राजनैतिकलक्ष्याय वंशीयवादाय च भाषा नोपयोक्तव्या – कोटियेरि.

तिरुवनन्तपुरम्- राजैतिकलक्ष्याय वंशीयप्रचाराय च भाषायाः उपयोगः प्रतिरोद्धव्यः इति मार्क्स् वादी-साम्यवादीदलस्य केरलराज्याध्यक्षः श्रीमान् कोटियेरि बालकृष्णः अवदत्। अनन्तपुर्यां के.एस्.टी.ए, भवने संस्कृत सङ्घस्य द्विदिनशिल्पशालाम् उद्धाटनं कुर्वन् भाषमाण आसीत् सः।

भारतस्य भाषा केवलं संस्कृतमेव, संस्कृतिश्च हिन्दुसंस्कृतिरेव इति द्रढीकर्तुं बोधपूर्वः परिश्रमः केचन अनुवर्तन्ते। संस्कृतं देवभाषा,ब्रह्मज्ञानिनः ब्राह्मणस्यैव केवलं देवान् संवक्तुमवकाशः भवति इत्यपि ते प्रचारयन्ति। अधुना केरलीयमन्दिरेषु ब्राह्मणेतराः अर्चकत्वेन नियुक्ताः। इदं कार्यं प्रतिरोद्धुमपि प्रयत्नः एतादृशैरेव क्रियते।

भारतेन लोकाय दत्तं मुख्यम् अनुप्रदानं भवति संस्कृतम् तस्य सम्पदश्च। साहित्यरङ्गे शास्त्ररङ्गे च बहूनि अनुप्रदानानि संस्कृतं विश्वाय अदात्। आधुनिकाय संस्कृतभाषा तस्य सम्पदं च बोधयितुं संविधानानि आवश्यकानि। परन्तु जनानां मध्ये वंशीयविद्वेषं जनयितुम् उपाधिरूपेण संसंकृतस्योपयोगः न कर्तव्यः।

डो.के.जी.पौलोस् वर्यस्य आध्यक्ष्ये आयोजिते अधिवेशने केरलीय शैक्षिकमन्त्री प्रो. रवीन्द्रनाथः राज्यशैक्षिकानुसन्धानप्रशिक्षणपरिषदः निदेशकः डो. जे. प्रसादः अन्ये नेतारश्च भागभाजः आसन्।

Leave a Reply

Your email address will not be published. Required fields are marked *