Category Archives: News Updates

संस्कृतोत्सवस्य शुभारम्भः।

तृशिवपुरम् – ५८तम केरला-स्कूल-कलोत्सवस्य प्रथमदिने अद्य  विवेकोदयं उच्चतरविद्यालयस्थ-वेदिकासु (६,८) संस्कृतोत्सवस्य शुभारम्भः। नीर्मरुतनामिकायां वेदिकायामिदानीं उच्चविद्यालयीयबालकानां पाठकस्पर्धा प्रचलति। तदनन्तरं  समानस्तरीयाणांं बालिकानां स्पर्धाा   भविष्यति।

    अस्मिन्नेव विद्यालये  अन्यस्मिन् स्थले रचनास्पर्धाः प्रचलन्ति।

तृशिवपुरे कौमारकलोत्सवस्य अद्य शुभारम्भः।

तृशूर् – ५८ तमस्य विद्यालयीयकवोत्सवस्य अद्य तृशूर् नगरे शुभारम्भः। प्रातः १० वादने तेक्किन्काट् स्थले नीर्मातलं नाम मुख्य वेदिकायां मुख्यमन्त्री पिणरायि विजयः कलोत्सवस्य उद्घाटनं विधास्यति। शिक्षामन्त्री प्रोफ. सी. रवीन्द्रनाथः अध्यक्षपदमलंकरोति।

     पञ्च वर्षानन्तरमेव अयं कलोत्सवः तृशूर् जनपदे समयोजयति। स च विशेषरूपेणापि अस्ति। परिष्कृता नियमावली, सुशक्तं जाग्रतानिरीक्षणं, हरितनियमावली, सर्वेभ्यो चषकदानम् इत्यदयः अस्मिन् वर्षे विशेषाः।

    उद्घाटनात् पूर्वं सूर्या कृष्णमूर्ती वर्यस्य नेतृत्वे वेदिकायां दृश्याविष्कारः भविष्यति। मुरुगन् काट्टाक्कटा नाम कविवर्येण रचितं स्वागतगानं सङ्गीताध्यापकाः आलपिष्यन्ति। अस्य सङ्गीतनिदेशनं सुप्रसिद्धः सङ्गीतज्ञः श्रीमान् एं.जी. श्रीकुमार् वर्यः अस्ति। इतरे मन्त्रिणः, नियमसभासदस्याः साहित्यनायकाश्च उद्घाटनकार्यक्रमे भागं भजिष्यन्ति।

विद्यालयीयकलोत्सवः, केचन विधिकर्तारः प्रतिन्यवर्तन्त।

तृशूर् – ५८ तमस्य केरलविद्यालयीयकलोत्सवस्य दीपम् अद्य प्रज्वालितं भविष्यति। मध्याह्ने विलम्बरघोषयात्रायाः आगमनात् प्रभृति सांस्कृतिकनगरी कलोत्सवमयी भविष्यति। आडम्बरं विहाय सृजनात्मकतायाः प्रोत्साहनं प्रदाय एव कलोत्सवः प्रचलति।

     तदन्तरे केचन विधिकर्तारः कलोत्सवात् प्रतिन्यवर्तन्त। नृत्तविभागे आहुताः दश विधिकर्तारः एवं गताः। निरीक्षणसंविधानानां प्रबलीकरणमेव तेषां प्रतिनिवर्तनस्य कारणमिति सामान्यशिक्षानिदेशको/सूचयत्। कण्णूर् जनपदे गतवर्षे दत्तादप्यधिकं शक्तं निरीक्षणमेव तृशिवपुरे भविता इत्यपि सो/वदत्।

     श्वः प्रातः दशवादने मुख्यमन्त्री पिणरायि विजयः कलानां पूरस्य औपचारिकम् उद्घाटनं विधास्यति।

नववाणी मोबैल् आप् समर्पणम्।

संस्कृते शास्त्रसाङ्केतिकविद्यां विन्यस्य संस्कृतपठन – पाठनप्रवर्तनानि अनायासानि कुर्वतः नववाणी इति जालपुटस्य शिल्पी तथा मुख्यसम्पादकश्च श्रीमतः सी.वी. जोस् महाशयस्य यत् पठनसामग्रीम् अङ्गुलीस्थां कुर्वाणं नववाणी इति तत् मोबैल् आप् शिक्षामन्त्री प्रो. सी. रवीन्द्रनाथ् वर्यः उद्घाटयति।

