कलोत्सववेदिकासु प्रेक्षकाणाम् आधिक्यम्।

तृशूर् – कैमारकलोत्सवस्य प्रारम्भात् परं प्रथमे द्वितीये च दिने प्रेक्षकाणां सम्मर्दः नासीत्। किन्तु अद्य नीर्मातलं नाम प्रथमवेदिका प्रेक्षकैः निबिडा अभवत्। त्रिशिवपुरस्थानां कलास्वादनसामर्थ्यम् अनेन व्यक्तमभवत्। अद्य प्रातः आरभ्य नीर्मातले केरलनटनं नाम कलारूपं सम्पन्नमभवत्। सायं सार्धषड्वादनं यावत् अयं कार्यक्रम एवासीत्। अतः सायं चतुर्वादने आरम्भाय निश्चितः नाटोटिनृत्तं नाम कार्यक्रमः  सायं सप्तवादने एव आरब्धः। सर्वासु वेदिकासु एवं प्रेक्षकाणां सम्मर्दमस्ति। संस्कृतनाटकवेदिकायामपि नाटकास्वादनतत्पराः बहवः सन्निहिताः आसन्।

Leave a Reply

Your email address will not be published. Required fields are marked *