दानं शीलेष्वनुत्तमम् – 16-06-2018
नूतना समस्या –
“दानं शीलेष्वनुत्तमम्”
ഒന്നാംസ്ഥാനം
मानवानां परं रूपं
शीलमित्येव विश्रुतम्।
परोपकारसम्पन्नं
दानं शीलेष्वनुत्तमम्।।
Dileep Unnikrishnan
“അഭിനന്ദനങ്ങള്”
नूतना समस्या –
“दानं शीलेष्वनुत्तमम्”
ഒന്നാംസ്ഥാനം
मानवानां परं रूपं
शीलमित्येव विश्रुतम्।
परोपकारसम्पन्नं
दानं शीलेष्वनुत्तमम्।।
Dileep Unnikrishnan
“അഭിനന്ദനങ്ങള്”
👌👌
👍👍
अभिऩऩ्दनानि
विद्या वित्तेष्वनुत्तमम्
क्षमा शस्त्रेष्वनुत्तमम्
सत्यं धर्मेष्वनुत्तमम्
दानं शीलेष्वनुत्तमम्
മൂന്നാംസ്ഥാനം
योगदानेन राजत्वं
प्रजानां हितपालने।
योग्य, स्मरतु सर्वत्र
दानं शीलेष्वनुत्तमम्।।
👍
രണ്ടാംസ്ഥാനം
शीलं प्रधानं पुरुषे
तत्र दानं महत्तरम्।
दानात्तु जायते सौख्यं
दानं शीलेष्वनुत्तमम्।।
👍
दानं जङ्गमवस्तूनां
कर्तव्यं नो निरन्तरम्।
दानी तु राजते स्वर्गे
दानं शीलेष्वनुत्तमम्।।
दानेन वर्धते सौख्यं
दानेन वर्धते यशः।
दानी देवसमो मर्त्यः
दानं शीलेष्वनुत्तमम्।।
महाबलिः महाशक्तः
दानेन दिवमाप्तवान्।
दानेनैवामृतो जातः
दानं शीलेष्वनुत्तमम्।।
दानिनः सर्वलोकेषु
श्रेयसा परिभूषिताः।
दानमाचरणीयं नो
दानं शीलेष्वनुत्तमम्।।
सैनिको राष्ट्ररक्षायै
जीवदानं करोति मे।
दानेन जायते ख्यातिः
दानं शीलेष्वनुत्तमम्।।
रक्तदानं महादान-
मित्येव विश्रुतं किल।
दानेन जायते तेजः
दानं शीलेष्वनुत्तमम्।।
ഒന്നാംസ്ഥാനം
मानवानां परं रूपं
शीलमित्येव विश्रुतम्।
परोपकारसम्पन्नं
दानं शीलेष्वनुत्तमम्।।
अभिनन्दनानि
👍👌👌👍👍