Category Archives: News Updates
अद्य अखिललोकाायुर्वेददिवसः।
नवदिल्ली – प्रधानमन्त्री नरेन्द्रमोदी राष्ट्रीयायुर्वेद-दिवसावसरे नवदिल्ल्यां सरिताविहारे अखिलभारतीय-आयुर्वेदसंस्थानम् उद्घाटयिष्यति। अखिलभारतीय-आयुर्विज्ञान-संस्थानसदृशम् इदं तावत् प्रथमम् अखिल-भारतीय-आयुर्वेद-संस्थानं स्थापितमस्ति। आयुष् मन्त्रालयस्य अन्तर्गतं यत् स्थापितेन अनेन सर्वोच्चसंस्थानेन आयुर्विज्ञानस्य पारम्परिक-आधुनिक-ज्ञानयोर्मध्ये सहक्रियां विधास्यते।
राजपथनिर्माणप्रवर्तनानि स्थगयितुम् उद्युक्तमानानां अधोगतिः।
तिरुवनन्तपुरम् – राजपथनिर्माणप्रवर्तनानि स्थगयितुम् उद्युक्तमानानां समयाकराणाम् अनुमतिपत्रं निरासयिष्यते इति सार्वजनीननिर्मितिविभाग मन्त्री श्री. जी. सुधाकरः अवदत्। राजमार्गसंरक्षणनियमानुसारं सर्वान् कार्यविधीन् तान् विरुद्ध्य स्वीकरिष्यतीत्यपि स प्रावोचत्। शबरिमला दर्शनार्थं गतवताम् अय्यप्पभक्तानां कृते मार्गाणां पुनरुद्धारणप्रवृत्तीः समयबन्धितरूपेण स्वीकुर्यात्। तदनुसारं ३७ प्रधानमार्गाणां पुनरुद्धारणार्थं १४० कोटि रूप्यकाणि अनुददाति इति स उक्तवान्।
फिफास्पर्धा अद्य नवदिल्ल्याम्।
राज्ये ६००० औषधानि निरुद्धानि। स्वास्थ्याय हानिकराणि इत्यवगतानि।
कोच्चि – दैनन्दिनरोगस्य प्रतिविधिरूपेण साधारणजनैः उपयुज्यमानानि ४४४औषधसंयुक्तानि केन्द्रीय स्वास्थ्यमन्त्रालयेन पुनरपि निरुद्धानि। तान्यन्तर्भूतानि ६००० पर्यन्तानि औषधानि इतःपरं निर्मातुंं विक्रेतुं वा न शक्यन्ते।
गतवर्षे मार्चमासे संभूतं निरोधनं विरुद्ध्य राष्ट्स्य विविधेषु उच्चन्यायालयेषु प्रवर्तनानाः व्यवहाराः सर्वोच्चन्यायालयेन स्थगिताः आसन्। तदनन्तरमेव औषधनियन्त्रकस्य जालपुटे शुक्रवासरे रात्रौ पुनरपि विज्ञापनं प्रसिद्धीकृतम्। पारसेट्टमोल्, कफीन्, अमोक्सलिन् प्रभृतिभिः सह विविधानि औषधसंयुक्तानि स्वास्थ्याय हानिकराणि इत्यतः तानि निरुद्धानि।
वेंगरा निर्वाचने के.एन्.ए. खादरः।
मलप्पुरम् – केरलराज्यस्य वेंगरा मण्डले संभूते उपनिर्वाचने मुस्लीमलीगस्य श्री के.एन्.ए खादरः विजयं प्राप्तः। अयं कम्यूनिस्टदलस्य पूर्वतननेता आसीत्। वेंगरायां श्री खादरेण मार्क्सवादिदलस्य बषीरस्योपरि 23311 मतदानमधिकम् सम्पादितम्। तथापि पूर्वस्मिन् निर्वाचने लीगस्य कुन्न्हालिक्कुट्टी 38000 भूरिपक्षं प्राप्तवानासीदिति विषयः यु.डि.एफ् सख्यस्य पराजयमिति कल्प्यते निरीक्षकैः। मार्क्सवादिदलेन 41917, तृतीयस्थाने एस्.डि.पि.ऐ 8648, केवलं 5728 मतदानमेव भाजपा दलेन च प्राप्तम्।
प्रभावर्मा महोदयाय पद्मप्रभापुरस्कारः।
कल्पट्टा- प्रसिद्धः कविः प्रभावर्मा पद्मप्रभापुरस्कारार्थं चितः। अस्मिन् वर्षे वल्लत्तोल् पुरस्कारेणापि अयमादृतः आसीत्। ७५००० रूप्यकाणि पद्मरागखचितं फलकं प्रशस्तिपत्रं च पुरस्कारे अन्तर्भवन्ति। राज्यसभा सदस्यस्य एं.पी. वीरेन्द्रकुमार् महाभागस्य पितुः स्वर्गीयस्य पद्मप्रभा वर्यस्य नामधेये आयोजितो भवत्ययं पुरस्कारः।
केरलस्य धर्मनिरपेक्ष-संस्कृतपठनम् – विचारसभा।
