्धाहतबालिकायाः कपटचित्रं संयुक्तराष्ट्रे सद्य प्रस्तुतवान् पाकिस्तानदेशः भारतेन गतदिने सार्वजिकरूपेण पुनरेकवारं धिक्कृतः। संयुक्तराष्ट्रमहासभायाः वार्षिकाधिवेशने प्रत्युत्तराधिकारं प्रयुज्यमाना तत्रत्या भारतीया प्रतिनिधिः पौलोमी त्रिपाठी पाक्द्वारा प्रस्तुतस्य उक्तारोपस्य सन्दर्भे वास्तविकं प्रस्तावयन्ती अवदत् यत् अस्मिन् सन्दर्भे स्थितिः सर्वथा विपरीता विद्यते।