     इमं कार्यक्रमं धन्यं कर्तुं सामान्यशिक्षानिदेशकः के.वी. मोहन् कुमार् ऐ.ए.एस्. जिल्ला पञ्चायत् अध्यक्षा श्रीमती मेरी तोमस्, कालटी संस्कृतविश्वविद्यालयस्य उपकुलपतिः डो. धर्मराज् अटाट्,तृशूर् जिल्ला उपाधिकारिणी रेणुका राज्, शिक्षा स्थिरसमितेः अध्यक्षा श्रीमती मञ्जुला अरुणन्, तृशूर् उपमहानगरपाला बीना मुरली ….प्रभृतीनां महतां सान्निधंयं भविता।
केरले कासरगोड् तः तिरुवनन्तपुरं यावत् सर्वेषां संस्कृतप्रेमिणां सादरं सान्निध्यं भारवाहिभि‌ः अभ्यर्थितम्।

मरात्ता – दलित् सङ्घर्षः विपक्षदलानां कोलाहलेन संसदः स्तम्भनम्।

दिल्ली – महाराष्ट्रायां सम्पन्नः मरात्ता दलितानां कलापमनुबन्ध्य प्रधानमन्त्रिणः विशेषप्रस्तावः आवश्यकः इत्यावेदनेन साकं विपक्षदलं संसदि कोलाहलमकरोत्। अनेन संसदः दैनिककार्यक्रमः स्तब्दः अभवत्। कलापसम्बन्धिनम् अन्वेषणं सर्वोच्चन्यायालयस्थेन प्राड्विवाकेन कारय़ेत् इति लोकसभायां काण्ग्रेस् दलस्य सदस्य मल्लिकार्जुन खार्गे आवेदयत्। तदभ्यन्तरे कलापो/यं कोण्ग्रस् दलेन राजनैतिकरीत्या परिगण्यते इति शासनपक्षस्य आरोपणम्।

अभियाचना स्थिरसमितिं नेष्यति, वैद्यानां कर्मन्यासः अवसितः।

नवदिल्ली – भारतीयवैद्यकायोगस्य नूतनी अभियाचना लोकसभायाः स्थिरसमितिं प्रति नेतुं केन्द्रप्रशासनं निर्णयमकरोत्। अतः वैद्यसङ्घैः आराष्ट्रम् आयोजितः कर्मन्यासः प्रत्याहूतः। एतस्मिन् विषये विपक्षिदलानां कोलाहलः संसदः सभायां जातः। राष्ट्रे आयुर्वेद होमियोप्पति वैद्यानां विशेषप्रशिक्षणेन अलोप्पति औषधामुपयुज्यापि चिकित्सां कर्तुम् अनुमतिप्रदानरूपा आसीत् वैद्यकीयायोगस्य अभियाचना। झटित्येव अलोप्पतीवैद्यानां प्रतिषेधः समारब्धः।तदनुबन्धेन अद्य कर्मस्थगनमप्यायोजितः। वैद्यकीयछात्राः अपि राजभवनस्य पुरतः सत्याग्रहमकुर्वन्। सर्वकारस्य अनेन निर्णयेन तेषां समरो/पि अवसितः।

सचिवालये कर्मकराणाम् उपस्थितिः रन्ध्रिकाद्वारा कर्तव्या।

तिरुवनन्तपुरम् – केरलसचिवालये अद्य प्रभृति कर्मकराणाम् उपस्थित्यङ्कनं रन्घ्रिकायाम् पञ्जीकृत्य कर्तव्यमिति निर्णयो जातः। मन्त्रिभ्यः मुख्यसचिवाच्च ऋते सर्वे कर्मकराः एतां रीतिं पालयेयुः। कार्यालयानां कार्यक्षमतार्थमेषः निर्णयः। अद्य प्रभृति कार्यालयागमने तस्मात् निर्गमने च कर्मकरैः उपस्थितिः एवमङ्कनीया। कार्यालयानां प्रवृत्तिसमयः प्रातः १०.१५ वादनतः सायं ५.१५ वादनपर्यन्तं भविता। यदि समये नागच्छति तर्हि विलम्बागमनं सूचयिष्यति। दिनत्रयं एवं विलम्बे जाते एकदिवसस्य विरामः कर्मकराणामधिकारात् न्यूनः भविता।

     कार्यालयेषु कर्मकराणां विलम्बेनागमनं समयात्पूर्वं निर्गमनं च कार्यक्षमतायाः हानिः इति शपथग्रहणानन्तरं मुख्यमन्त्रिणा सूचितमासीत्। सर्वकारस्य निर्णयं विरुद्ध्य कर्मकरसङ्घाः रङ्गमागमिष्यन्तीति सूचना अस्ति।

श्रीनारायणगुरुदेवस्य दर्शनानि जीवने प्रावर्तिकानि कुर्युः – प्रधानमन्त्री।

शिवगिरिः – समाजपरिष्कर्तुः नारायणगुरुदेवस्य दर्शनानि एकैको/पि स्वजीवने प्रवृत्तिपथम् आनीयात् इति प्रधानमन्त्री नरेन्द्रमोदी निरदिशत्। जनानां राष्ट्रस्य च समृद्धिः विकासश्च शिवगिरितीर्थाटनस्य मुख्यं लक्ष्यम् इति सः अवदत्। ८५तमं शिवगिरितीर्थाटनं दृश्यपरिषद् द्वारा उद्घाटनं कुर्वन्नासीत् सः।

