शरीरं हि महाधनम् (भागः ४१८) 22-11-2025

EPISODE – 418

नूतना समस्या –

“शरीरं हि महाधनम्”

प्रथमस्थानम्

“न धनं धनमित्याहुः
मौक्तिकं नापि काञ्चनम् ।
आकरो सुखदुःखानां
शरीरं हि महाधनम्” ॥

Vijayan V Pattambi

“अभिनन्दनानि”

 

7 Responses to शरीरं हि महाधनम् (भागः ४१८) 22-11-2025

  1. Ramachandran says:

    यस्य नास्ति शरीरं
    लभते न सुखं क्वचित् ।
    मानवैःक्षणीयं तत्
    शरीरं हि महाधनम् ॥

  2. Radhakrishnan says:

    द्वितीयस्थानम्

    ജ്ഞാനേന്ദ്രിയാണി സർവാണി
    തഥാ കർമേന്ദ്രിയാണി ച
    ആവസന്തി തു ദേഹേഽസ്മിൻ
    ശരീരം ഹി മഹാധനം

  3. Vidya says:

    मनस्तु सुखदुःखानां
    कारणत्वेन गण्यते ।
    मानसन्तु शरीरस्थं
    शरीरं हि महाधनम् ॥

  4. Sridevi says:

    तृतीयस्थानम्

    यस्य नास्ति शरीरं तु
    तस्य सौख्यं कथं भवेत् ।
    अत एवोच्यते प्राज्ञैः
    शरीरं हि महाधनम् ॥

  5. Vijayan V Pattambi says:

    प्रथमस्थानम्

    न धनं धनमित्याहुः
    मौक्तिकं नापि काञ्चनम् ।
    आकरो सुखदुःखानां
    शरीरं हि महाधनम् ॥

  6. Narayanan Namboothiri says:

    शरीरं नास्त्यपि मित्र !
    स्नातुं भोक्तुन्न शक्यते ।
    पालनीयं जनैः सर्वैः
    शरीरं हि महाधनम् ॥

Leave a Reply

Your email address will not be published. Required fields are marked *