स्मर्तव्यं साधुभाषितम् – 08-12-2018
नूतना समस्या –
“स्मर्तव्यं साधुभाषितम्”
ഒന്നാംസ്ഥാനം
विद्यैव हि परा सम्पत्त्
विद्यामार्जय सत्वरम्।
पामरैश्च सदा ह्येतत्
स्मर्तव्यं साधुभाषितम्।।
Sadanandan Thrissur
“അഭിനന്ദനങ്ങള്”
नूतना समस्या –
“स्मर्तव्यं साधुभाषितम्”
ഒന്നാംസ്ഥാനം
विद्यैव हि परा सम्पत्त्
विद्यामार्जय सत्वरम्।
पामरैश्च सदा ह्येतत्
स्मर्तव्यं साधुभाषितम्।।
Sadanandan Thrissur
“അഭിനന്ദനങ്ങള്”
संस्कृतं सर्वभाषाणां
जननीति यदुच्यते।
भाषाव्यसनिभिः सर्वैः
स्मर्तव्यं साधुभाषितम्।।
ഒന്നാംസ്ഥാനം
विद्यैव हि परा सम्पत्त्
विद्यामार्जय सत्वरम्।
पामरैश्च सदा ह्येतत्
स्मर्तव्यं साधुभाषितम्।।
मोषणं हि महापापं
नैव कुर्वीत सज्जनः।
गृहचोरणव्यग्रेण
स्मर्तव्यं साधुभाषितम्।।
जीवने वा सुषुप्तौ वा
नरेण भूतिमिच्छता।
मनसा कर्मेण वाचा
स्मर्तव्यं साधुभाषितम्।।
आपत्काले समुत्पन्ने
संभ्रान्ते चित्तवानरे।
सर्वैश्च सज्जनैर्नूनं
स्मर्तव्यं साधुभाषितम्।।
कोfहं कुत्रास्मि जातोfहं
के मे बन्धुजनाश्च ते।
आपत्काले समायाते
स्मर्तव्यं साधुभाषितम्।।
രണ്ടാംസ്ഥാനം
പുണ്യകർമാണി കുർവന്തു
ചിന്തയന്തു ശുഭം സദാ
നാശുഭം കർമ കർത്തവ്യം
സ്മർത്തവ്യം സാധു ഭാഷിതം.
आलस्यं नरवर्गस्य
शीररस्थो महान् रिपुः।
कर्मसु व्यापृतैस्सर्वैः
स्मर्तव्यं साधुभाषितम्।।
साहित्यरचनाक्षेत्रे
मोषणं पापमेव हि।
युवकैश्च सदा स्मयक्
स्मर्तव्यं साधुभाषितम्।।
दुष्प्रवृत्तिः स्वयं कृत्वा
पश्चात्तपन्ति मानवाः ।
कार्यनिर्वहणात्पूर्वं
स्मर्तव्यं साधुभाषितम् ।।
പുണ്യകർമാണി കുർവ്വന്തു
ചിന്തയന്തു ശുഭം സദാ
നാശുഭം കർമ കർത്തവ്യം
സ്മർത്തവ്യം സാധുഭാഷിതം
മൂന്നാംസ്ഥാനം
ആത്മത്യാഗേന പൂർവ്വികൈ-
സ്സജ്ജനൈസ്സേവനംകൃതം
പുരോഗതിപ്രയാണേതു
സ്മർത്തവ്യം സാധുഭാഷിതം
सज्जनभाषितं सत्यं
तदुपकारमेव हि ၊
अस्माकं जीविते नित्ये
स्मर्तव्यं साधुभाषितं ၊၊