इरिङ्गालक्कुटा – श्री शङ्कराचार्यसंस्कृतसर्वकलाशालायाः साहाय्येन केरलस्य धर्मनिरपेक्ष-संस्कृतपठनमित्यस्मिन् विषये नटवरम्ब् उच्चतरविद्यालये विचारसभा सुसम्पन्ना। डो. एम्.वि. नटेशः कार्यक्रमस्यास्य उद्घाटनं विषयावतरणञ्चाकरोत्। सन्दर्भे∫स्मिन् संस्कृतस्य कृते योगदानं पुरस्कृत्य सि.वि. जोस्, अम्बिका, अरविन्दाक्षप्रभृतयः समादृताः। प्रधानाध्यापिका पि.एम् ऱोसी स्वागतभाषणं, पि.टि.ए अध्यक्षः एम्.के मोहनः अध्यक्षभाषणं, सि.सि. सुरेष् बाबु कृतज्ञताभाषणं च अकुर्वन्।
विद्यालयेषु समरः निरुद्धः – उच्चन्यायालयः।
कोच्ची- विद्या निलयेषु समरः सत्यग्रहश्च मा कुरुत इति केरलीयोच्चन्यायालयेन आदेशः दत्तः। एतादृशेषु प्रवर्तनेषु निरतान् छात्रान् कलाशालायाः बहिष्कर्तुं अधिकृतैः श्रद्धा कार्या।
पठनार्थमेव छात्राः विद्यालयं कलालयं च आगछन्ति, न तु राजनैतिकप्रवर्तनाय। पठनं समरश्च युगपद् न प्रवर्तते। राजनैतिकप्रवर्तनाय प्रामुख्यम् इछति चेत् पठनं समाप्य गन्तव्यम् इत्यपि प्राड्विवाकसङ्घः निरगात्। पोन्नानि जनपदस्थे एम्. इ. एस्. कलालये छात्रसमरमनुबन्ध्य समर्पिते आवेदने निर्णयान्तरादेशं वितरयता उच्चन्यायालयेन एषः विमर्शः कृतः। कलाशालायाः अन्तः परिसरे वा समरार्थम् आवारः मार्गरोधश्च न अनुवदनीयः। एतदर्थम् अवश्यं साहाय्यं भवितव्यम् इति न्यायालयः रक्षिदलं निरदिशत्।
मातृभूमी साहित्यपुरस्कारः प्रोफ. एं.के. सानुवर्याय
कोषिक्कोट् – अस्य वर्षस्य मातृभूमी साहित्यपुरस्कारः प्रोफ. एं.के. सानुमहाशयाय घोषितः। प्रशस्तः साहित्यविमर्शकः, वाग्मी, जीवचरित्रकारश्च भवत्ययम्। कैरलीसाहितेः कृते अस्य समग्रं योगदानं परिगण्यैव पुरस्कारदानम्। लक्षद्वयरूप्यकाणि प्रशस्तिपत्रं एं.वी. देवेन रूपकल्पितं शिल्पं च पुरस्काररूपेण कल्पितानि। विष्णुनारायणन् नम्पूतिरिः, डो. एं लीलावती, सी. राधाकृष्णः इत्येते साहित्यनायकाः एनं पुरस्काराय चितवन्तः इति मातृभूमेः प्रबन्धनिदेशकः राज्यसभा सदस्यश्च श्रीमान् एं.पी. वीरेन्द्रकुमारः अवदत्।
राजनैतिकलक्ष्याय वंशीयवादाय च भाषा नोपयोक्तव्या – कोटियेरि.
तिरुवनन्तपुरम्- राजैतिकलक्ष्याय वंशीयप्रचाराय च भाषायाः उपयोगः प्रतिरोद्धव्यः इति मार्क्स् वादी-साम्यवादीदलस्य केरलराज्याध्यक्षः श्रीमान् कोटियेरि बालकृष्णः अवदत्। अनन्तपुर्यां के.एस्.टी.ए, भवने संस्कृत सङ्घस्य द्विदिनशिल्पशालाम् उद्धाटनं कुर्वन् भाषमाण आसीत् सः।
भारतस्य भाषा केवलं संस्कृतमेव, संस्कृतिश्च हिन्दुसंस्कृतिरेव इति द्रढीकर्तुं बोधपूर्वः परिश्रमः केचन अनुवर्तन्ते। संस्कृतं देवभाषा,ब्रह्मज्ञानिनः ब्राह्मणस्यैव केवलं देवान् संवक्तुमवकाशः भवति इत्यपि ते प्रचारयन्ति। अधुना केरलीयमन्दिरेषु ब्राह्मणेतराः अर्चकत्वेन नियुक्ताः। इदं कार्यं प्रतिरोद्धुमपि प्रयत्नः एतादृशैरेव क्रियते।
भारतेन लोकाय दत्तं मुख्यम् अनुप्रदानं भवति संस्कृतम् तस्य सम्पदश्च। साहित्यरङ्गे शास्त्ररङ्गे च बहूनि अनुप्रदानानि संस्कृतं विश्वाय अदात्। आधुनिकाय संस्कृतभाषा तस्य सम्पदं च बोधयितुं संविधानानि आवश्यकानि। परन्तु जनानां मध्ये वंशीयविद्वेषं जनयितुम् उपाधिरूपेण संसंकृतस्योपयोगः न कर्तव्यः।
डो.के.जी.पौलोस् वर्यस्य आध्यक्ष्ये आयोजिते अधिवेशने केरलीय शैक्षिकमन्त्री प्रो. रवीन्द्रनाथः राज्यशैक्षिकानुसन्धानप्रशिक्षणपरिषदः निदेशकः डो. जे. प्रसादः अन्ये नेतारश्च भागभाजः आसन्।












