स्मर्तव्यं साधुभाषितम् – 08-12-2018

 

नूतना समस्या –

“स्मर्तव्यं साधुभाषितम्”

ഒന്നാംസ്ഥാനം

विद्यैव हि परा सम्पत्त्
विद्यामार्जय सत्वरम्।
पामरैश्च सदा ह्येतत्
स्मर्तव्यं साधुभाषितम्।।

Sadanandan Thrissur

“അഭിനന്ദനങ്ങള്‍”

13 Responses to स्मर्तव्यं साधुभाषितम् – 08-12-2018

  1. रामचन्द्रः। says:

    संस्कृतं सर्वभाषाणां
    जननीति यदुच्यते।
    भाषाव्यसनिभिः सर्वैः
    स्मर्तव्यं साधुभाषितम्।।

  2. सदानन्दः तृशूर् says:

    ഒന്നാംസ്ഥാനം

    विद्यैव हि परा सम्पत्त्
    विद्यामार्जय सत्वरम्।
    पामरैश्च सदा ह्येतत्
    स्मर्तव्यं साधुभाषितम्।।

  3. वासुदेवः पल्लिमङ्गलम्। says:

    मोषणं हि महापापं
    नैव कुर्वीत सज्जनः।
    गृहचोरणव्यग्रेण
    स्मर्तव्यं साधुभाषितम्।।

  4. नारायणन् नम्पूतिरिः। says:

    जीवने वा सुषुप्तौ वा
    नरेण भूतिमिच्छता।
    मनसा कर्मेण वाचा
    स्मर्तव्यं साधुभाषितम्।।

  5. विजयन् वि पट्टाम्बि says:

    आपत्काले समुत्पन्ने
    संभ्रान्ते चित्तवानरे।
    सर्वैश्च सज्जनैर्नूनं
    स्मर्तव्यं साधुभाषितम्।।

  6. सरस्वती राजेन्द्रः। says:

    कोfहं कुत्रास्मि जातोfहं
    के मे बन्धुजनाश्च ते।
    आपत्काले समायाते
    स्मर्तव्यं साधुभाषितम्।।

  7. N K Bhaskaaran says:

    രണ്ടാംസ്ഥാനം

    പുണ്യകർമാണി കുർവന്തു
    ചിന്തയന്തു ശുഭം സദാ
    നാശുഭം കർമ കർത്തവ്യം
    സ്മർത്തവ്യം സാധു ഭാഷിതം.

  8. Davis Neremangalath says:

    आलस्यं नरवर्गस्य
    शीररस्थो महान् रिपुः।
    कर्मसु व्यापृतैस्सर्वैः
    स्मर्तव्यं साधुभाषितम्।।

  9. Madhavan Palakkad says:

    साहित्यरचनाक्षेत्रे
    मोषणं पापमेव हि।
    युवकैश्च सदा स्मयक्
    स्मर्तव्यं साधुभाषितम्।।

  10. लिजिना...GHS Chaliyappuram.Kondotty.Malappuram. says:

    दुष्प्रवृत्तिः स्वयं कृत्वा
    पश्चात्तपन्ति मानवाः ।
    कार्यनिर्वहणात्पूर्वं
    स्मर्तव्यं साधुभाषितम् ।।

  11. N.K.Bhaskaran says:

    പുണ്യകർമാണി കുർവ്വന്തു
    ചിന്തയന്തു ശുഭം സദാ
    നാശുഭം കർമ കർത്തവ്യം
    സ്മർത്തവ്യം സാധുഭാഷിതം

  12. Narayanan .N says:

    മൂന്നാംസ്ഥാനം

    ആത്മത്യാഗേന പൂർവ്വികൈ-
    സ്സജ്ജനൈസ്സേവനംകൃതം
    പുരോഗതിപ്രയാണേതു
    സ്മർത്തവ്യം സാധുഭാഷിതം

  13. Devapriya J S says:

    सज्जनभाषितं सत्यं
    तदुपकारमेव हि ၊
    अस्माकं जीविते नित्ये
    स्मर्तव्यं साधुभाषितं ၊၊

Leave a Reply

Your email address will not be published. Required fields are marked *