Category Archives: News Updates

केरल काण्ग्रेस् अध्यक्षः तथा विधानसभा सामाजिकः भूतपूर्वमन्त्री के.एम्. माणी वर्यः दिवंगतः।

कोच्ची- केरलराज्यनैतिकरंगे चाणक्यसदृशः केरलकाण्ग्रेस् अध्यक्षः, भूतपूर्वमन्त्री, सामाजिकश्च के.एम्. माणीवर्यः कालकबलीभूतः। सः ८६ वयस्कः आसीत्। एरणाकुलस्थे निजीयचिकित्सालये आसीदन्त्यम्। श्वासकोशसम्बन्धेन आमयेन पीडितः तीव्रपरिचरणविभागे निरीक्षणे आसीत्। आमयस्थितेः गौरवेण सायं पञ्चवादने स मृतिमुपगतः। पालामण्डलस्य सामाजिकः अस्ति।
गते रविवासरे स चिकित्सालयं प्रवेशितः। अद्य प्रातः ईषद्रोगशान्तिः आवेदिता आसीत्। परं सायं त्रिवादनात् आमयावस्था मूर्च्छिता।
केरले बहुकालपर्यन्तं वित्तमन्त्रिपदमलंकृतः सः एकस्मादेव मण्डलात् बहुकालं सामाजिकत्वेन चितः। स अभिभाषकोप्यासीत्।

आराधनालयानां नियन्त्रणं किमर्थं सर्वकारीयकर्मकरैः क्रियते इति सर्वोच्चन्यायालयः।

नवदिल्ली- धर्मस्थापनानि मन्दिराणि च सर्वकारीयकर्मकराणां नियन्त्रणे कीमर्थं स्थापनीयानि इति सर्वोच्चन्यायालयः संशयं प्राकटयत्। पुरी जगन्नाथमन्दिरे भक्तैः अनुभूयमानान् क्लेशान् मन्दिरकर्मकराणां चूषणानि च संसूच्य समर्पितम् आवेदनं परिगणयन्तौ न्यायाधीशौै एस्,ए. बाब्डे, एस्.ए. नसीर् च एवमुक्तवन्तै।

     सर्वकारनियन्त्रणस्था‌ संघाः राज्यस्थानि निरवधिकानि मन्दिराणि नियन्त्रयन्ति। कस्मिंश्चन धर्मनिरपेक्षे राष्ट्रे मन्दिराणां नियन्त्रणं कथं सर्वकारे निक्षेप्तुं शक्यते इति न्यायाधीशौ अपृच्छताम्।

      जगन्नाथमन्दिरसंबन्धः व्यवहारः आगामिनि मासे परीगणयितुं न्यायालयः निरचिनोत्।

राज्ये सूर्याघातजाग्रतानिर्देशः अनुवर्तते। जनाः जाग्रतानिर्देशं स्वीकुर्युः इति वातावरणनिरीक्षणकेन्द्रम्।

तिरुवनन्तपुरम्- राज्ये सूर्याघात-सूर्यातप-जाग्रतानिर्देशः अनुवर्तितः। वयनाड् मण्डलादृते सर्वेषु मण्डलेषु आगामिनि दिवसे तापमानम् ऊर्ध्वं गच्छेत् इति वातावरणनिरीक्षणकेन्द्रस्य सूचना।

     जनैः जाग्रद्भिः भाव्यम् इति वातावरणनिरीक्षणकेन्द्रं निर्देशं ददाति। द्वे डिग्रीतः त्रीणिडिग्री पर्यन्तं तापमानवर्धनं भविता।

     तापमानवर्धनेन सूर्याघातस्य सूर्यातपस्य च साध्यता अस्तीति वातावरणनिरीक्षणकेन्द्रं सूचनां दददस्ति।

जानपद सेवा परीक्षा – अनुसूचितजनजातिविभागात् श्रीधन्यायाः ऐतिहासिकविजयः।

नवदिल्ली- जानपदसेवापरीक्षायाः फलं प्रकाशितम्। कनिषाक् कटारिया नामकः प्रथमश्रेणीं प्राप्तवान्। केरले वयनाट् देशीया श्रीधन्या ४१० तमां श्रेणीम् अवाप। कुरिच्य इत्याख्यात् अनुसूचितजनजातिविभागात् जानपदसेवापरीक्षाम्  उत्तीर्णा प्रथमा भवति श्रीधन्या।
श्रेणीपट्टिकायां श्रीधन्यायाः ऋते श्रीलक्ष्मी (२९), रञ्जिना मेरी वर्गीस्( ४९), अर्जुन् मोहन्( ६६) इत्येते केरलीया अपि सन्ति।
प्रथम २५ जेतृषु १५ पुरुषाः १० स्त्रियश्च भवन्ति।

