कोपः सर्वविनाशकः – 30-06-2018
नूतना समस्या –
” कोपः सर्वविनाशकः”
ഒന്നാംസ്ഥാനം
शमादिषट्कविध्वंसात्
कोपो हरति वासनाः।
कोपो निहन्ति संस्कारं
कोपः सर्वविनाशकः।।
Prof. V. Madhavan Pillai
“അഭിനന്ദനങ്ങള്”
नूतना समस्या –
” कोपः सर्वविनाशकः”
ഒന്നാംസ്ഥാനം
शमादिषट्कविध्वंसात्
कोपो हरति वासनाः।
कोपो निहन्ति संस्कारं
कोपः सर्वविनाशकः।।
Prof. V. Madhavan Pillai
“അഭിനന്ദനങ്ങള്”
सत्यं दानं दया धर्मः
स्नेहत्यागमादयः।
कोपेन नश्यते सर्वं
कोपः सर्वविनाशकः।।
രണ്ടാംസ്ഥാനം
काकोलूकं श्रुतं किं नु
तत्र वैरं प्रतिष्ठितम्।
वैरस्य कारणं कोपः
कोपः सर्वविनाशकः।।
कोपात्तु जायते वैरं
वैरिणस्तु कुतो सुखम्।
त्यजति कोपिनं सर्वः
कोपः सर्वविनाशकः।।
യത്ര മേ കോപഭാവോfസ്തി
തത്ര സ്നേഹോ വിനശ്യതി.
കോപസ്തു സജ്ജനൈഃ ത്യാജ്യഃ
കോപഃ സര്വവിനാശകഃ
कोपस्तु नैव कर्तव्यो
मित्रबन्धुकुलेषु नः।
कोपात् सञ्जायते द्वेषः
कोपः सर्वविनाशकः।।
ഒന്നാംസ്ഥാനം
शमादिषट्कविध्वंसात्
कोपो हरति वासनाः।
कोपो निहन्ति संस्कारं
कोपः सर्वविनाशकः।।
कोपो हि दुष्प्रवर्तीनां
हेतुभूतो महान् सखा।
यथा हि वायुना चाग्निः
कोपः सर्वविनाशकः।।
മൂന്നാംസ്ഥാനം
क्षमैव मानवानां हा
बलिष्ठं परमायुधम्
शरीरान्तः स्थितो वैरी
कोपः सर्वविनाशकः।।
अभिनन्दनानि
कोपेन वर्धते शत्रु-
र्यशः कोपेन नश्यते।
कोपेन क्षीयते धर्मः
कोपः सर्वविनाशकः।।
അലബ്ധ്വാ കാമിതം കോപഃ
കോപഃ.സന്ത്രാസകാരണം
സന്ത്രാസാത് വർധതേ കോപഃ
കോപഃ സർവവിനാശകഃ
को वा सृजति वैराग्यं
को वा हन्ति मनोबलम्।
को वा जीवहरो वैरी
कोपः सर्वविनाशक:॥