Category Archives: Sanskrit Live

सर्वान् रक्षति संस्कृतम्- 10-11-2018

 

नूतना समस्या –

“सर्वान् रक्षति संस्कृतम्”

ഒന്നാംസ്ഥാനം

मन्त्रिवर्यान् तथा श्रेष्ठ-
तन्त्रिमुख्यान् च सर्वदा।
शास्त्रतत्वप्रदानेन
सर्वान् रक्षति संस्कृतम्।।

Anil Thekkumpuram

“അഭിനന്ദനങ്ങള്‍”

सौन्दर्यं चित्तहारकम् – 03-11-2018

 

नूतना समस्या –

“सौन्दर्यं चित्तहारकम्”

ഒന്നാംസ്ഥാനം

कामिनीस्मरणार्थं यत्
निर्मितं सौधमुत्तमम्।
यमुनातीरगस्यास्य
सौन्दर्यं चित्तहारकम्।।

Viswambharan, Delhi

“അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM – 04-11-2018

 

प्रश्नोत्तरम्।

 

 

 

  1. ” देवमनोहरी ” किम् अस्ति ? (क) कथक् नर्तकी (ख) देवसुन्दरी (ग) कर्णाटकसङ्गीतरागः
  2.  भारतस्य प्रथमः बहिराकाशसञ्चारी  ? (क) सुनिता विल्यंस् (ख) कल्पना चौला  (ग) राकेश् शर्मा
  3.  महात्मागान्धिनः माता का ? (क) जीजाबायी (ख) पुत्लीबायी (ग) रमाबायी
  4. प्रथमः एष्यन् गेयिंस् कुत्र प्राचलत् ? (क) बाङ्कोक् (ख) टोकियो (ग) न्यूदिल्ली
  5. अक्बर् चक्रवर्तिनः धनकार्योपदेष्टा कः ? (क) राजा तोटर्माळ् (ख) बीरबलः (ग)टान्सेन्
  6.  ” गर्ब ” नृत्तं कस्य राज्यस्य भवति ? (क) उत्तरप्रदेशः(ख) गुजरात् (ग) मध्यप्रदेशः
  7. भारते कार्षिकविकसनाय स्थापितः वित्तकोशः क ? (क) नबाड् (ख) भूपणयबाङ्क् (ग) लीड् बाङ्क्
  8. तोमस् आल्वा एडिसण् कुत्र जनिम् अलभत ? (क) मिलान् (ख) बोस्टण् (ग) कालिफोर्णिया
  9. लोकस्य बृहत्तमा दूरदर्शिनी कुत्र भवति? (क) जप्पान् (ख) रष्या (ग) स्पेयिन्
  10. कुरुवा द्वीपः कस्यां नद्यां भवति ? (क) भवानी (ख) कबनी (ग) भारतप्पुषा

ഈയാഴ്ചയിലെ വിജയി

Adithya R

“അഭിനന്ദനങ്ങള്‍”

8 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Adithya R
  • Dawn Jose
  • Mariya K W
  • Nija T S
  • Aswini Kalyani
  • Amrutha C J
  • Adidev C S

പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍

सर्वं भवतु मङ्गलम् – 27-10-2018

സമസ്യാപൂരണമത്സരം അമ്പതാം എപ്പിസോഡിലേക്ക് ഏവര്‍ക്കും സ്വാഗതം…👍👍

नूतना समस्या –

“सर्वं भवतु मङ्गलम्”

ഒന്നാംസ്ഥാനം

तत्त्वमसीति सद्वाक्यं
अर्थपूर्णं हि स्वीकुरु।
नरनारीप्रभेदादि
सर्वं भवतु मङ्गलम्।।

Satwik Bijoy

“അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM – 27-10-2018

പ്രശ്നോത്തരം അമ്പതാം എപ്പിസോഡിലേക്ക് ഏവര്‍ക്കും സ്വാഗതം!

 

 

प्रश्नोत्तरम्।

 

  1. केरलस्य प्रथममन्त्रिसभायाः आरोग्यमन्त्री कः आसीत् ? (क) सी अच्युतमेनोन् (ख) के पी गोपालः (ग) डो: ए आर् मेनोन्
  2. सूर्यक्षेत्रं कुत्र भवति ? (क) कोणार्के (ख) अमृतसरे (ग) काश्याम्
  3. भारतस्य प्रथमा वनिता राज्यपालिका का ? (क) लक्ष्मी एन् मेनोन् (ख) सुचेता कृपलानी (ग) सरोजिनी नायिडुः
  4. नेताजी सुभास् चन्द्रबोसस्य राष्ट्रीयगुरुः कः?  (क) सी आर् दासः (ख) सर्दार् वल्लभायी पट्टेलः (ग) गोपालकृष्ण गोकले 
  5. ” युनानि ” चिकित्सायाः प्रचारकाः के ? (क) ग्रीक् जनाः (ख) रोमा जनाः (ग) अरब् जनाः
  6. राजतरङ्गिण्याः कर्ता कः? (क) कल्हणः (ख) राजशेखरः (ग) सोमदेवः
  7. गुप्तराजानां राजगृहम् अलंकृतः आयुर्वेदाचार्यः कः ? (क) शुश्रुतः (ख)धन्वन्तरी (ग) वररुचिः
  8. ग्रन्थशालासङ्घस्य स्थापकः कः ? (क) एस् के पोट्टेक्काट् (ख) पी एन् पणिक्कर् (ग) जोसफ् मुण्टश्शेरी
  9. ” सत्यमेव जयते ” इति कस्मात् स्वीकृतम्  ? (क) ईशावास्योपनिषदः (ख )मुण्टकोपनिषदः (ग) कठोपनिषदः
  10. वेदाङ्गानां संख्या कति  ?  (क) ४  (ख) ५  (ग) ६

