क्षमा हि परमायुधम् – 14-07-2018
नूतना समस्या –
“क्षमा हि परमायुधम्”
ഒന്നാംസ്ഥാനം
क्षत्रियस्य क्षमा दोषः
ऋषीणां तु क्षमा गुणः।
मानवानां क्षमा शक्तिः
क्षमा हि परमायुधम्।।
Ambika Narayanan
“അഭിനന്ദനങ്ങള്”
नूतना समस्या –
“क्षमा हि परमायुधम्”
ഒന്നാംസ്ഥാനം
क्षत्रियस्य क्षमा दोषः
ऋषीणां तु क्षमा गुणः।
मानवानां क्षमा शक्तिः
क्षमा हि परमायुधम्।।
Ambika Narayanan
“അഭിനന്ദനങ്ങള്”
प्रयत्नं ननु कालेन
प्राप्तं हा सफलं किल?
द्रोहबुद्धिस्तु हा हन्त!
क्षमा हि परमायुधम्।।
कृषिकर्म क्षमायुक्तं
धनधान्यविवर्धकम्।
धनं धान्यं च परार्थं
क्षमा हि परमायुधम्।।
वसुन्धरा क्षमायुक्ता
सर्वाह्लादप्रवर्धिनी।
क्षमया कुरुते कर्म
क्षमा हि परमायुधम्।।
संस्कृतं विश्वभाषा हि
संस्कारस्रोतवाहिनी।
संस्कृतेः सूचनावाक्यं
क्षमा हि परमायुधम्।।
क्षमया वर्धते शक्तिः
चित्तस्य मनसस्तथा।
क्षमा च कुरुते शान्तिं
क्षमा हि परमायुधम्।।
ഒന്നാംസ്ഥാനം
क्षत्रियस्य क्षमा दोषः
ऋषीणां तु क्षमा गुणः।
मानवानां क्षमा शक्तिः
क्षमा हि परमायुधम्।।
मनः शक्तिः मनुष्याणां
बुद्धिः नयनमेव च।
विवेकस्तु गतिः ज्ञेया
क्षमा हि परमायुधम्।।
क्षमावान् लभते शान्तिं
क्षमावान् लभते सुखम्।
क्षमाशीलो महाधन्यः
क्षमा हि परमायुधम्।।
परस्परविरोधे तु
कुरुते दुष्टभाषणम्।
संयमिना क्षमा कार्या
क्षमा हि परमायुधम्।।
രണ്ടാംസ്ഥാനം
जीविते विजयं प्राप्तुं
किं कर्तव्यं जनार्दन?
आप्तव्यं सततं सर्वैः
क्षमा हि परमायुधम्।।
മൂന്നാംസ്ഥാനം
क्षमया वार्यते कामः
क्रोधो लोभश्च मोहता।
वैरी मदश्च मात्सर्यं
क्षमा हि परमायुधम्॥