राजपथनिर्माणप्रवर्तनानि स्थगयितुम् उद्युक्तमानानां अधोगतिः।

तिरुवनन्तपुरम् –  राजपथनिर्माणप्रवर्तनानि स्थगयितुम् उद्युक्तमानानां समयाकराणाम् अनुमतिपत्रं निरासयिष्यते इति सार्वजनीननिर्मितिविभाग मन्त्री श्री. जी. सुधाकरः अवदत्। राजमार्गसंरक्षणनियमानुसारं सर्वान् कार्यविधीन् तान् विरुद्ध्य स्वीकरिष्यतीत्यपि स प्रावोचत्। शबरिमला दर्शनार्थं गतवताम् अय्यप्पभक्तानां कृते मार्गाणां पुनरुद्धारणप्रवृत्तीः समयबन्धितरूपेण स्वीकुर्यात्। तदनुसारं ३७ प्रधानमार्गाणां पुनरुद्धारणार्थं १४० कोटि रूप्यकाणि अनुददाति इति स उक्तवान्।

Leave a Reply

Your email address will not be published. Required fields are marked *