चञ्चलं जनमानसम् – 14-04-2018
नूतनी समस्या –
“चञ्चलं जनमानसम्”
ഒന്നാംസ്ഥാനം
कठुवा बालिका चाद्य
पीडिता हन्त! मारिता।
धर्मिणां भारतीयानां
चञ्चलं जनमानसम्।।
സുരേഷ്ബാബു
“അഭിനന്ദനങ്ങൾ”
नूतनी समस्या –
“चञ्चलं जनमानसम्”
ഒന്നാംസ്ഥാനം
कठुवा बालिका चाद्य
पीडिता हन्त! मारिता।
धर्मिणां भारतीयानां
चञ्चलं जनमानसम्।।
സുരേഷ്ബാബു
“അഭിനന്ദനങ്ങൾ”
രണ്ടാംസ്ഥാനം
पश्यतः प्रेयसीं पार्श्वे
चासन्नप्रसवां ध्रुवम्।
भर्तुः वैद्यालयस्थस्य
चञ्चलं जनमानसम्।।
पुत्रीं बाष्पाकुलं वीक्ष्य
यियासुं भर्तृसन्निधिम्।
तातस्य गृहनाथस्य
चञ्चलं जनमानसम्।।
धर्मक्षेत्रे कुरुक्षेत्रे
युद्धाय व्यवसायिनाम्।
सर्वेषां पाण्डुपुत्राणां
चञ्चलं जनमानसम्।।
രണ്ടാംസ്ഥാനം
रक्षिपुरुषहस्तेषु
वैद्यस्य सम्मुखेषु च।
न्यायाधिपसमक्षेपि
चञ्चलं जनमानसम्।।
विलोलभ्रूलतायुक्तां
लीलागमनलालसाम्।
दृष्ट्वा रतिसमां नारीं
चञ्चलं जनमानसम्।।
भौतिकेषु निमग्नाना-
मात्मचिन्ताविरोधिनाम्।
नित्यं कलुषितं च स्यात्
चञ्चलं जनमानसम्।।
कामिनीषु तथा नित्यं
काञ्चनेषु धनेषु च।
आसक्तमन्धभूयिष्ठं
चञ्चलं जनमानसम्।।
ഒന്നാംസ്ഥാനം
कठुवा बालिका चाद्य
पीडिता हन्त! मारिता।
धर्मिणां भारतीयानां
चञ्चलं जनमानसम्।।
മൂന്നാംസ്ഥാനം
ധനാദാനപരം നിത്യ
മന്യചിന്താവിവർജിതം
കൃഷ്ണചിന്താവിഹീനം ഹാ
ചഞ്ചലം ജനമാനസം
मनुष्याः जीवन्ति अत्र
सुखदुखान्यनुभूय ।
इदानीं वर्धितं दुखं
चञ्चलं जनमानसम् ।।