अध्यापकानां विरामकालप्रशिक्षणस्य स्थाने इतः परं प्रशिक्षणशिल्पशाला।

चेरुवत्तूर्- अध्यापकानां विरामकालप्रशिक्षणं समग्रतया परिवर्तयति। प्रशिक्षणस्य स्थाने शिल्पशालैव अस्मिन् वर्षे समायोज्यते। दिनचतुष्टयं अक्कादमिकप्रशिक्षणं तथा दिनचतुष्टयं सूचनातान्त्रिकविद्यां च परिचाययति।राज्यस्तरीय प्रशिक्षकसंघानां शिल्पशाला राज्ये विविधेषु केन्द्रेषु समारब्धा। अक्कादमिकप्रवर्तनानां प्रगतिः अनुस्यूतता इति विषये एव शिल्पशाला आयोजिता।

मलयालत्तिलक्कं, हलो इंग्लीष्, गणितविजयं, पठनोतंसवः, जैववैविद्योद्यानम् इत्येतानि गतवर्षे कथं पठनप्रवर्तनस्य सहायकानि आसन् तेषां अनुवर्तनं कथं भवेत् इत्यादीनि चर्चाविषयाणि भविष्यन्ति।प्राथमिकस्तरे मेय् तृतीयदिनाङ्कात् सप्तमदिनाङ्कं यावत् तथा अष्टमदिनाङ्कात् एकादशदिनाङ्कं यावत् घट्टद्वयेन शिल्पशाला भविता। एप्रिल् २५ तः २९ पर्यन्तं जिल्लास्तरीयप्रशिक्षकाणां शिल्पशाला भविता।

उच्चतरस्थले मेय् १३तः १६ पर्यन्तं तथा १७तः २१पर्यन्तं घट्टद्वयेन शिल्पशाला आयोजयिष्यति। कैट् संस्थायाः नेतृत्वे चतुर्दिवसीयं तान्त्रिकविद्या प्रशिक्षणं पृथक् भविता।

केरलराज्ये जूण् मासपर्यन्तम् उष्णकालमनुवर्तिष्यते।

तिरुवनन्तपुरम्- जूण् मासावधि अत्युष्णात् केरलराज्यं तप्येत। समयेस्मिन् केरलस्य तापमानं दीर्घकालसामान्यादधिकं भविता इति वातावरणविभागस्य निगमनम्।

     आराष्ट्रं एप्रिल् तः जूण् परंयन्तं सामान्योष्णस्य वर्धनामधिकृत्य वातावरणविभागेन दीर्घकालनिगमनं प्रकाशितम्। एतदनुसृत्य केरलेषु अस्मिन् काले आपाततः अर्धं डिग्रीतः एकं डिग्रीपर्यन्तं तापवर्धनं भविता।

     आगामिनि काले केरलेषु प्रातःकाले अनुभूयमानः तापः सामान्यतो अर्धं डिग्री अधिकः स्यात्। राष्ट्रे उष्णतरङगमेघलासु अधिकतापः अनुभूयमानो भवेत् इत्यपि वातावरणविभागस्य सूचना।

पुल्वामायां चतुरः तीव्रवादिनः जघान, त्रयः सुरक्षाभटाः रुग्णाः जाता।

श्रीनगर् – जम्मु-काश्मीरे पुल्वामायां तीव्रवादिभिः सह संघट्टने चत्वारः तीव्रवादिनः हताः, सममेव त्रयः सुरक्षाभटाः निहताश्च। लष्कर् ई तोय्बे इत्याख्यस्य संघस्य प्रवर्तकाः एव मारिताः। पुल्वामायां तीव्रवादिभिः सह संघट्टनम् अनुवर्तते इत्यावेदनम्।

     रहस्य सूचनानुसारं सुरक्षाभटाः पुल्वामायां लास्सिप्पोरा स्थले मार्गणं कुर्वन्तः आसन्। तदन्तरे भीकराः गोलिकाप्रहारमकुर्वन्। तदनन्तरं सञ्जाते संघट्टने एव चतुर्णां भीकराणाम् अन्त्यमभवन्।

