Category Archives: Sanskrit Live

स्वातन्त्र्यं कस्य न प्रियम् (भागः 455) 08-08-2026

EPISODE – 455

नूतना समस्या –

“स्वातन्त्र्यं कस्य न प्रियम्”

प्रथमस्थानम्

“പാരതന്ത്ര്യം ന വാഞ്ഛന്തി
മനസാപി ന മാനിനഃ
പാരതന്ത്ര്യാത് മൃതിഃ ശ്രേഷ്ഠാ
സ്വാതന്ത്ര്യം കസ്യ ന പ്രിയം?
“

Radhakrishnan

“अभिनन्दनानि”

शृणु रामकथां सखे (भागः 454) 01-08-2026

EPISODE – 454

नूतना समस्या –

“शृणु रामकथां सखे”

प्रथमस्थानम्

“सर्वैरप्यनुसर्तव्यं
भूमौ कर्मफलं नरैः ।
स्मारयन्तीं सदा रम्यां
शृणु रामकथां सखे” ॥

Ramachandran

“अभिनन्दनानि”

 

दुस्तरो नैव सागरः (भागः 453) 25-07-2026

EPISODE – 453

नूतना समस्या –

“दुस्तरो नैव सागरः”

प्रथमस्थानम्

“മാരുതിസ്തീർണവാന ബ്ധിം
മാർഗമാണസ്തു മൈഥിലീം
മഹതാം കിന്നു ദുസ്സാധം?
ദുസ്തരോ നൈവ സാഗര :
“

Radhakrishnan

“अभिनन्दनानि”

निराशा दुःखदायिका (भागः 452) 18-07-2026

EPISODE – 452

नूतना समस्या –

“निराशा दुःखदायिका”

प्रथमस्थानम्

“ദുർജനോ ദൂരത സ്ത്യാജ്യ:
ദുർവ്യയോ നാശകാരക:
ദുശ്ചിന്താ സർവഥാ ഹേയാ
നിരാശാ ദുഃഖദായികാ
“

Radhakrishnan

“अभिनन्दनानि”

 

दुरन्तः पुनरागतः (भागः 451) 11-07-2026

EPISODE – 451

नूतना समस्या –

“दुरन्तः पुनरागतः”

प्रथमस्थानम्

“അഹോ! സഞ്ജനയൻ ഭീതിം
ജനചിത്തേഷു കേരളേ
കല്ലാടിനാമകേ ദേശേ
ദുരന്ത: പുനരാഗത :
“

Radhakrishnan

“अभिनन्दनानि”

बुभुक्षा दुःखदायिका (भागः 450) – 04-07-2026

EPISODE – 450

नूतना समस्या –

“बुभुक्षा दुःखदायिका”

प्रथमस्थानम्

“प्राज्ञैः दुःखत्रयं प्रोक्तं
तत्र ह्येकन्तु भौतिकम् ।
तत्राप्युदरसम्बन्धा
बुभुक्षा दुःखदायिका” ॥

Deepa

“अभिनन्दनानि”

धन्यं मामकजीवितम् (भागः 449) 27-06-2026

EPISODE – 449

नूतना समस्या –

“धन्यं मामकजीवितम्”

प्रथमस्थानम्

“പരദുഃഖം ഹി മേ ദുഃഖം
പരസുഖം ച മേ സുഖം
സമത്വപൂർണ ലോകശ്ചേത്
ധന്യം മാമക ജീവിതം”

Narayanan N

“अभिनन्दनानि”

योगो देहसुखात्मकः (भागः 448) 20-06-2026

EPISODE – 448

नूतना समस्या – 

“योगो देहसुखात्मकः”

प्रथमस्थानम्

“नराणां बालकानाञ्च
नारीणां गृहमेथिनाम् ।
आबालवृद्धवर्गाणां
योगो देहसुखात्मकः” ॥

Ramachandran

“अभिनन्दनानि”

स्त्रीयात्रा चास्तु सौख्यदा (भागः 447) 13-06-2026

EPISODE – 447

नूतना समस्या –

“स्त्रीयात्रा चास्तु सौख्यदा”

प्रथमस्थानम्

“നാരീണാം പൂജനം യത്ര
തുഷ്യന്തി തത്ര ദേവതാ:
വിനാ ശുല്കേന ബസ് യാനേ
സ്ത്രീയാത്രാ ചാസ്തു സൗഖ്യദാ”

Bhaskaran N K

“अभिनन्दनानि”

वृक्षः पुत्रसमः स्मृतः (भागः 446) 06-06-2026

EPISODE – 446

नूतना समस्या –

“वृक्षः पुत्रसमः स्मृतः”

प्रथमस्थानम्

“छायादानेन सर्वेभ्यः
प्रकृतेः रक्षणेन च ।
सफलश्चोन्नतो हन्त
वृक्षः पुत्रसमः स्मृतः” ॥

Vijayan V Pattambi

“अभिनन्दनानि”