Monthly Archives: February 2017

आकाशनीलिमा

पश्यतु मित्रक आकाशं

छत्रसमानमुपरितले।

पुष्पैराच्छादितं किमु छत्रं

मध्ये चन्द्रः शीतकरः।।

जलदाः श्यामा जलभरिता

दुन्दुभिनादं कुर्वन्ति।

गगने कनकारुणवर्णः

तडितः घोरं गर्जन्ति।।

भ्रमरा पुष्पेष्वतिलीना

मधुरं मधुरं गु़्ञ्जन्ति।

कलकलनिनदैः खगमाला

मुखरति गगनं सर्वत्र।
पक्षं द्वयमिह लब्धं चेत्

इष्टविनोदं करवाम।।

श्रावणकालः। – श्री विजयन् वि पट्टाम्बि।

गगनमश्रुविमुक्तं पश्यत

श्रावणकालः सम्प्राप्तः।

पुष्पाणां हा सुरभिलगन्धः

पुष्यति मानसमस्माकम्।।

रजतककान्तिसमेतं वानं

श्रावणरजनी ह्यायाता।

मधुना मत्ताः चित्रपतङ्काः

मादककेलिषु संलग्नाः।।

धान्यं बहुतरं सम्भृतमेतत्

कर्षकचित्तं हर्षभरम्।

हा! हा! पश्यत श्रावणकालः

मानवचित्तमिहायातः।।

 

डिण्डिमि डिण्डिं नादं श्रृणुत

श्रावणव्याघ्राः विलसन्ति।

तित्तै तित्तै घोषं श्रृणुत

नौकाकेलिः समारब्धा।।

पूप्पोलि पूप्पोलि गानं भरितं

बालाः पुष्परतास्तत्र।

हू हू हू हू नादं श्रृणुत

दोलादोलनमारब्धम्।।

हा हा पश्यत श्रावणकालः

मानवचित्तमिहायातः।

पीतं सर्वं कदलीवृन्दं

पक्वं जातं मधुरतरम्।।

पर्पटभर्जनगन्धो भरितः

लालावर्धकशक्तियुतः।

क्वथितं सूपं भर्जितसहिता

श्रावणसग्धिः समारब्धा।।

आगच्छत भोः मित्रक रुचितैः

उदरं पूर्णं करवाम।

सुतलादद्य समागच्छन्तं

माबलिराजं स्वीकुर्म।।

कविताः – विजयन् वि. पट्टाम्बी।

अष्टमवर्गे विभातम् इति कवितायाः पठनात्परं कवितारचनायै चत्वारः विषयाः प्रदत्ताः सन्ति। विषयानुसारं चतस्रः कविता लिखिताः प्रकाश्यन्ते। अध्यापकानां तथा छात्राणां च इमाः कविताः मार्गदर्शकाः भूयासुरिति प्रार्थना।

-विजयन् वि पट्टाम्बी।

१. काननश्रीः।

काननं नीलवर्णाभं मेघकान्तिसमं लसत्

ईशेन जगति स्रष्टम् अपूर्वं दृश्यविस्मयम्।

अश्वत्थाम्रपुन्नागैः पनसैश्चार्णवृक्षकैः

निम्ब बर्बर कपूर शाल्मलीप्रियकैर्भृतम्।।

मञ्जरीभिश्च पूष्पैश्च काननं गन्धपूरितम्

मधुना कन्दजालैश्च माधुर्यं द्विगुणीकृतम्।

अफलैः सफलैर्वृक्षैः समृद्धैश्च सुवर्धितैः

हरति हृदयं सर्वं काननश्रीः सदा जवात्।।

वल्मीकैः सर्पवासद्बिः तटाकैः पल्लवैः हृदैः

वातैश्च चन्दनाविष्टैः काननं नेत्रमोहनम्।

चातकश्येनगृध्रैश्च काककोकिलसारसैः

चक्रवाकैश्च सम्पन्नं काननं कस्य नप्रियम्।।

२. चन्द्रोदयः।

उदेति चन्द्रमा दूरे वनच्छन्ननभस्थले

रात्रिर्हसति सामोदं शुभ्रकान्तमुखाम्बुजा।

आकाशं शोभते सम्यग् नक्षत्रैः रुचिरप्रभैः।

उत्प्लुत्योत्प्लुत्य गच्छन्ती चन्द्रमेयं पतेद्भुवि

बालकैर्वर्धितोत्साहैः वीक्ष्यमाणैः सकौतुकम्।

लीयन्ते चन्द्रकान्तास्तु कुमुदानि हसन्ति च

युवकाः उत्कण्ठितास्सर्वे कामिनीविरहशोषिताः।।

उलूकाश्चक्रवाकाश्च समं स्वप्रणयिनीजनैः

स्वैरं कुर्वन्ति सञ्चारं वृक्षात् वृक्षं वनाद्वनम्।

बालकाः वर्धितामोदाः अङ्कणेषु स्थिताः चिरम्

उन्मुखैः स्फारितैर्नेत्रैः ईक्षन्ते चन्द्रमां भृशम्।

पश्य पश्याङ्क! हे पश्य कोsयं हसति दिङ्मुखे

वारं वारं वदन्त्येवं माता भोजयति शिशुम्।

ददती सर्वसौभाग्यं शीतञ्चामृतसन्निभम्

सौख्यञ्च चित्तसम्पूर्णं समेषां नेत्रधारिणाम्।

३. मातृस्नेहः।

सर्वजीविनां जन्मदायिनीं स्तन्यपायनाद् वृद्धिकारिणीं

स्नेहलालनाद् तोषकारिणीं मातृदेवतां नौमि सादरम्।।

वृद्धिरागतौ पादयुग्मकौ वृद्धिरागता नासिकेति वा।

प्रतिदिनं तया चिन्त्यते मुदा तनयपोषणं स्नेहपूर्णया।।

यदि जिघासया रोदिति सुता चटुलमेत्य सा तोषवर्धिता।।

निजकरेण सा भोज्यपानकान् अतुलकौतुकं भोजयेच्चिरम्

मातरं सदा वन्दनं कुरु मातरि सदा स्निह्यतु सखे।

मातृदैवतां दृष्टिगोचरं गणय सादरं साधु दैवतम्।।

 

४. आकाशनीलिमा ।

आकाशं छत्रसङ्काशं विस्तृतं विमलं तथा

जलदैर्लघुभिर्युक्तं नीलवर्णेन लोपितम्।

सूर्यदेवस्य यात्रायै येनेदमूर्द्वमास्तृतम्

विपुलं गोलरूपं तत् सुन्दरं नीलकम्बलम्।

इनदेवो दिवा नित्यं दीपकोटिसमप्रभः

स्खालित्येन विना पादौ मन्दं सञ्चरते मुदा।

भूयांसो नीलवर्णस्तु केनेदं सुविलेपितम्

भगवतः सर्वशक्तस्य कर्मकौशलमेव हि।

प्रभाते रक्तवर्णेन मध्याह्ने नीलया तथा

सायाह्ने कपिशवर्णेन केनेदं लेपितं क्षणम्?

नीलाकाशमार्गेण गन्तुमिच्छास्मि मे चिरम्

साध्यं वा यदि वा  नास्तु दृश्यमेतत् हि सौख्यदम्।।