Category Archives: News Updates

उपराष्ट्रपतिः चिकित्सालयात् प्रतिनिवृत्तः

नवदिल्लीस्थे अखिलभारतीय वैद्यकशास्त्रसंस्थाने (AIIMS) ह्यः आकस्मिकचिकित्सार्थं प्रवेशितः उपराष्ट्रपतिः श्री वेङ्कय्य नायिडू अद्य चिकित्सालयात् प्रतिनिवृत्तः। वैद्याः तस्मै आन्जियोग्रां नामिकां शुश्रूषां  प्रायच्छन्। अपि च त्रिदिवसीयं विश्रमं तस्मै निरदिशन्। सन्दर्शकाः निरुद्धाः।

ब्राह्मणेतरान् अर्चकत्वेन नियोक्तुं निर्णय एव यथार्थः विप्लवः, कुम्मनम्।

तिरुवितांकूर् देवस्थानाधीनेषु मन्दिरेषु ब्राह्मणेतरान् अर्चकत्वेन नियोक्तुं सर्वकारस्य निर्णयः यथार्थतः विप्लव एवेति भा.ज.पा. दलस्य राज्याध्यक्षः कुम्मनं राजशेखरः अवादीत्। परवूर् जनपदे हिन्दू ऐक्यवेदी इति दलस्य नेतृत्वे कर्मणा ब्राह्मण्यं प्राप्तान् समादृत्य भाषमाण‌ः आसीत् सः। एदत् ऐतिहासिकं मुहूर्तं भवति सममेव अभिमानकरः असामान्यश्च अनुभवः। एतादृशः निमेषः जीवने अपूर्व एवेति स असूचयत्।

आरक्षि-स्मृति-दिवसः।

अद्य अशेषे∫पि देशे आरक्षि-स्मृति-दिवसः आयोजयिष्यते। गृहमन्त्री राजनाथसिंहः आरक्षि-स्मारक-प्राङ्गणे वीरतां गतेभ्यो भटेभ्यः श्रद्धाञ्जलीन् समर्पयिष्यति। ध्यानास्पदं वर्तते यद् गतशताब्द्याः ऊनषष्टितमे वर्षे एतस्मिन्नेव दिनाङ्के चीन-संलग्न-सीम्नि देशरक्षायां लग्नाः दशरक्षिभटाः वीरतां गताः आसन्। तेषामेव स्मृतौ दिवसो∫यं परिपाल्यते।

ताज् महल् शवकुटीर एवेति विवादः

ताजमहल् अशुभसूचनां ददाति, अतः अस्य चित्राणि गृहे न परिपालयन्तु इति भा.ज.पा. दलस्य मन्त्री अनिल् विज् महाशयः।

पूर्वं भा.ज.पा. दलस्य नेता संगीत् सोमः,  विनय् कत्यार्, सुब्रह्मण्यस्वामी इति द्वौ भ.ज.पा. दलसदस्यौ च ताजमहलं प्रति विवादरूपोण प्रस्तावनामकुर्वन्। ताजमहल् मन्दिरं भारतीयसंस्कृतिं नानुसरति इति संगीत् सोमः, शिवमन्दिरस्य स्थान एव ताजमहल् तिष्ठति इति विनय् कत्यार्, जयपुरमहाराजात् स्वायत्तीकृते स्थले ताजमहल् स्थापितमिति सुब्रह्मण्यस्वामी च अवदन्।

पाकिस्तानीय बालकाय चिकित्सायै पारगमनानुमतिपत्रं दध्यात्।

विदेशमनत्री सुषमास्वराजः इस्लामाबादे भारतीयोच्चायुक्तं निर्दिष्टवती यत् पाकिस्तानीय बालकाय चिकित्सायै पारगमनानुमतिपत्रं दध्यात्। ट्वीट् सन्देशमाध्यमेन बालकस्य पितुः अब्दुल्लाहस्य प्रार्थनां स्वीकृत्य तया आदेशो∫यं प्रदत्तः।

