वर्षान्तं हि समागतम् (भागः ४२०) 06-12-2025

EPISODE – 420

नूतना समस्या –

“वर्षान्तं हि समागतम्”

प्रथमस्थानम्

“ഷഡ്വിംശത്യധികോപേത –
ദ്വിസഹസ്രേ സമാഗതേ
നിർവ്വാചനോത്സവൈസ്സാകം
വർഷാന്തം ഹി സമാഗതം”

Narayanan N

“अभिनन्दनानि”

 

8 Responses to वर्षान्तं हि समागतम् (भागः ४२०) 06-12-2025

  1. NARAYANAN. NI says:

    3
    നവവർഷസൃ പ്രാരംഭോ
    അചിരേണൈവ പ്രസ്ഥിതേ
    നിർവ്വാചനഫലൈർയുക്തം
    വർഷാന്തം ഹി സമാഗതം

  2. NARAYANAN. NI says:

    प्रथमस्थानम्

    ഷഡ്വിംശത്യധികോപേത –
    ദ്വിസഹസ്രേ സമാഗതേ
    നിർവ്വാചനോത്സവൈസ്സാകം
    വർഷാന്തം ഹി സമാഗതം

  3. NARAYANAN. NI says:

    1
    മതദാനഫലൈസ്സാകം
    നവവർഷോദയംദ്രഷ്ടും
    പരിമിതേ ദിനേ ശിഷ്ടേ
    വർഷാന്തം ഹിസമാഗതം

  4. Ramachandran says:

    सञ्चिनोतु हि सन्देशान्
    नववर्षशुभाकरान् ।
    सप्ताहेषु समाप्तेषु
    वर्षान्तं हि समागतम् ॥

  5. Narayanan Namboothiri says:

    द्वितीयस्थानम्

    उत्सवेष्वन्तिमश्चास्ति
    क्रिस्तुदेवस्य ह्योत्सवः ।
    उत्सवान्ते विजानीहि
    वर्षान्तं हि समागतम् ॥

  6. Sridevi says:

    द्वादशेषु चातीतेषु
    मासेषु क्रमशः पुनः ।
    प्रतीक्षां वर्धमानं तत्
    वर्षान्तं हि समागतम् ॥

  7. Vijayan V Pattambi says:

    तृतीयस्थानम्

    वर्षणं स्थगितं पूर्णं
    कर्षको मुक्तकर्मकः ।
    वातश्च शक्तिमापन्नः
    वर्षान्तं हि समागतम् ॥

  8. Pushpavathi says:

    पुष्पाणां निचयं कृत्वा
    दिसम्बर् तु समागतः ।
    ग्रीष्माधिक्यं ततो बुद्धवा
    वर्षान्तं हि समागतम् ॥

Leave a Reply

Your email address will not be published. Required fields are marked *