Category Archives: News Updates

आर्थिक-उपकक्षा अफ्गानिस्थानपर्यन्तं नेतुं निर्णयः। उपकक्षा भारतविरुद्धा नास्ति।

 बैय्जिङ् – चीना-पाकिस्तान् आर्थिकोपकक्षा अफ्गानिस्थानपर्यन्तं दीर्घीकर्तुं निर्णयः अभवत्। त्रयाणां राष्ट्राणां विदेशकार्यमन्त्रिणां मिथः चर्चायामेव निर्णयो जातः। निर्णयो/यं एषां राष्ट्राणां पुरोगतिं लक्ष्यीकृत्यैव स्वीकृत इति चीना विदेशकार्यमन्त्रालयस्य वक्ता अवदत्। अस्मिन् निर्णये भारतं प्रति विरुद्धता कापि नास्तीति तेन निगदितम्। अस्मिन् विषये भारतस्य आशङ्कायाः समाधानरूपेण चीनाधिकृतानाम् इयमुक्तिः

संस्कृतसंरक्षणं समाजस्य कर्तव्यम् – स्वामी कृष्णात्मानन्दमहाराजः।

कोल्लंकोट् – संस्कृतभाषायाः संरक्षणं समाजस्य कर्तव्यमेवेति ओलश्शेरी दयानन्दाश्रमस्य स्वामी कृष्णानन्दमहाराजः अभिप्रैति स्म। विश्वसंस्कृतप्रतिष्ठानस्य नेतृत्वे मध्यमेखला संस्कृतपठनसरणीम् उद्घाटयन् भाषमाणः आसीदयम्। एकता मृतभाषारूपेण परित्यक्ता इयं भाषा अद्य अयुतपरिमितैः जनैः सम्भाषणभाषारूपेण स्वीकृता। अस्म्न्नवसरे पश्चाद्गमनम् अनुचितमेवेति स उक्तवान्। नेन्मारा एन्.एस्.एस्. कलालयस्य उपप्रांशुपालः अध्यक्षः आसीत्। चिन्मय मिषन् मठाधिपतिः स्वामी जितात्मानन्दजी अनुग्रहभाषणमकरोत्। कोल्लंकोट् चिन्मयविद्यालये आयोजिता पठनसरणिः दिसम्बर् ३० तमे दिनाङ्के समाप्तिमेष्यति।

देहल्यां नीहारप्रावरणम्, १८ रेल्यानानि अपकृष्टानि।

दिल्ली – राष्ट्रस्य राजधानी नीहारेण प्रावृता। रेल् परिवहणं पूर्णतया विच्छिन्नम्। अद्य ३० यानानि विलम्बेन याति, १८ यानानि अपकृष्टानि। इतो/प्यधिकं यानानाम् अपकर्षणाय साध्यता अस्ति। जनाः यात्रारम्भात् प्राक् रेल्यानानां परिवहणस्थितिम् अन्विष्य अवगच्छन्तु इति रेल्वे अधिकृतैः सूचितम्।

मणडलकालस्य परिसमाप्तिः, शबरिमलामन्दिरे अद्य मणडलपूजा।

सन्निधानम् – चत्वारिंशद्दिवसस्य मण्डलव्रतस्य परिसमाप्तिं सूचयन् अद्य शबरिमलामन्दिरे मण्डलपूजा आयोजयति। पूजानन्तरम् अद्य गोपुरद्वारं पिधास्यति। सन्निधाने अभूतपूर्वः भक्तजनसम्मर्दः अनुभूयते। पूजाक्रमः- प्रातः त्रिवादने गोपुरद्वारमुद्घाट्य गणपतिहोमः, अनन्तरं विशेषपूजा। प्रातः नववादने घृताभिषेकः, एकादशवादनतः पादोनद्वादशवादनाभ्यन्तरे मण्डलपूजा। रात्रौ तङ्क अङकी नामकं प्रावरणं धारयित्वा पूजया समं मण्डलपूजायाः परिसमाप्तिः भवति। ततः हरिवरासनम् इति गानालापेन साकं गोपुरद्वारस्य पिधानम्। मकरसंक्रान्ति उत्सवार्थं दिसम्बर् ३० दिनाङ्के पुनः गोपुरद्वारस्य उद्घाटनं भविता।

