Category Archives: Uncategorized

संस्कृतसंभाषणपाठाः।

संस्कृतसंभाषणपाठाः।

राष्ट्रे सर्वेषु विद्यालयेषु विद्यालयपरिसरेषु च तुच्छद्रव्यभोज्यानि(जङ्क् फुड्) निरुद्धानि।

दिल्ली- तुच्छद्रव्यभोज्यानि स्वास्थ्यसमस्यानां कारणभूतानि इत्यवगमस्य पश्चात्तले राष्ट्रे विद्यालयेषु तत्परिसरेषु च एतेषां भोज्यानां निरोधः आयोजितः। इतः परं राष्ट्रे कस्मिन्नपि विद्यालये विद्यालयीयभोजनशालायां वा तुच्चद्रव्यभोज्यं नोपलभ्यते।

     विद्यालयानां 50 मीट्टर् परितः अपि एतेषां विक्रयः निरुद्धः। तुच्छद्रव्यभोज्यानां सूचनाफलकानि अपि विद्यालयानां परिधौ न प्रदर्शनीयीनि। केन्द्रीय-भक्ष्यसुरक्षा-मानक-अधिकृतस्थानम् इति संस्थायाः एवायमादेशः। एतदतिरिच्य गुलाब्, जमून्, चोले बट्टूरे, न्यूडिल्स्, मधुरोपदंशानि अपि न विक्रेतुं शक्नुवन्ति।

     कायिकोत्सवे तुच्छद्रव्यानां स्वतन्त्रविनिमयः तथा एतेषां सूचनाप्रदर्शनं च नानुमन्यते इति आदेशे सूचयति। एतादृशानां भोज्यानाम् उत्पादकसंघस्य सूचनाः विद्यालयाः न स्वीकुर्युः। आगामिनि मासे आदेशानुसारं निरोधस्य प्राबल्यं भविता।

वागेव सत्यम् – संस्कृतचलच्चित्रम्।

A Sanskrit short film by C.C. Suresh Babu

चन्द्रयानम् – २

TEXT BOOKS 2018-19

द्वादशकक्ष्या – प्रश्नसमाहारः।

  1. तव विरहे…।
  2. व्रज हररितमम्।
  3. भविष्ये तव…।
  4. चिन्तारतो बालकः।
  5. को हेतुः?
  6. दीनदयालुर्भव।
  7. कालातिवर्तिनी कला।
  8. कृष्णशिलासु लास्यम्।
  9. सुघटिता भाषा।
  10. निर्ममो योजकः।
  11. कुशलिनः सन्तु सर्वदा।
  12. मन एव बलीयत्।

प्रश्नसमाहारः – दशमिकक्ष्या।

  1. आयुरारोग्यसौख्यम्।
  2. दीनवत्सला जननी।
  3. मधुमान् नो वनस्पतिः।
  4. कनकधारा।
  5. जयन्ति ते सुकृतिनः।
  6. रागसुधारस…
  7. काव्यमुक्तावलिः।
  8. विगतानुशयः।
  9. ईशोपदेशः।
  10. किमसौ न भयङ्करः।
  11. प्राप्य वरान् निबोधत।

अलहबादनगरस्य प्रयागराज् इति नामपरिवर्तनम्।

लख्नौ- अलहबाद मण्डलस्य नाम प्रयागराज् इति परिवर्तनं करिष्यतीति उत्तरप्रदेश मुख्यमन्त्री योगी आदित्यनाथ् वर्यः अवदत्। २०१९ जनुवरीतः मार्च् पर्यन्तं सम्पत्स्यमानायाः कुम्भमेलायाः अनुबन्धेनैव नामपरिवर्तनं।      कुम्भमेलायाः सज्जीकरणानि पूर्तीकरणेन सहैव नाम परिवर्तनार्थं प्रमेयमपि अङ्गीकरिष्यति। आगामिनि संसदधिवेशने अस्य निर्णयं भविष्यतीति योगी अवदत्। कुम्भमेलासज्जीकरणानि प्रायः सम्पूर्णानि इत्यपि योगी अवोचत्।

राज्यस्तेषु चतसृषु निजीयवैद्यकलाशालासु प्रवेशस्थगनम् अनुवर्तिष्यते इति सर्वोच्चन्यायालयः।

नवदिल्ली- राज्यस्थेषु चतसृषु निजीय वैद्यकीयकलाशालासु प्रवेशार्थं कल्पितं स्थगनं अनुवर्तिष्यते इति सर्वोच्चन्यायालयः। बुधवासराभ्यन्तरे सर्वाः रेखाः समर्पणीयाः इति न्यायालयः कलालयान् निरदिशत्।

निर्णयः तुरं वक्तव्यमिति केरलस्य आवश्यं न्यायालयः नाङ्गीचकार। वैद्यकीयसमितेः आवेदनमेव सर्वोच्चन्यायालयस्य परिगणनायामागतम्।

व्याकरणपाठाः – प्रोफ. नारायणन् नम्पूतिरिः।

വ്യാകരണവിദഗ്ധനായ പ്രൊഫ. നാരായണന്‍ നമ്പൂതിരിസാറിന്റെ ക്ലാസ്സുകള്‍ ഓരോ ദിവസവും ഈ പേജില്‍ അപ്ഡേറ്റ് ചെയ്യുന്നതാണ്. വിദ്യാര്‍ത്ഥികള്‍ക്കും അധ്യാപകര്‍ക്കും ഏറെ ഉപകാരപ്രദമാകുമെന്ന് പ്രതീക്ഷിക്കുന്നു.

30-09-2019

21-09-2019

04-04-2019

28-03-2019

21-03-2019

06-03-2019

10-02-2019

22-01-2019

14-01-2019