Category Archives: News Updates
सोलार् वञ्चनाकाण्डः- नेतारः आगस्कारिणः
तिरुवनन्तपुरम्- केरलेषु राजनैतिकक्षेत्रे विवादास्पदभूते सोलार् वञ्चनाकाण्डे व्यवहारपञ्जीकरणाय मन्त्रिसभा अधिवेशने निर्णयो जातः। भूतपूर्वः मुख्यमन्त्री श्री.उम्मन् चाण्टी तस्य द्वित्राः सहमन्त्रिणः तदानीन्तनः केन्द्रमन्त्री लोकसभा नियमसभासामाजिकेषु केचन च अस्मिन् विषये आगस्कारिणः भवन्ति। वञ्चनाकाण्डे/स्मिन् प्राड्विवाकीयान्वेषणं कृतवान् ज. शिवराजमहाभागः।तेषामधिगमं निर्देशं चानुसृत्यैव अयं निर्णयः। अत्याचारः, उत्कोचं, बलात्कारः, साक्षित्वविनाशनम्, अधिकारदुर्विनियोगः इत्यादीनी अत्र आगसां पट्टिकायां सन्ति। अत्याचार निरोधननियमः पातककर्मोपचारः(Criminal Proceedings)चानुसृत्यैव व्यवहारस्य पञ्जीकरणं भविष्यति।
अनुपं खेर् – पूणे चलचित्र निकायस्य अध्यक्षः।
विख्यातः चलचित्रनटः अनुपं खेर् महाभागः पूणे चलचित्रनिकायस्य अध्यक्षत्वेन चितः। गजेन्द्र चौहानस्य विरामानन्तरं निकायस्यास्य अध्यक्षस्थाने अधुनैव नियुक्तिः जाता।
पञ्चशताधिकेषु चलचित्रेषु नायक-प्रतिनायक-विदूषकवेषेषु अभिनीय पद्मश्री पद्मभूषण् पुरस्काराभ्याम् अयं सम्मानितः भवति। केन्द्रीय चलचित्रनिरीक्षक समितेः तथा राष्ट्रिय नाटक निकायस्य़ च अध्यक्षश्च अयम् विख्यातः नाटकाभिनेता च भवति।
साम्पत्तिकमान्द्यमवरोद्धुं समितेः अवलोकनम् अद्य।
नवदिल्ली – प्रधानमन्त्रिणो आर्थिक-परामर्श-प्रदानार्थं सद्य संघटिता परिषद् अद्य नवदिल्ल्यां नीत्यायोगभवने इदंप्रथमतया सम्मिलति। भारतीय अर्थव्यवस्थायां साम्प्रतम् अवलोक्यमानं मान्द्यमवरोद्धुं प्रधानमन्त्रिणा श्री नरेन्द्रमोदिना आर्थिक-विषय-विशेषज्ञानां पञ्चसदस्यात्मिका काचन समितिः विगतमासान्ते संघटितासीत्।
विद्यालयसुरक्षामधिकृत्य शीर्षन्यायालयः।
शीर्षन्यायालयेन सकलानि राज्यप्रशासनानि निर्द्दिष्टानि यत् तैः देशस्य प्रत्येकं विद्यालये विद्यार्थिनां सुरक्षार्थं केन्द्रेण प्रसारितानां दिङ्निर्देशानाम् अनुपालनं सुनिश्चेतव्यम्। सन्दर्भे∫स्मिन् ह्यो याचिकां शृण्वता मुख्यन्यायाधीशस्य न्यायमूर्त्तेः दीपकमिश्रस्य अध्यक्षतायुतेन न्यायखण्डपीठेन स्पष्टीकृतं यद् राज्यशासनैः विद्यालयीयसुरक्षाविषयकं प्रतिवेदनमपि प्रस्तोतव्यम्।
दुरन्तमनुवर्तते-उत्तरप्रदेशे पुनरपि शिशुमरणम्।
वयलार् पुरस्कारः टी.डी. रामकृष्णाय ।
तिरुवनन्तपुरम्. अस्य वर्षस्य वयलार् पुरस्कारः नोवल्काराय श्रीमता टी.डी. रामकृष्णन् महाभागाय। तस्य सुगन्धी एन्न आण्टाळ् देवनायकी इति आख्यायिकाम् उपजीव्यैव पुरस्कारः प्रख्यापितः। इतः पूर्वमपि ग्रन्थमिममुपजीव्य रामकृष्णाय बहवः पुरस्काराः प्राप्ताः।
वयलार् महाशयस्य अनुस्मरणाय कल्पिते अस्य मासस्य २७ तमे दिने पुरस्कारं प्रदास्यति। श्रीलङ्का राष्ट्रस्य राजनैतिकीम् अवस्थां परिकल्प्य रचिता भवति इयमाख्यायिका।
केरऴान् अभिनन्द्य राष्ट्रपतिः।
कोल्लम्. केरलदेशं संघर्षभरितराज्यमिति भा.ज.पा. दलस्य तीव्रहिन्दुत्वदलानां च प्रचारणाभ्यन्तरे राष्ट्रपतिः श्री. रामनाथकोविन्दः केरलान् मुक्तकण्ठं प्राशंसयत्। धर्मसौहार्दस्य धर्मनिरपेक्षतायाः साहोदर्यस्य च उत्तमोदाहरणं भवति केरशदेशः देशवासिनश्च इति स प्रत्यपादयत्। कोल्लम् अमृतपुर्यां अमृतानन्दमयीदेव्याः चतुष्षष्टितमस्य जन्मदिनसमारोहस्य उद्घाटनं विधाय भाषमाणः आसीत् सः। तस्मिन्नन्तरे राष्ट्रपतेः स्वीकरणवेलायां शिष्टाचारः न पालितः इत्याक्षिप्य विपक्षदलनेता रमेश् चेन्नित्तला वर्यः राष्ट्रपतये निवेदनमदात्।
अद्य वायुसेनादिवसः।
राष्ट्रपतिः श्वः केरलदेशे
तिरुवनन्तपुरम्- द्विदिवसीय सन्दर्शनार्थं राष्ट्रपतिः श्री. रामनाथ कोविन्दः श्वः केरलदेशं प्राप्स्यति। माता अमृतानन्दमयी महाभागायाः चतुष्षष्टितमे जन्मगिनसमारोहे भागभाक् भवितुमेव राष्ट्रपतेः आगमनम्। कोल्लं प्रदेशे आमृतानन्दमयीमठेन आसूत्रितानां क्षेमपद्धतीनाम् उद्घाटनं स निर्वक्ष्यति। तस्य सन्दर्शनहेतोः कोल्लं जनपदे अतिशक्ता सुरक्षा आयोजिता। राष्ट्रपतिपदप्राप्तेरनन्तरं रामनाथकोविन्दः प्रथमवारमेव केरलानागच्छति। तिरुवनन्तपुरं व्योमसेनानिलये केरलराज्यपालः ज. सदाशिवं महाभागः तथा मुख्यमन्त्री पिणरायि विजयश्च तं प्रत्युद्गमिष्यतः