भक्तस्य भगवतश्च समाननामयुक्तं मन्दिरं भवति शबरिमला।

स्नेहस्य सद्भावस्य च सन्देशेन सह अद्य क्रिस्तुमस् आघुष्यते

आविश्वं सर्वे विश्वासिनः अद्य क्रिस्तुमस् आघोषे रताः सन्ति। दैवपुत्रस्य येशोः भुवनावतारस्मरणारूपः आघोष भवति क्रिस्तुमस्। विश्वे सर्वत्र देवालयेषु अतिविपुलः आघोषः प्रचलन्नस्ति। बालयेशोः जन्मभूमौ बेत्लहेमे प्रार्थनासमारोहे वैदेशिकैः सह बहवः जनाः प्रार्थनायां भागं भजन्ते। २५ दिवसीयस्य व्रतस्य समाप्तिः अद्यैव। नक्षत्राणि तृणकुटीराणि क्रिस्तुमस् वृक्षान् च सज्जीकृत्य विश्वासिनः क्रिस्तोः पुण्यजन्मस्मरणदिनाय स्वागतं व्याहरन्ति।

सर्वेभ्यो नववाणीसङ्घस्य क्रिस्तुमस् शुभकामनाः

पूर्णवेदपुर्यां वार्षिकशास्त्रसदः।

तृप्पूणित्तुरा –  गोश्रीपुरराजपालेन शास्त्रपोषणाय समारब्धस्य विद्वत् सदसः नवतितमः शास्त्रसदः अस्य मासस्य २६ तमे दिने प्रारभ्स्यते। २६तमे दिने छात्राणां कृते पद्यालापनस्पर्धा, अक्षरश्लोकस्पर्धा, प्रश्नोत्तरस्पर्धा च आयोजिता। २७तः २९यावत् वाक्यार्थविचारसत्रः यस्मिन् भारतस्य प्रसिद्धाः सस्कृतशास्त्रविचक्षणाः भागभाजिनो भवन्ति। सायंकाले सांस्कृतिककार्यक्रमाणि च संयोजितानि। गुरुस्मरणं च २७ तमे दिने भविष्यति।

गणतन्त्रदिवस खलूरिकायां केरलस्यापि प्रातिनिध्यम्।

नवदिल्ली – वर्षचतुष्टयानन्तरं गणतन्त्रदिवसीय खलूरिकायां केरलस्यापि नियोगः। अस्मिन् वर्षे केरलीया केट्टुकाय्चा नामिका अनुष्ठानकला एव अवतार्यते। असम्, छत्तीस्गड्, गुजरात्, हिमाचल् प्रदेश्, जम्मू-काश्मीर्, कर्णाटका, मध्यप्रदेश्, महाराष्ट्रा, मणिप्पूर्, पञ्चाब्, त्रिपुरा, उत्तराखण्ड् एतानि राज्यानि लक्षद्वीप् च अस्मिन् वर्षे केरलेन समं भागं भजन्ते।

२०१३ तमे वर्षे गणतन्त्रदिवसखलूरिकायां निश्चलदृश्यविभागे केरलेन सुवर्णपतकं प्राप्तमासीत्। तदनन्तरम् अस्मिन् वर्षे एव अस्मिन् कार्यक्रमे केरलम् अनुमतम् भवति।

माधवगणितपुरस्कारः अस्मिन् वर्षे मुम्बै ऐ.ऐ.टी. प्रवाचकाय डो.के. रामसुब्रह्मण्याय।

