Category Archives: Sanskrit Live
त्यक्तं शैत्यं हि रात्रिणा (भागः ४१२) 11-10-2025
EPISODE – 412
नूतना समस्या –
“त्यक्तं शैत्यं हि रात्रिणा”
प्रथमस्थानम्
“ജനാനാബാലവൃദ്ധം ഹാ!
ശീതോ നു ബാധതേ നനു
പരിക്രാമതി കാലേ തു
ത്യക്തം ശൈത്യം ഹി രാത്രിണാ”
Radhakrishnan
“അഭിനന്ദനങ്ങൾ”
महात्मा कस्य न प्रियः (भागः ४११) 04-10-2025
EPISODE – 411
नूतना समस्या –
“महात्मा कस्य न प्रियः”
प्रथमस्थानम्
“अल्पवस्त्र: महा पुण्यः
दण्डधारी महाव्रतः ।
पिता नो भारतस्यास्य
महात्मा कस्य न प्रियः ॥“
Ramachandran
“अभिनन्दनानि”
विद्यारम्भं प्रकुर्वताम् (भागः ४११) 27-09-2025
EPISODE – 411
नूतना समस्या –
“विद्यारम्भं प्रकुर्वताम्”
प्रथमस्थानम्
“विद्या वन्द्या सदा शक्ता
सद्यैव शुभदायिनी ।
अतो नो गुरुभि: प्रोक्तं
विद्यारम्भं प्रकुर्वताम् ॥“
Sridevi
“अभिनन्दनानि”
कन्यामासे प्रवर्षति(भागः ४१०) 20 – 09-2025
EPISODE – 410
नूतना समस्या –
“कन्यामासे प्रवर्षति”
प्रथमस्थानम्
“മാരുത: ശീതലോ വാതി
മേഘൈർമേദുരമംബരം
ക്വചിത് സൗദാമിനീ ചാപി
കന്യാമാസേ പ്രവർഷതി”
Atheetha
“अभिनन्दनानि”
सुखदं व्याघ्रदर्शनम् (भागः ४०९) 13-09-2025
EPISODE – 409
नूतना समस्या –
“सुखदं व्याघ्रदर्शनम्”
प्रथमस्थानम्
“तृश्शूर् नगरमध्ये तु
व्याध्रकेलि: प्रभासते ।
सर्वेभ्यो मानवेभ्यस्तु
सुखदं व्याघ्रदर्शनम् ॥“
Vijayan V Pattambi
“अभिनन्दनानि”
श्रावण: कस्य न प्रियः? (भागः 408) 06-09-2025
EPISODE – 408
नूतना समस्या –
“श्रावण: कस्य न प्रियः?”
प्रथमस्थानम्
“प्रतिवर्षं समायति
केरलेषु महत्तमः।
हर्षदश्चात्र सर्वेभ्यो
श्रावणः कस्य न प्रियः?“
Sridevi
“अभिनन्दनानि”
हस्तो हसन् समागतः (भागः ४०७) 30-08-2025
EPISODE – 407
नूतना समस्या –
“हस्तो हसन् समागतः”
प्रथमस्थानम्
“ആഘുഷ്യന്തേ ജനൈസ്സർവൈ:
സാഘോഷം ശ്രാവണോത്സവഃ
തുഷ്ടാ: ഭവന്തി തേ സർവ്വേ
ഹസ്തോ ഹസൻ സമാഗത:“
Bhaskaran N K
“अभिनन्दनानि”
कर्कटको हि दुर्घटः (भागः ४०६) 23-08-2025
EPISODE – 406
नूतना समस्या –
“कर्कटको हि दुर्घटः”
പ്രഥമസ്ഥാനം
അകസ്മാദ്വൃഷ്ടിരായാതി
സഹസാ മേഘഗർജനം
ഘോരാതപശ്ച തന്മധ്യേ
കർക്കടകോ ഹി ദുർഘട:
Radhakrishnan
“അഭിനന്ദനങ്ങൾ”
नानात्वे चैकता वरा (भागः ४०५) 16-08-2025
EPISODE – 405
नूतना समस्या –
“नानात्वे चैकता वरा”
പ്രഥമസ്ഥാനം
“നാനാഭാഷാസു ഭൂഷാസു
നാനാരൂപേഷു സർവഥാ
സംസ്ഥിതാ സൂത്രരൂപേണ
നാനാത്വേ ചൈകതാ വരാ”
Radhakrishnan
“അഭിനന്ദനങ്ങൾ”
वन्दे तां वर्णभूषिताम् (भागः ४०४) 09-08-2025
EPISODE – 404
नूतना समस्या –
“वन्दे तां वर्णभूषिताम्”
प्रथमस्थानम्
“ത്രിതയേന ച വർണേന
മധ്യേ ചക്രസമന്വിതാം
ലോകൈസ്സർ വൈസ്സമാരാധ്യാം
വന്ദേ താം വർണഭൂഷിതാം”
Bhaskaran N K
“अभिनन्दनानि”