     समाजस्य दिशाबोधिका भवतीयं तीर्थयात्रा। आन्तरिकदूष्यतः जनान् परिवर्तयितुम् एतादृशानि पारम्पर्याणि  अत्यन्तापेक्षितानि। राष्ट्रे विविधराज्यस्थानां जनानाम् ऐकमत्यमेवात्र दरीदृश्यते इत्यपि स न्यगादीत्। गतशतकस्थानां नवोत्थाननेतृणां मध्ये श्रीनारायणगुरुदेवः अद्वितीयः। विद्यया प्रबुद्धाः भवेयुः, सङ्घटनेन शक्ताः भवेयुः, उद्योगेन अभिवृद्धाः भवेयुः इति गुरुदेवः मन्त्रयामास।

     समाजोद्धारणाय दलितानां पीडितानां प्रबलीकरणाय च गुरुदेवः अयतत। शिक्षया एव एते प्रबुद्धाः भविष्यन्ति इति स विश्वसिति स्म इत्यपि प्रधानमन्त्री सूचयामास।

     स एवमपि अवदत् यद् नारायणगुरुदेवस्य अनुग्रहेण नववर्षारम्भः परितोषकर एव। शिवगिरिमठं यदा यदा समायात तदा तदा तत्रत्या अनुभूतिः मयि आह्लादजनिका आसीत्। अधुना तीर्थयात्रायाः उद्घाटनं कर्तुमवकाशमलभत। अनेन नितरां सन्तुष्टश्च इति। शिवगिरिमठाधिकारिभ्यः प्रधानमन्त्री कृतज्ञतामपि व्याहरत्।

पद्मावती चलनचित्रस्य सोपाधिकम् प्रदर्शनानुमतिपत्रम्।

नवदिल्ली – सञ्जय् लीला बन्सारी वर्यस्य निदेशने निर्मितस्य पद्मावती इति विवादचलनचित्रस्य उपाधीः अनुसृत्य प्रदर्शनानुमतिं दातुं केन्द्रिय अभिवीक्षकमण्डलं निरणयत्। चित्रस्थानि २६ दृश्यानि निष्कासनीयानि। अपि च नाम पद्मावती इत्यस्य स्थाने पद्मावत् इति परिवर्तनीयम्। दीपिका पदुकोण् नायिका तथा रण्वीर् सिंह् नायकश्च भवति अस्मिन् चित्रे। रजपुत्राणां निन्दारूपाणि दृश्यानि परामर्शाश्च सन्ति अस्मिन् चलचित्रे इति विवादमुन्नीय केचन जनाः चलचित्रस्य निदेशकं नायिकानायकौ च विरुद्ध्य प्रक्षोभं कुर्वन्नासीत्। दिनानि यावत् सांस्कृतिकनेतृणां चलचित्रनिरूपकाणां च चर्चायाः कारणमभूदिदम्। दिनद्वयेन अस्मिन् विषये अन्तिमनिर्णयः भविष्यति।

मद्रस्सासु संस्कृतं पाठ्यविषयं करोति।

रुद्रापूर् – उत्तराखण्ड् राज्ये मद्रस्सासु इतः परं संस्कृतं पाठ्यविषयं भविष्यति। राज्यस्थैः मद्रस्साधिकारिभिः इदम् उद्घोषितम्। डेराडूण्, हरिद्वार्, नैनिट्टाल्, उधंसिंहपुर् इत्येतेषु जनपदेषु २०७ मद्रस्साः सन्ति। तेषु २५००० छात्राः पठन्ति। ते सर्वे संस्कृतमपि पठन्तु इति बुद्ध्या एव संस्कृतं तत्र पाठ्यविषयं कर्तुम् अधिकारिणः उत्सहन्ते।

     आयुर्वेदं संस्कृतभाषायामधिष्ठितं भवति। इस्लामीयछात्राणमपि आयुर्वेदरङ्गे प्रवेशनम् अनेन निर्णयेन साध्यते। आयुर्वेदयोगादिषु एषां छात्राणां प्रामुख्यं ते इच्छन्ति। अतो/यं निर्णयः तैः स्वीकृतः

     उत्तराखण्ड् मद्रस्साक्षेमसंघस्य अधीनतायां मद्रस्साप्रवर्तनं प्रचलति। तत्रत्यानां छात्राणां सामान्यशिक्षाविभागे इव सर्वाणि आनुकूल्यानि सन्ति। सर्वकारीणवृत्यादिष्वपि ते छात्राः नियुज्यन्ते।

 उत्तराखण्डस्य द्वितीया औद्योगिकभाषा भवति संस्कृतम्।