इरिङालक्कुटा – संग्राममाधव-गणितकेन्द्रेण आयोजितः माधवगणितपुरस्कारम् अस्मिन् वर्षे मुम्बै ऐ.ऐ.टी. प्रवाचकाय डो.के. रामसुब्रह्मण्याय   समार्पयत्। केरलीयगणितमधिकृत्य गवेषणाय नेतृरूपं योगदानं कुर्वन्नस्ति डो. सुब्रह्मण्यम्।राष्ट्रिय गणिदिनमनुबन्ध्य इरिङ्ङालक्कुटायां  पुरस्कारं समार्पयत्। केन्द्र-पर्यटनमन्त्री अल्फोण्स् कण्णन्तानं विशिष्टातिथिरासीत्।
शिक्षा संस्कृति उत्थान् न्यास् देशीय वेदगणितप्रमुख् डो. कैलास् विश्वकर्मापि मुख्यातिथिति रूपेण उपस्थितः आसीत्। कोच्ची मत्स्य-समुद्रानुसन्धान विश्वविद्यालयस्य उपकुलपतिः डो. ए. रामचन्द्रन्, डो. वी.पी. एन् नम्पूतिरी प्रभृतयः भागमभजत। अधिवेशनेन समं युवगणितप्रतिभा सङ्गममपि आयोजिता। राज्यस्तरीय गणितशास्त्रविजयिनः सम्मेलने आदृताः अभवन्। २.३० वादने छात्राणां कृते गणितप्रश्नोत्तरस्पर्धापि  चालिता।
माधवाचार्यस्य जन्मगृहे कल्लेट्टुंकरा इरिङ्ङालप्पिल्लिमनायां प्रचालिते माधवानुस्मरणसम्मेलने सभासदस्यः प्रोफ. रिच्चार्ट हे वर्यः  मुख्यतिथिरासीत्। जन्मगृहमधिकृत्य आचार्यस्य सूचनानुसारं प्रतीकरूपेण गृहसमीपं वृक्षरोपणं कृतम्। अस्मिन् समारोहे शिक्षा संस्कृति उत्थान् न्यास् राज्याध्यक्षः डो. एन्. सी. इन्दुचूडः पौरप्रमुखाः जनप्रतिनिधयश्च भागमभजत।

राष्ट्रिय वरिष्ठकायिकक्रीडायां केरलस्य किरीटम्।

रोत्तक् – भारते विद्यालयीय वरिष्ठकायिक्रीडास्पर्धायां केरलराज्यं किरीटं समस्थापयत्। मुख्यप्रतियोगीं हरियानां विरुध्य ८० अङ्कैः केरलं विजयी अभवत्। केरलस्य अनुस्यूततया विंशत्तमा किरीटप्राप्तिरियम्। गतसायं हरियाणासंघाङ्गानि केरलसंघं प्रति आक्रमणमपि चक्रुः। नव सुवर्णपतकानि केरलं स्वायत्तीचकार।

केन्द्र-साहित्य-अक्कादमी पुरस्कारः के.पी. रामनुण्णी वर्याय।

नवदिल्ली – केन्द्र साहित्य अक्कादमी पुरस्काराः घोषिताः। कैरलीविभागे विख्यातः नोवल् कारः के.पी.रामनुण्णी वर्यः पुरस्काराय चितः। तस्य  “दैवत्तिन्टे पुस्तकम्” इति आख्यायिका पुस्काराय अर्हा अभवत्। पूर्वं कैरलीभाषायां विलासिनी इति तूलिकानामधारी एं.के. मेनोन् (अवकाशिकळ् )तथा तकषी शिवशङ्करपिल्ला(कयर् ) च नोवल् विभागे पुरस्कृतावास्ताम्। दैवत्तिन्टे पुस्तकम् इति नोवले इस्लां धर्मप्रवाचकस्य मुहम्मद् नबि वर्यस्य जीवितसम्बन्धिनी कथा आख्याता। मुहम्मद् नबिः कृष्णम् इक्का इति सम्बेधयति, कृष्णश्च नबिं मुत्ते इति च। एतत् केरलीयसभ्यतायाः निदर्शनभूतमिति अस्माकम् अभिमानास्पदं भवति।