सर्वशक्तं धनं मतम् – 20-10-2018
नूतना समस्या –
“सर्वशक्तं धनं मतम्”
ഒന്നാംസ്ഥാനം
धनतीति धनं प्रोक्तं
सर्वचित्तप्रचोदकम्।
जीवने सुखदं वस्तु
सर्वशक्तं धनं मतम्।।
Vrinda Vadakkoott
“അഭിനന്ദനങ്ങള്”
नूतना समस्या –
“सर्वशक्तं धनं मतम्”
ഒന്നാംസ്ഥാനം
धनतीति धनं प्रोक्तं
सर्वचित्तप्रचोदकम्।
जीवने सुखदं वस्तु
सर्वशक्तं धनं मतम्।।
Vrinda Vadakkoott
“അഭിനന്ദനങ്ങള്”
सर्वे वदन्ति धर्मज्ञाः
ज्ञानमेव परं धनम्।
केचिद् कापुरुषेणैव
सर्वशक्तं धनं मतम्।।
രണ്ടാം സ്ഥാനം
धर्मं सम्पद्यते येन
कामश्चापि प्रपूर्यते।
त्रिवर्गसाधनं ह्येतद्
सर्वशक्तं धनं मतम्।।
मानवाः धनमिच्छन्ति
तथा देवालयाधिपाः।
धनञ्च ईश्वरेच्छा हि
सर्वशक्तं धनं मतम्।।
धनशक्तिः मनश्शक्तिः
जीवितं नय सुन्दरम्।
धनं च मन्यते तीव्रं
सर्वशक्तं धनं मतम्।।
आचारो बलवान् प्रोक्तः
विश्वासस्तु महत्तरः।
ततोfपि च धनं शक्तं
सर्वशक्तं धनं मतम्।।
धनवान् विन्दते सौख्यं
मित्रसङ्घं च सर्वदा।
जीवितं धनबद्धं तत्
सर्वशक्तं धनं मतम्।।
മൂന്നാംസ്ഥാനം
कं वन्दे सर्वसौख्याय
किमिच्छन्ति च मानवाः।
नेतारस्तुकीमीहन्ते
सर्वशक्तं धनं मतम्।।
धनात् दानसंप्राप्ति-
र्दानात्तु जायते सुखम्।
सर्वे तु सुखमिच्छन्ति
सर्वशक्तं धनं मतम्।।
ഒന്നാംസ്ഥാനം
धनतीति धनं प्रोक्तं
सर्वचित्तप्रचोदकम्।
जीवने सुखदं वस्तु
सर्वशक्तं धनं मतम्।।
कामिनी च धनं चैव
कलहस्यात्र कारणम्।
केन मूढेन संप्रोक्तं
सर्वशक्तं धनं मतम्।।
धनं हि सर्वद्रव्येष्व-
नुत्तममिति श्रूयते।
अत एवोच्यते सद्भिः
सर्वशक्तं धनं मतम्।।
तस्कराः गणिकाश्चैव
किमिच्छन्ति तद्वद।
नात्र संशयो मा भूः
सर्वशक्तं धनं मतम्।।