कविता – टि. वत्सलादेवी।
त्यज मां सुहृदः।
एकशतात्मकवर्षाणि जीवितं
यापितो∫हं भूमौ तुष्टिपूर्णम्।
भूलोकवासि मनुजास्तुमामद्य
त्याज्य इत्येवं प्रघोषयन्ति।।
पारिस्थितिक विपत्तिति घोषणम्
श्रूयते सर्वदा दिक्षु दिक्षु।
भूतले जीविसहस्राणां सञ्चयः
आदिमकाले अनादिकाले। ।
मृत्युमुपगताः मृण्मयो भूताश्च
भूगर्भगर्ते गताश्च मेदः।
वर्षाण्यतीतान्ययुतसहस्राणि
रासविपर्ययो जात ऐव। ।
पेट्रोळियमिति नामकं वस्तु तत्
भूगर्भसञ्चयस्तत्र तत्र।
बुद्घिमन्तःखलु मानवाः ते द्रुतं
मेदिनीं दोहनं कर्तुकामाः ।।
यन्त्रखनित्रादि नूतनवस्तूनि
निर्मीय सज्जाश्च व्यापृताश्च।
आनीय वस्तुं च व्यस्तञ्च कृत्वा तु
मर्त्यस्योपकारकं चकार। ।
शास्त्रपरीक्षणं देशोपकारकं
तत्कदाचित्परं दोषरूपम्।
वाहनानां शीघ्र धावनं टार्
धूमरहितमहानसञ्च। ।
भाररहित वहनीयवस्तूनि
वश्यमनोहर शिल्पाश्च भो ।
रूपविपर्यये दक्षो हमत्र मे
वक्रतां शीघ्रतां क्षिप्रसाध्यम्। ।
अल्पोहमत्र मेस्थानं तथाप्यहं
पेट्रोलियोत्पन्न एव मित्र।
नित्योपयोगीनि वस्तून्यनेकानि
मदायत्तजातानि भूतले∫त्र। ।
अन्योपकाराश्च सन्ति अनेकाश्च
यावच्च सत्गुणवान् च नाहम्।
मृणमयभूमावयुतसंवत्सर–
कालमतीतेपि नैव नाशो ।।
भूयादतो भूमेर्सत्तां विनश्यति
भूतलवासिनां नाशहेतु ।
वशयललितमनोहरभावेन
आगत घोरपिशाच एव।।
जाग्रत घोषणं श्रुण्वन्तु मानवा
स्वात्मविपदं परित्यजन्तु।
हस्ते तु स़ञ्चिकामादाय गच्छन्तु
मह्यं क्यजन्तु नराश्च भू।।
आत्मसमर्पणं कर्तुमिच्छाम्यहं
भूयो पि भूमातुश्रेयसेद्य।
सात्विकश्रेष्ठमुनिसत्तमैरिव
सन््त्यजे मामकजीवनं हि।।
Leave a Reply