नववाणी मॊबैल् अप्लिक्केषन् समुद्घाटितम्।

तृशिवपुरम् – संस्कृतलोकान् आह्लादपुलकितान् कृत्वा केरल-शिक्षामन्त्रिणा प्रोफ. रवीन्द्रनाथमहोदयेन नववाणी नाम मॊबैल् आप्लिक्केषन् समुद्घाटितम्। ‘नववाणी’ गवेषणात्मकभाषापठनस्य अनुपममुदारणमिति उद्घाटनभाषणे शिक्षामन्त्रिणा प्रोक्तम्। एतादृशानि प्रवर्तनानि निश्चयेन प्रोत्साहनीयानि इति सो∫वदत्। केरलराज्यस्य विविधजिल्लाभ्य आगतैः संस्कृतज्ञैः अध्यापकैः छात्रैश्च सम्पन्नममासीत् सदः। कृषिमन्त्रिः श्री सुनिलकुमारमहोदयः अस्याः घटनायाः अध्यक्षपदमलंकृतम्। राज्यस्तरीय-संस्कृतोत्सवस्य भागत्वेन समायोजितासीत् इयं विचारसभा। सम्मेलने∫स्मिन्  सामान्यविद्याभ्यासाध्यक्षः स्वागतभाषणमकरोत्। टि.एस् विजयः, डो. पि.वि. ओसेफ्, श्रीमती मेरी तोमस् डो. धर्मराज् अटाट्ट्, श्रीमती सुनीतीदेवी च  प्रभृतयः भाषणमकुर्वन्। नववाणी जालपुटस्य मुख्यसम्पादकः सी.वी. जोस् महाशयः अपि अस्यां वेदिकायां समादृतः।

दृश्यानि         video

Leave a Reply

Your email address will not be published. Required fields are marked *