ध्येयवाक्यानि।

अल्पाक्षरैः अनन्त, गाम्भीर्य, गहनार्थयुक्तानि तादृशध्येयवाक्यानि गुरुः इव, मित्रमिव, श्रेयोभिलाषी इव अस्मान् निरन्तरं प्रेरयन्ति। जीवनयाने सत्प्रदर्शनं कुर्वन्ति। सूत्र, मन्त्र, तन्त्र, सूक्ति, सुभाषितरूपेण असंख्याकानि प्रेरणावाक्यानि सन्ति। तानि पठ्यमानाः जनाः नूतनोत्साहं, चैतन्यं, स्फूर्तिं च प्राप्नुवन्ति ।

उदाहरणरूपेण कानिचन ध्येयवाक्यानि पश्यामः

भारतप्रशासनादारभ्य अनेकप्राशासनिककार्यनिर्वहणसंस्थाः, प्रशासनिकतदितरविद्यासंस्थाः, स्वच्छन्दसेवाधार्मिकसांस्कृतिकसंस्थाः च विविधग्रन्थेभ्यः विविधसंस्कृतसूक्तीः ध्येयवाक्यरूपेण स्वीकृत्य स्व स्व लक्ष्यसाधने प्रेरणां लभन्ते। एतत् संस्कृतभाषायाः औन्नत्यं प्रकटयति ।

