सौन्दर्यं चित्तहारकम् – 03-11-2018
नूतना समस्या –
“सौन्दर्यं चित्तहारकम्”
ഒന്നാംസ്ഥാനം
कामिनीस्मरणार्थं यत्
निर्मितं सौधमुत्तमम्।
यमुनातीरगस्यास्य
सौन्दर्यं चित्तहारकम्।।
Viswambharan, Delhi
“അഭിനന്ദനങ്ങള്”
नूतना समस्या –
“सौन्दर्यं चित्तहारकम्”
ഒന്നാംസ്ഥാനം
कामिनीस्मरणार्थं यत्
निर्मितं सौधमुत्तमम्।
यमुनातीरगस्यास्य
सौन्दर्यं चित्तहारकम्।।
Viswambharan, Delhi
“അഭിനന്ദനങ്ങള്”
एकवर्षवयस्कायाः
सङ्गमग्रामपुत्रिणः।
नववाण्याश्च शक्तायाः
सौन्दर्यं चित्तहारकम्।।
सुगन्धपूरितस्यास्य
पद्मस्य च विशेषतः।
शैवलेनानुविद्धस्य
सौन्दर्यं चित्तहारकम्।।
वर्ण्यवस्तुप्रभावेन
चालङ्कारप्रशोभया।
सुकाव्यतल्लजस्यास्य
सौन्दर्यं चित्तहारकम्।।
വിശാലവദനസ്യാസ്യ
സദാ ശൗര്യയുതസ്യ ച
സിംഹസ്യ ശക്തിയുക്തസ്യ
സൗന്ദര്യം ചിത്തഹാരകം
ബാലേ തവ മുഖാംബോജം
സര്വചിത്തപ്രകാശകം
വിദ്രുമാധരയുക്തായാഃ
സൗന്ദര്യം ചിത്തഹാരകം
देवतामन्दिरस्यास्य
पर्वताग्रे प्रशोभितः।
प्रालेयचर्चितस्यास्तु
सौन्दर्यं चित्तहारकम्।।
स्फुरद्भिर्मणिरत्नैश्च
संयुतं नीलकम्बलम्।
निशि विष्णुपदस्यास्य
सौन्दर्यं चित्तहारकम्।।
ഒന്നാംസ്ഥാനം
कामिनीस्मरणार्थं यत्
निर्मितं सौधमुत्तमम्।
यमुनातीरगस्यास्य
सौन्दर्यं चित्तहारकम्।।
नदीभिः शाद्वलैर्युक्तं
केरजालसमन्वितम्।
तस्या केरलभूदेव्याः
सौन्दर्यं चित्तहारकम्।।
കൃശോദരം സുദീര്ഘക്ഷം
ചന്ദ്രബിംബസമാനനം
ഇന്ദീവരദലാക്ഷ്യാസ്തു
സൗന്ദര്യം ചിത്തഹാരകം
अरुणकान्तिमारूढं
सूर्यकान्तिप्रदर्शनं ।
प्रभाते च प्रदोषे च
सौन्दर्यं चित्तहारकम्।।
രണ്ടാംസ്ഥാനം
अपरिमितमागोल-
मविरामभ्रमायुतम्।
अत्युत्कटं हि जीवानां
सौन्दर्यं चित्तहारकम्।।
മൂന്നാംസ്ഥാനം
മൂഡാനാം മന്ദബുദ്ധീ നാം
സൗന്ദര്യം! വിത്തഹാരകം
വിദുഷാം ചൈവ ശ്രേഷ്ഠാനാം
സൗന്ദര്യം ചിത്തഹാരകം
धर्मज्ञैरावृतो देश़ः
सशैलवनराजिभिः।
यो हरिद्वर्णयुक्तोsस्ति
सौन्दर्यं चित्तहारकम्।।
गोपक्षि हरिणैर्युक्तं
केरवृक्षैः समन्वितम् ।
त्रिदशानां तु या प्रोक्ता
सौन्दर्यं चित्तहारकम् ।।