भीकरप्रवर्तनानि विरुद्ध्य टिबट् आत्मीयनेता दलै लामा।

ईम्फाल् – भारतस्य पौराणिकं ज्ञानं विश्वशान्त्यै प्रभवति इति टिबट् देशस्य आत्मीयनेता दलैैलामा वर्यः उक्तवान्। मणिप्पूर् राजधान्याम् इम्फाले त्रिदिवसीय सन्दर्शनार्थम् आगतः आसीत् सः। भीकराणां धर्मः नास्ति। विश्वे इस्लां तीव्रवादः क्रिस्तीयतीव्रवादः च नास्ति। धर्मविश्वासः धर्मप्रचारणं च भिथः भिद्यते। कस्यचन धर्मः यः को/पि भवतु आतङ्कवादस्वीकारेण तस्य धर्मः अप्रसक्तः भवति। विश्वे एकैकस्यापि धर्मस्य पृथक् विश्वासः भवेत्, तेषां विश्वासानां संरक्षणं चानिवार्यम्। परन्तु एकस्मिन् विभागे अन्तर्भूताः इतरविभागान् धर्मपरिवर्तनार्थं प्रेरयन्ति चेत् तत्र धर्मो नास्तीत्यपि लामा वर्यः अवोचत्।

भारतं चीना च महत्तरे द्वे राष्ट्रे भवतः। सीमायां काश्चन समस्याः अपि सन्ति। परन्तु सा स्थितिः गुरुतरामवस्थां न प्राप्स्यति इत्येव विश्वास इति सः असूचयत्।

चरितानुसारं भारतं विभिन्नधर्मसंयुक्तं राष्ट्रं भवति। अहिंसा सिद्धान्तस्य वर्षसहस्रमितं पारम्पर्यम् अत्रास्ति। अत्रत्यं पौराणिकं ज्ञानं विश्वशान्त्यै प्रभवति नूनम्। तदर्थं सर्वेषां प्रवर्तनं भूयात् इति स प्रत्याशां प्राकटयत्।

सर्वकारानुमतिः नास्ति, मार्पापा वर्यस्य भारतसन्दर्शने विलम्बः।

कोच्ची.- केन्द्रसर्वकाराणामनुमतिर्नास्तीति कारणेन फ्रान्सिस् मार्पापा वर्यस्य भारतसन्दर्शनम् अस्मिन् मासे न भविष्यति। ओक्टोबर् अन्तिमे वारे म्यान्मर् बङ्ग्लादेश् राष्ट्रयोः सन्दर्शनेन सह सः भारतं नागमिष्यति। दक्षिणपूर्वराष्ट्राणां सन्दर्शनवेलायां भारतसन्दर्शनार्थं मार्पापा इच्छां प्रकटयन्नासीत्।

भारतसन्दर्शनार्थं वत्तिक्कान् राष्ट्रं सन्नद्धं भवति। अनुमत्यर्थं वर्षद्वयेन परिश्रमं कुर्वदप्यस्ति।

देशीय आयुर्वेददिनाचरणं-कोल्लम्।

कोल्लम्-देशीय आयुर्वेददिने कोल्लम् तृक्करुवा संस्कृतविद्यालये आयुर्वेदाचार्यं डा.ए.अनिल्कुमार् महोदये  आदरं   कृतम्।तस्यावसरे औषध सस्योद्याननिर्माणे आरम्भ कृतम्। अनन्तरम् आरोग्यं आयुर्वेदेन -इतिविषये  संगोष्ठीं  चालयति।

लेखा के.

अद्य दीपावलीपर्व, आराष्ट्रम् आघोषः।

दीपप्रोज्वलनं कुर्वन् वर्णसङ्कलितानि स्फोटकानि प्रकिरन् च आराष्ट्ं जनाः दीपावलीपर्व आचरन्ति। विज्ञानस्य एकतायाः साहोदर्यस्य च प्रतीकत्वेन दीपावली आघुष्यते।बहूनि ऐतिह्यानि दीपावलीविषये प्रचलन्ति। सर्वाण्यपि असत्यस्योपरि सत्यस्य विजयरूपं सन्देशं प्रददति। सर्वेभ्यो नववाणीसङ्घस्य दीपावल्याशंसाः।

शबरिमला विकासपद्धतेः उद्घाटनम्।

शबरिमला विकासपद्धतेः भागत्वेन द्वयोःपद्धत्योः शिलास्थापनं मुख्यमन्त्री पिणरायि विजयः अद्य निरवहत्। पर्यटकानां कृते पुण्यदर्शनम् इति समुच्चयः देवस्थानसमितेः नेतृत्वे निर्मीयमाना जलसम्भरणी च अनयोः पद्धत्योः अन्तर्भवतः। देवस्थानसमीपं प्रचलिते शिलास्थापनसमारोहे मन्त्रिणः श्रीमन्तः कटकंपल्ली सुरेन्द्रः, के. राजू, मात्यू.टि तोमस्, नियमसभासदस्यः राजू एब्रहां देवस्थानसमित्यध्यक्षः  प्रयार् गोपालकृष्णः च सन्निहिताः आसन्।