निदाघविरामानन्तरं राज्यस्थाः विद्यालयाः श्वः प्रवर्तनसज्जाः भवन्ति।

 तिरुवनन्तपुरम्- द्विमासावधिकस्य विरामस्य पश्चात् राज्यस्थाः विद्यालयाः श्वः प्रवर्तनसज्जाः भवन्ति। प्रथमतः द्वादशपर्यन्तं वर्गाः एकस्मिन्नेव दिवसे समारभ्यन्ते इति विशेषः अस्मिन् वर्षे अस्ति।

     37 लक्षं छात्राः श्वः विद्यालयं प्रविशन्ति। सर्वकारीय-धनादत्त-निजीयविद्यालयेषु प्रथमकक्ष्यायां 360000 छात्राःअस्मिन् वर्षे प्रविष्टाः। प्रथमतः द्वादशपर्यन्तं वर्गेषु छात्राः एकस्मिन्नेव दिने विद्यालयं प्रविशति इत्यतः शिक्षाविभागः विपुलं सज्जीकरणं समायोजयत्। राज्यस्थेषु 1500 विद्यालयेषु आधारसुविधाविकासः सर्वकारेण आयोजितः।

     अद्य परिस्थितिदिनमस्ति। विद्यालयानां विराम इत्यतः विद्यालयेषु परिस्थितिदिनाचरणं श्वः भविष्यति। वृक्षरोपणादयः बहवः कार्यक्रमाः परिस्थितिदिनस्य भागत्वेन विद्यालयेषु आयोज्यन्ते।

Leave a Reply

Your email address will not be published. Required fields are marked *