ഈയാഴ്ചയിലെ വിജയി

SREESANKAR P M

“അഭിനന്ദനങ്ങള്‍”

9 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Sreesankar P M
  • Adidev C S
  • Adwaith C S
  • Amrutha C J
  • Harikrishnan

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

 

सर्वशक्तं धनं मतम् – 20-10-2018

 

नूतना समस्या –

“सर्वशक्तं धनं मतम्”

ഒന്നാംസ്ഥാനം

धनतीति धनं प्रोक्तं
सर्वचित्तप्रचोदकम्।
जीवने सुखदं वस्तु
सर्वशक्तं धनं मतम्।।

Vrinda Vadakkoott

“അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM – 20-10-2018

 

प्रश्नोत्तरम्।

 

 

 

  1. अहं घटीम् ——-।(क) अपश्यत् (ख) अपश्यः (ग) अपश्यम्
  2. आवां पुस्तकम् ——-।(क) अपठत् (ख) अपठाव (ग) अपठाम
  3. वयं पत्रम् ———।(क) अलिखाम (ख) अलिखम् (ग) अलिखत्
  4. ते बालिके ———। (क) अगच्छत् (ख) अगच्छताम् (ग)अगच्छन्
  5. ताः महिलाः भोजनम् ———–। (क) अखादन् (ख) अखादाम (ग) अखादत
  6. ह्यः अहं विद्यालयं न ———।(क) अगच्छम् (ख)अगच्छाव (ग)अगच्छाम
  7. यूयं किं कार्यम् ———-। (क) अकुरुताम् (ख) अकुर्म (ग)अकुरुत
  8. त्वं कुत्र ——-?(क)अगच्छत् (ख) अगच्छः (ग) अगच्छम्
  9. युवां गीतम् ——–। (क) अगायत् (ख) अगायतम् (ग) अगायाम
  10. सः ह्यः चलचित्रम् ———-। (क) अपश्यम् (ख)अपश्याम (ग) अपश्यत्

ഈയാഴ്ചയിലെ വിജയി

MAYA P R

“അഭിനന്ദനങ്ങള്‍”

9 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Maya P R
  • Dawn Jose
  • Adidev C S
  • Devananda S Sajith

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

 

नारीणां गतिरीदृशी – 13-10-2018

 

नूतना समस्या –

“नारीणां गतिरीदृशी”

ഒന്നാംസ്ഥാനം

पुरा महानसे बद्धाः
विद्यया या विमोचिताःI
ताभिर्देवार्चना नेति
नारीणां गतिरीदृशी ॥

V Madhavan Pillai

“അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM – 13-10-2018

प्र

 

प्रश्नोत्तरम्।

 

 

  1. भारतस्य ४६ तमः मुख्यन्यायाधीशः कः ?(क) रञ्जन् देशाय् (ख) रञ्जन् गोगोय् (ग) रञ्जित् गोगोय्
  2. ऐक्यराष्ट्रसभायाः “चाम्प्यन्स् ओफ् दि एर्त् “( Champions Of the Earth ) पुरस्कारेण आदृतः कः ?(क) व्लाडिमिर् पुटिन् (ख) रोणाल्ड् ट्रम्प् (ग) नरेन्द्रमोदी
  3. ” सुमो गुस्ति ” कस्य राज्यस्य कायिकविनोदः भवति ? (क) जप्पान् (ख) जर्मनि (ग) इङ्लण्ट्
  4. प्रथम सन्तोष् ट्रोफी स्पर्धा कुत्र प्राचलत् ? (क) चेन्नै  (ख) कोल्कोत्ता (ग) केरलम्
  5. ” बिहु ” कस्य राज्यस्य नृत्तरूपं भवति ?(क) आस्साम् (ख) आन्ध्राप्रदेशः (ग) काश्मीरः
  6. ” आकाशवाणी ” इति नाम कः निरदिशत् ? (क) बालगङ्गाधरतिलकः (ख) बङ्किं चन्द्र चाटर्जी (ग) रवीन्द्रनाथ टागोर्
  7. ऐक्यराष्ट्रसभायाः पताकायाः वर्णः कः ? (क) रक्तवर्णः (ख) श्वेतवर्णः (ग) नीलवर्णः
  8.  ” मिस् यूणिवेऴ्स् ” (Miss Universe) स्थानं प्राप्ता प्रथम भारतीय युवती का ? (क) सुस्मिता सेन् (ख) ऐश्वर्या राय् (ग) श्रद्धा शशीधरः
  9. भारते लोकसभाङ्गं भवितुम्  अपेक्षितः वयः कति ? (क) १८  (ख)  २१  (ग)  २५
  10. भारतस्य बृहत्तमं नगरं किम् ? (क) चेन्नै  (ख) मुम्बय् (ग) कोल्कोत्ता

 

ഈയാഴ്ചയിലെ വിജയി

ADIDEV C S

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Adidev C S
  • Devavananda S sajith
  • Adwaith C S
  • Arsha Pavithran
  • Aswini K P
  • Mariya  K W
  • Harikrishnan C U

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

 

 

चन्द्रिकाभरितं नभः – 06-10-2018

 

नूतना समस्या –

“चन्द्रिकाभरितं नभः”

ഒന്നാംസ്ഥാനം

उष्णरश्मिर्गतो मन्दं
भूमिर्जाता सुशीतला।
सर्वाणि रजतं कुर्वत्-
चन्द्रिकाभरितं नभः।।

Sandeep P M

“അഭിനന്ദനങ്ങള്‍”