Category Archives: News Updates
साहित्यस्य कृते नोबल् पुरस्कारः कासुवे इषिगुरो वर्याय।
जपानीय वंशजः ब्रिटीष् नोवल्(आख्यायिका)कारश्च कासुवो इषिगुरो वर्यः साहित्यविभागे नोबल् पुरस्काराय चयितः।द रिमेयिन्स् आफ् द डे प्रभृतयः बहवः आख्यायिकाः तथा लघुकथाश्च अनेन रचिताः।बहूनां चलचित्राणां कृते पटकथा अपि अनेनैव रचिताः।१९८९ तमे वर्षे अयं बुक्कर् पुरस्कारेण मानितः आसीत्।पूर्वं चतुर्वारं अस्मै पुरस्काराय तस्य नामनिर्देशःसंजातः परं अस्मिन् वर्षे एव अत्युन्नतेन एतेन पुरस्कारेण अयं सम्मानितः अभवत्। १९५४ तमे वर्षे जपाने नागसाक्कि स्थले अयं लब्दजन्मा अभवत्।
राष्ट्रस्य आर्थिकविकासमानम् अधोगतिं प्राप्नोतीति प्रधानमन्त्रिणा अङ्गीकृतम्
नवदिल्ली- राष्ट्रस्य आर्थिकविकासमानम् अधोगतिं प्राप्नोतीति प्रधानमन्त्रिणा अङ्गीकृतम्। आर्थिकवर्षस्य एप्रिल्-जूण् पादे विकासमानं न्यूनमभवत्। विकासस्य प्रत्यानयनाय सर्वकारः प्रतिज्ञाबद्धः इति स अब्रवीत्। क्रमशः वर्षत्रयं ७.५ शतमितम् आर्थिकविकासं वयं सम्पादितवन्तः। परन्तु एप्रिल्-जूण् पादे विकासस्य न्यूनता अभवत्। स एव विकासः प्रत्यानयनीयः इत्यपि सः अवदत्। नवदिल्यां ऐ.सी.एस्.ऐ. सुवर्णजयन्ती समारोहे भाषमाणः आसीत् सः। रिजर्व बैङ्क् अधिकारिणः एतत्सम्बन्धि प्रस्तावस्य पश्चादासीत् प्रधानमन्त्रिणः इयं प्रस्तावना।
इन्धनतैलस्य मूल्यं न्यनीकृतम्।
अमेरिकायां गोलिकावर्षणम् – ५० मृताः।
कोच्ची मेट्रो- द्वितीयश्रेण्याः उद्घाटनम् अद्य।
कोच्ची- कोच्ची मेट्रो योजनायाः द्वितीयश्रेणी पालारिवट्टं प्रदेशात् महाराजकलाशाला पर्यन्तं भागः यात्रायै सुसज्जः अभवत्। अस्योद्घाटनम् अद्य प्रातः १०.३० वादने मुख्यमन्त्री श्री पिणरायि विजयः निर्वक्ष्यति। केन्द्रमन्त्री श्री हर्दीप् सिंह पुरी वर्यः, विपक्षदलनेता रमेश् चेन्नित्तला, मन्त्रिणः नियमसभासामाजिकाः महानगरसभाध्यक्षप्रभृतयः सन्निहिताः भविष्यन्ति। जेवहर् लाल् नेह्रु क्रीडाङ्गणे उद्धाटनकार्य़क्रमः अयोजितः।
रोहिङ्ग्या समस्या – स्यूचीं विरुद्ध्य प्रक्षोभः।
लण्टन्-
विश्वशान्तिविषये नोबल् पुरस्कारेण समादृतायाः ओङ् सान् स्यूची महाभागायाः छायाचित्रं विश्वप्रसिद्धात् ओक्स्फोर्ट् विश्वविद्यालयात् निष्कासितम्। लण्टन् नगरस्थस्य विश्वविद्यालयस्य सेन्ट् ह्यूग्स् कलाशालायाः मुख्यद्वारे एव चित्रं प्रदर्शितमासीत्। इदानीं तत्र जपानीय कलाकारस्य योषिहिरो तगाटस्य चित्रमेव प्रदर्शितम्। रोहिङ्ग्या विषयः आगोलतले स्यूचीं विरुद्ध्य प्रतिषेधस्य कारणमासीत्। तस्मिन्नन्तरे एव विश्विद्यालयाधिकारिणां प्रवृत्तिः।
देशस्नेहः न अध्यापनीयः – उद्धव ताक्करे
मुम्बै-अक्तूबर् १.
देशस्नेहम् अस्मान् न पाठयेयुः इति भा.ज.पा. दलं स्मारयन् शिवसेनाध्यक्षस्य उद्धव ताक्करे महाशयस्य प्रस्तावः। राष्ट्रस्य आर्थिकावस्थां सूचयन् पूर्वमेव स भाषते स्म। मुद्रानिरोधस्य प्रतिकूलिनः देशद्रोहिणः, अनुकूलिनः देशस्नेहिनश्चेति अवस्था अधुना प्रतिभाति इत्यपि भा.ज.पा. दलं विमर्शय् स अभाषत।
रेयिल-यात्रिकाणां सुरक्षां सुनिश्चेतुं उपायान् समुद्घोषितवान्।
रेलयात्रासुरक्षा ‘इसरो’ साहाय्येन।
दूरदर्शनस्य भौमसम्प्रेषणं परिसमाप्यते।
नवदिल्ली – २०१७ वर्षान्त्येन दूरदर्शनस्य भौमसम्प्रेषणं समाप्तिम् एष्यति। शुक्रवासरे प्रवृत्ते प्रसार् भारती संसंथायाः उन्नते अधिवेशने अयं निर्णयः जातः। पूर्वम् एतदर्थं पर्यालोचना प्रवृत्ता तथापि निर्णयो न जातः। अधुना ट्विट्टर् माध्यमेन प्रसार् भारती अधिकृतैः एष निर्णयः प्रकाशितः। भौमसम्प्रेषणस्य प्रेक्षकाणां न्यूनता तथा राष्ट्रस्य विविधभागस्थानां सम्प्रेषणस्तूपानां परिपालनाय अधिकव्ययश्च एतस्य निर्णयस्य हेतुः। राष्ट्रे १४१२ भौमस्तूपाः इतःपर्यन्तं प्रसार् भारती संस्थया स्थापिताः।

















