दुरन्तमनुवर्तते-उत्तरप्रदेशे पुनरपि शिशुमरणम्।

गोरख्पुरम् – उत्तरप्रदेशे गोरख्पूर् बी.आर्.डी. चिकित्सालये पुनरपि शिशवः मरणमुपगताः।२४ होराभ्यन्तरे १६ शिशवः अधुना मृताः। एषु दश शिशवः नियोनेट्टल् तीव्रपरिचरणविभागे षट् शिशूनां तीव्रपरिचरणविभागे च चिकित्सायाम् आसन्।