Category Archives: Uncategorized
ओलिम्पिक्स् भारोद्वहनस्पर्धायां भारतस्य मीराबाय् चानु रजतपतकम् अवाप।
टोक्यो- १३० कोट्यधिकानां भारतीयानाम् अभिमानरूपेण ओलिम्पिक्स् क्रीडायां वनिता विभागे ४९ कि.ग्रां भारोद्वहने मणिप्पूर् देशीया मीराबाय् चानू रजतपतकमवाप्तवती। अनेन ओलिम्पिक्स् क्रीडायां भारतीयवनितानां श्रेष्टप्रशस्त्यै सा पात्रमभवत्।
क्रीडायाः प्रथमदिने भारतीयानां पतकलाभः इदम्प्रथमतया एव। तद्वत् ओलिम्पिक्स् क्रीडायां रजतपतकं प्राप्ता द्वितीयवनिता अस्ति मीरा। पूर्वं २०१६ रियो ओलिम्पिक्स् क्रीडायां बाट्मिन्टन् क्रीडायां पी.वी. सिन्धू रजतकमलं प्राप्तवती आसीत्। २००० वर्षे सिड्नी ओलिम्पिक्स् क्रीडायां कर्णं मल्लेश्वरी भारोद्वहने काचकमलं चावाप्तवती।
PLUS TWO – SIET CLASSES
देहल्यां समरे व्यापृतेभ्यः ऐक्यदार्ढ्यं ख्यापयति परिसिथितिप्रवर्तिका ग्रेट्टे त्युन्बी।
नवदिल्ली- केन्द्रसर्वकारस्य कार्षिकनियमान् विरुध्य प्रतिषिद्धानां कृषकाणां साह्यं सूचयति विख्याता परिस्थितिप्रवर्तिका ग्रेट्टा त्युन्बे वर्या। भारते कृषकाणां प्रतिषेधे वयम् ऐक्यदार्ढ्यं प्रकटयामः इति ट्विट्टर् द्वारा सा असूचयत्।
रक्षिदलैः सह कृषकाणां सङ्घर्षे जाते द्ल्ली परिधौ आन्तरजालसेवा तात्कालिकतया स्थगिता इति सी.एन्.एन्, वार्तां ट्विट्टर् द्वारा प्रकाशयन्ती एव ग्रेट्टावर्यायाः प्रतिकरणम्। ेतं ट्विट्टर् सन्देशं सम्मान्य बहवः रङ्गमागताः।
पोप् गायिका रिहाना भारतकृषकाणां ऐक्यदार्ढ्यं सूचितवती आसीत्। तत्पश्चादेव ग्रेट्टा त्युन्बे वर्या साहाय्येन सह रङ्गमागता।
सुप्रसिद्धः कैरलीसाहित्यकारः यु.ए. खादर् वर्यः निर्यातः।
कोषिक्कोट्- प्रशस्तः साहित्यकारः यु.ए. खादर् वर्यः कालयवनिकायम् अन्तरितः। स ८५ वयस्कः आसीत्। श्वासकोशार्बुदबाधया कोषिक्कोटे निजीयचिकित्सालये चिकित्सायामासीत्।
१९३५ वर्षे पूर्वम्यान्मार् देशे बिल्लिन् इति ग्रामे अयं भूजातः। तस्य माता म्यान्मार् देशीया आसीत्। तस्य सप्तमे वयसि मातुः वियोगानन्तरं पितुः साकम् अयं केरलेषु पितुः देशमागतः। अस्य प्राथमिकशिक्षा कोयिलाण्टी उच्चविद्यालये आसीत्। ततः मद्रपुरी कलाशालातः चित्ररचनायां बिरुदं सम्पादितवान्।
१९८३ वर्षे तृक्कोट्टूर् पेरुमा इति कथासमाहाराय, २००० तमे वर्षे अघोरशिवम् इति कैरली नोवल् कृते च केरलसाहित्य अक्कादमीपुरस्कारम् अवाप्तवान्। २००९ तमे वर्षे केन्द्र साहित्य अक्कादमीपुरस्कारमपि अनेन प्राप्तः।
कोषिक्कोट् आकाशवाणी निलये राज्य स्वास्थ्यविभागे च असौ सेवां व्यदधात्। २०११ तमे वर्षे प्रकाशितं शत्रु इति नोवल् एव तस्य अन्तिमा कृतिः।
अमेरिक्कायां पञ्चलक्षं भारतीयानां कृते नागरिकतां प्रदास्यति
वाषिङ्टण्- पञ्चलक्षं प्रवासिभारतीयेभ्यः अमेरिक्कानागरिकप्रदानाय नयरेखां निर्मितवान् नियुक्तः अमेरिक्का राष्ट्रपतिः जो बैडन् वर्यः। विविधेभ्यः राष्ट्रेभ्यः विनाप्रमाममपि अमेरिक्कां प्राप्तानां 1.1 कोटिपरिमितानां देशान्तरवासिनां कृते नागरिकताप्रदानाय नियमभेदगतिम् अनेतुमेव बैडन् वर्यस्य उद्यमः।
अनेन सह एच्.1.बि प्रभृतीनां वृत्तिसम्बन्धीनां प्रमाणानां संख्याप्रवर्धनायापि उद्यमः आरब्धः। एच्य1यबि विसाायुक्तानां पारिवारिकेभ्यः वृत्तिसम्बन्धिप्रमाणं निरुध्य ट्रम्प् प्रशासनेन आनीतां व्यवस्थां प्रत्यावर्तयितुमपि उद्यमः अस्ति। प्रतिवर्षं 95000 अभयार्थिभ्यः राष्ट्रे प्रवेशनं विधातुमपि निर्णयः अस्ति।
अमेरिक्कां उद्ग्रथितुं प्रयत्नं कुर्वतां सर्वेषां अमेरिकावासिनाम् अध्यक्षो भवाम्यहमिति विजयप्रभाषणे जो बैडन् वर्येण उक्तम्।