कुजग्रहे जीवसन्धारणं स्थापयितुं निदानेन सह नासायाः परीक्षणम्।

न्यूयोर्क- कुजग्रहे जीवसन्धारणं शक्यमिति अनुमानेन सह नासा संस्था आयाति। राष्ट्रान्तरीय बहिराकाशनिलये कृतात् परीक्षणात् जीवसन्धारणं शक्यमिति सूचना लब्धा।

     कुजपर्यवेक्षणात् लब्धां सूचनामाधारीकृत्य कुजमण्डलसमानं साहचर्यं कृतकरूपेण संसृष्ट्य सूक्ष्मजीवीन् सस्यजालानि च निलयं संप्रेष्य एव परीक्षणं जातम्। बयोमेट्स् इत्यासीत् परीक्षणस्य नाम। ५३३ दिनानि यावत् तानि सस्यानि सूक्ष्मजीविनश्च बहिराकाशनिलये जीवान् धारयन्ति अत्यन्तं दुष्करं साहचर्यं सन्तारयामासुः।

     कुजग्रहे जीवसन्धारणस्य निदानमेवेदमिति शास्त्रज्ञानाम् अभिप्रायः। सौरयूथे भूमिमतिरिच्य जीवस्य साध्यता कुजग्रहे एवास्तीत्यतः इदं परीक्षणं शास्त्रलोकं कौतुकेन पश्यति।

सुप्रसिद्धा कैरलीलेखिका अषिता दिवमगात्।

तृशूर्- कैरलीसाहित्ये विख्याता लेखिका अषिता अन्तरिता। तृशिवपुरस्थे निजीयचिकित्सालये कुजवासरे रात्रौ १२.५५ वादने सा ऐहिकं दौत्यं समापूरयत्। अर्बुदरोगग्रस्ता सा चिकित्सायामासीत्।
तृशूर् मण्डलस्थे पषयन्नूर् देशे १९५६ एप्रिल् पञ्चमे दिवे आसीत् तस्याः जननम्। केरलसर्वकलाशालायाम् जेर्णलिसं विभागे अध्यपकः डो. के.वी. रामन्कुट्टी अस्याः पतिः भवति।
अस्याः प्राथमिकी शिक्षा दिल्ल्यां मुम्बैय्यां च सम्पन्ना। एरनाकुलं महाराजकलालयात् आङ्गलसाहित्ये स्नातकोत्तरबिरुदं सम्पादितवती। स्त्रीजीवितस्य विह्वलतां व्याकुलतां च तस्याः कथासु प्रतिफलति। बालसाहित्ये कथासाहित्ये आत्मीयग्रन्थरचनायां च सा निष्णाता आसीत्।

केरलस्य उत्सङ्गसङ्गणकपद्धतिः -मुख्यमन्त्री मुद्राम् उदघाटयत्।

तिरुवनन्तपुरम्- केरलस्य स्वीयम् उत्सङ्गसङ्गणक-ग्राहकवितारकं कोक्कोणिक्स् नामकम् अचिरेण प्रवृत्तिपथमायाति। अस्याःपद्धतेः मुद्रा मुख्यमन्त्रिणा पिणरायि विजयन् वर्येण प्रकाशिता। उद्योगमन्त्री ई.पी. जयराजन् वर्यः कोक्कोणिक्स् संस्थया निर्मितम् उत्सङ्गसङ्गणकम् मुख्यमन्त्रिणे समार्पयत्।

     केक्कोणिक्स् संस्थायाः प्राथमिकपङ्क्तिसंगणकानि फेब्रुवरी11 दिनाङ्के दिल्ल्यां सम्पत्स्यमानायाम् अङ्कीयवैद्युतक -निर्माणोच्चकोट्यां(Electronics Manufacturing Summit) अवतारयिष्यति। केल्ट्रोण् आख्या सार्वजनीनसंस्था य़ु.एस्.टी. ग्लोबल् इति अङ्कीयवैद्युतकनिर्माणरंगस्थया आगोलसंस्थया सह मिलित्वा एवकेरले एव गुणयुतम् उत्सङ्गसङ्गणकं निर्मातुं प्रयतते।

     इन्टेल् इति इलट्रोणिक्स् निर्माणसंस्थायाः मार्गनिर्देशान् अङ्कीयज्ञानं च अवाप्य कोक्कोणिक्स् इति सार्वजनीन-निजीयसंरम्भस्य रूपकल्पना जाता।