श्रावणकालः। – श्री विजयन् वि पट्टाम्बि।

गगनमश्रुविमुक्तं पश्यत

श्रावणकालः सम्प्राप्तः।

पुष्पाणां हा सुरभिलगन्धः

पुष्यति मानसमस्माकम्।।

रजतककान्तिसमेतं वानं

श्रावणरजनी ह्यायाता।

मधुना मत्ताः चित्रपतङ्काः

मादककेलिषु संलग्नाः।।

धान्यं बहुतरं सम्भृतमेतत्

कर्षकचित्तं हर्षभरम्।

हा! हा! पश्यत श्रावणकालः

मानवचित्तमिहायातः।।

 

डिण्डिमि डिण्डिं नादं श्रृणुत

श्रावणव्याघ्राः विलसन्ति।

तित्तै तित्तै घोषं श्रृणुत

नौकाकेलिः समारब्धा।।

पूप्पोलि पूप्पोलि गानं भरितं

बालाः पुष्परतास्तत्र।

हू हू हू हू नादं श्रृणुत

दोलादोलनमारब्धम्।।

हा हा पश्यत श्रावणकालः

मानवचित्तमिहायातः।

पीतं सर्वं कदलीवृन्दं

पक्वं जातं मधुरतरम्।।

पर्पटभर्जनगन्धो भरितः

लालावर्धकशक्तियुतः।

क्वथितं सूपं भर्जितसहिता

श्रावणसग्धिः समारब्धा।।

आगच्छत भोः मित्रक रुचितैः

उदरं पूर्णं करवाम।

सुतलादद्य समागच्छन्तं

माबलिराजं स्वीकुर्म।।

Leave a Reply

Your email address will not be published. Required fields are marked *