कविता – टि. वत्सलादेवी।

त्यज मां सुहृदः।

एकशतात्मकवर्षाणि जीवितं

यापितो∫हं भूमौ तुष्टिपूर्णम्।

भूलोकवासि मनुजास्तुमामद्य

त्याज्य इत्येवं प्रघोषयन्ति।।

पारिस्थितिक विपत्तिति घोषणम्

श्रूयते सर्वदा दिक्षु दिक्षु।

भूतले जीविसहस्राणां सञ्चयः

आदिमकाले अनादिकाले। ।

मृत्युमुपगताः मृण्मयो भूताश्च

भूगर्भगर्ते गताश्च मेदः।

वर्षाण्यतीतान्ययुतसहस्राणि

रासविपर्ययो जात ऐव। ।

पेट्रोळियमिति नामकं वस्तु तत्

भूगर्भसञ्चयस्तत्र तत्र।

बुद्घिमन्तःखलु मानवाः ते द्रुतं

मेदिनीं दोहनं कर्तुकामाः ।।

यन्त्रखनित्रादि नूतनवस्तूनि

निर्मीय सज्जाश्च व्यापृताश्च।

आनीय वस्तुं च व्यस्तञ्च कृत्वा तु

मर्त्यस्योपकारकं चकार। ।

शास्त्रपरीक्षणं देशोपकारकं

तत्कदाचित्परं दोषरूपम्।

वाहनानां शीघ्र धावनं टार्

धूमरहितमहानसञ्च। ।

भाररहित वहनीयवस्तूनि

वश्यमनोहर शिल्पाश्च भो ।

रूपविपर्यये दक्षो हमत्र मे

वक्रतां शीघ्रतां क्षिप्रसाध्यम्। ।

अल्पोहमत्र मेस्थानं तथाप्यहं

पेट्रोलियोत्पन्न एव मित्र।

नित्योपयोगीनि वस्तून्यनेकानि

मदायत्तजातानि भूतले∫त्र। ।

अन्योपकाराश्च सन्ति अनेकाश्च

यावच्च सत्गुणवान् च नाहम्।

मृणमयभूमावयुतसंवत्सर–

कालमतीतेपि नैव नाशो ।।

भूयादतो भूमेर्सत्तां विनश्यति

भूतलवासिनां नाशहेतु ।

वशयललितमनोहरभावेन

आगत घोरपिशाच एव।।

जाग्रत घोषणं श्रुण्वन्तु मानवा

स्वात्मविपदं परित्यजन्तु।

हस्ते तु स़ञ्चिकामादाय गच्छन्तु

मह्यं क्यजन्तु नराश्च भू।।

आत्मसमर्पणं कर्तुमिच्छाम्यहं

भूयो पि भूमातुश्रेयसेद्य।

सात्विकश्रेष्ठमुनिसत्तमैरिव

सन््त्यजे मामकजीवनं हि।।

Leave a Reply

Your email address will not be published. Required fields are marked *