  • भारतमहाराज्येन “सत्यमेव जयते” इति मुण्डकोपनिषदः वाक्यं ध्येयवाक्यरूपेण स्वीकृतम्। भारतप्रशासनस्य राजमुद्रिकायाम् अङ्कितमिदं सर्वान् प्रेरयति। जनाः सर्वदा सत्यमार्गे जीवनं यापयेयुः इति भावेन एतद्वाक्यं स्वीकृतम्।
  • नेपालप्रशासनेन “जननी जन्मभूमिश्च स्वर्गादपि गरीयसी” इति मुण्डकोपनिषदः वाक्यं ध्येयवाक्यरूपेण स्वीकृतम्।
  • भारतस्य सर्वोन्नतन्यायालयस्य (Supreme Court Of India) ध्येयवाक्यं “यतो धर्मः ततो जयः”इति महाभारतात् स्वीकृतम्। यत्र धर्मः वर्तते तत्र हि विजयः निश्चयः इत्यर्थः।
  • भारतस्य लोकसभायाम् अध्यक्षस्थानस्य उपरि लिखितम् अस्ति – “धर्मचक्रप्रवर्तनाय” इति । तेन धर्मबुद्ध्या सभा चालयितव्या इति प्रेरणां लभतामिति चिन्तयित्वा तद्वाक्यं स्थापितम्।
  • भारतस्य डाक्तार् विभागस्य ध्येयवाक्यम् –“सेवा अस्माकं धर्मः” तदनुगुणतया उद्योगिनः अहर्निशं सेवारताः भवन्ति।
  • भारतीय रैल् विभागस्य वाक्यम् – “श्रम एव जयते”। श्रमजीविनः, कर्मकराः जनानां सुखयात्रार्थं कार्यं कुर्वन्ति। रैल् विभागं विजयमार्गे चालयन्ति च।
  • भारतस्य जीवनबीमानिगमः (लैफ़् इन्षुऱन्स् कोर्पऱेषन् ओफ़् इन्डिया) इति संस्था श्रीमद् भगवद्गीतायाः “योगक्षेमं वहाम्यहम्” इति वाक्यं ध्येयवाक्यरूपेण स्वीकृत्य जनानां योगक्षेमनिर्वहणार्थं व्यवस्थां करोति।
  • नभः स्पृशं दीप्तम्” इति ध्येयवाक्यं भारतीय वायुसेना इति संस्थायाः अस्ति। एतद् भगवद्गीतायाः एकादशाध्यायात् स्वीकृतम्। वायुसेनायाः शक्तिः दीप्तिः आकाशपर्यन्तं व्याप्तम् इत्यर्थं सूचयति एतद्वाक्यम्।
  • भारतीय नौ सेना “शं नो वरुणः” इति उपनिषद् मन्त्रं स्वीकृत्य प्रेरणां प्राप्नोति । जलाधिदेवस्य वरुणस्य अनुग्रहेण देशरक्षणकार्ये सर्वदा निमग्ना भवति।
  • आकाशवाणी “बहुजनहिताय बहुजनसुखाय” इति वाक्यानुगुणं जनानां हितार्थं, सुखार्थं, संगीत, साहित्य, सांस्कृतिकादि कार्यक्रमैः जनान् रञ्जयति।
  • दूरदर्शन् “सत्यं शिवं सुन्दरम्” इति सुन्दरसंस्कृतवाक्यं ध्येयवाक्यरूपेण स्वीकृत्य श्रव्य, दृश्यमाध्यमेन जनमनोरञ्जनकार्यक्रमान् योजयति।
  • राष्ट्रिय विद्याभ्यासगवेषणप्रशिक्षण परिषदः (ऎन् सी ई आर् टि) ध्येयवाक्यम् “असतो मा सद्गमय” इति वर्तते।
  • केन्द्रीय विद्यालय संघटनम् इति केन्द्र सर्वकारस्य विद्या विभागस्य ध्येयवाक्यमस्ति “तत्त्वं पूषण्णपावृणु” इति ईशावास्योपनिषदः मन्त्रः।
  • ग्रामीण विद्यार्थीणां विद्याविकासार्थं केन्द्र सर्वकारेण संस्थापित नवोदय विद्यालयानां प्रेरणवाक्यम् “प्रज्ञानं ब्रह्म” इति महावाक्यम्। एतत् तैत्तरीय उपनिषदः उद्धृतम्। प्रज्ञानम् एव ब्रह्मस्वरूपम्। अतः ज्ञानं सम्पादनीयम्।
  • भारत राष्ट्रीय शास्त्रीय संस्थया (Indian National Science Acadamy) यजुर्वेदात् स्वीकृतं ध्येयवाक्यं तत् “हवयामि र्भगः सवितुर्वरेण्यम्”।
  • भारतीय पाळमार्ग रक्षण बलः (Indian Railway Protection Force) इत्यस्य प्रेरणवाक्यं “यशो लभस्व” इति। विधि नियमपालनेन कीर्तिं प्राप्नुहि इति स्फूर्तिं ददाति एतत् वाक्यम्।
  • इन्डियन् ऎक्स्प्रस् इति प्रसिद्ध आंग्ल वार्तापत्रिकायाः ध्येयवाक्यं “सर्वत्र विजयम्” इति।
  • विद्याभारती प्रमुखस्वच्छन्द विद्यासंस्था जातीयस्तरे नैक विद्यालयात् चालयति । तेषु विद्यालयेष् भारत्यविद्यापद्धत्या विद्याबोधनं कुर्वन्ति। तस्याः विद्यासंस्थायाः ध्येयवाक्यं “सा विद्या या विमुक्तये” इति उपनिषद्वाक्यम्। विद्या केवलम् उदरपोषणार्थं न संसारबन्धं विमुक्तिरूप मोक्षप्राप्तिः एव। तादृशी विद्या आध्यात्मिकी विद्या एव, इति विद्यायाः परमार्थतत्त्वं ज्ञापयति एतद् ध्येयवाक्यम्।
  • न केवलं भारतदेशे, परन्तु विश्वे सुप्रसिद्ध आध्यात्मिक तथा सेवा संस्था श्री रामकृष्णमठः (Sri Rama Krishna Mission) तत्मठस्य ध्येयवाक्यम् “तन्नो हंसः प्रचोदयात्” परमात्मा बुद्धिं सत्यमार्गे प्रचोदयात् इत्यर्थः। श्री रामकृष्णपरमहंसगुरोः आशयान् विश्वव्याप्तान् कर्तुं स्वामी विवेकानन्देन स्थापितः अयं मठः।
  • हरियाना राज्यस्य धयेयवाक्यं “योगः कर्मसु कौशलम्” एतत् श्रीमद् भगवद्गीतायाः उद्धृतम्।
  • देहली विश्वविद्यालयेन स्वीकृतं ध्येयवाक्यं “निष्ठा धृतिः सत्यम्”। ध्येयनिष्ठा, धैर्यं, सत्यं च एतत् त्रयम् अवश्यम् अनुष्ठेयम्।
  • आन्ध्रप्रदेशे विशाखपट्टणस्थ प्रसिद्ध आन्ध्रविश्वकला परिषत् (Andhra University) स्वध्येयवाक्यं “तेजस्विनावधीतमस्तु” इति उपनिषदः स्वीकृतम्। गुरुशिष्यौ तेजोवन्तौ भूत्वा मिलित्वैव अध्ययनं करणीयं परस्परं रक्षकौ भूत्वा सुखदुःखे सहैव अनुभवन्तौ द्वेषं विना अध्ययनम् अध्यापनञ्च करणीयमिति उपनिषदाम् आदेशः अस्ति।
  • आन्ध्रप्रदेशस्थ उच्चमाद्यमिक शिक्षासंस्था (Intermediate Board) इत्यस्य ध्येयवाक्यं “विद्यया अमृतमश्नुते” इत्यस्ति।
  • श्री सत्यसाइ मानितविश्वविद्यालयस्य ध्येयवाक्यं “सत्यं वद धर्मं चर” इति तैत्तरीय उपनिषद्वाक्यम्। सत्यं भाषितव्यं, धर्मेण वर्तितव्यमिति च मानवस्य कर्तव्यं निर्दिष्टम् उपनिषदा।
  • आचार्य नागार्जुन विश्वविद्यालयस्य (Acharya Nagarjuna University, Guntur) ध्येयवाक्यं “सत्ये सर्वं प्रतिष्ठितम् ” इति उपनिषद्वाक्यम्। सत्ये सर्वधर्माः निहिताः। अतः सत्यपालनं सर्वैः अनुष्ठेयम् इति प्रेरणां प्राप्तुं तेन स्वीकृतम्।
  • केरळविश्वविद्यालयस्य ध्येयवाक्यं “कर्मणि व्यज्यते प्रज्ञा” इत्यस्ति।
  • केरळराज्यस्य महात्मागान्धी विश्वविद्यालयस्य ध्येयवाक्यं “विद्यया अमृतमश्नुते” इत्यस्ति। विद्यया मनुष्यः अमरत्वं प्राप्नोति । अतः सर्वः विद्यावान् भवेदिति उपनिषद्वाक्यं प्रेरयति।

एवं बहुविध संस्कृतसूक्तयः अस्मान् निरन्तरं प्रेरयन्ति, एषा संस्कृतभाषायाः महिमा अस्ति।

One Response to ध्येयवाक्यानि।

  1. Rajalekshmi.A says:

    വിജ്ഞാനപ്രദം…നന്ദി…

Leave a Reply

Your email address will not be published. Required fields are marked *