नूतना समस्या (भागः ३८०) 01-03-2025
EPISODE – 380
नूतना समस्या –
“चित्तं भवति चञ्चलम्”
प्रथमस्थानम्
“आशापाशेन बद्धानां
नास्ति सौख्यं कदाचन ।
तेषां हि मानवानान्तु
चित्तं भवति चञ्चलम्” ॥
Ramachandran
“अभिनन्दनानि”
EPISODE – 380
नूतना समस्या –
“चित्तं भवति चञ्चलम्”
प्रथमस्थानम्
“आशापाशेन बद्धानां
नास्ति सौख्यं कदाचन ।
तेषां हि मानवानान्तु
चित्तं भवति चञ्चलम्” ॥
Ramachandran
“अभिनन्दनानि”
तृतीयस्थानम्
कौमारं मानवानान्तु
सर्वकालेष्वनुत्तमम् ।
अन्यत् सर्वं समीचीनं
चित्तं भवति चञ्चलम् ॥
द्वितीयस्थानम्
സർവേഷാം വ്യവഹാരാണാം
നിധാനം ചിത്തമേവ ഹാ!
സംശുദ്ധം ക്രിയതാമേത-
ച്ചിത്തം ഭവതി ചഞ്ചലം.
मन एव मनुष्याणां
कारणं बन्धमोक्षयोः ।
इन्द्रियैश्चोदितं तत्तु
चित्तं भवति चञ्चलम् ॥
प्रथमस्थानम्
आशापाशेन बद्धानां
नास्ति सौख्यं कदाचन ।
तेषां हि मानवानान्तु
चित्तं भवति चञ्चलम् ॥
ईश्वरे चार्पितं चित्तं
शिलासङ्घतकर्कशम् ।
यदि तु नार्पितं पश्य
चित्तं भवति चञ्चलम् ॥
यस्य चिन्ता सदा स्त्रीषु
तसां निम्नोन्नतेषु चेत् ।
भाग्यहीनस्य तस्यापि
चित्तं भवति चञ्चलम् ॥
सत्यं सर्वदा वदनीयं।
सत्यमार्गैव चरणीयं।
जीवने सत्यस्याभावे।
चित्तं भवति चञ्चलं।