जलाभावे विनश्यति (भागः ३७९)
EPISODE – 379
नूतना समस्या –
“जलाभावे विनश्यति”
प्रथमस्थानम्
पञ्चभूतेषु सर्वेषु
जलमेव प्रधानकम् ।
सर्वं चराचरं हा धिक्
जलाभावे विनश्यति ॥
Narayanan Namboothiri
“अभिनन्दनानि”
EPISODE – 379
नूतना समस्या –
“जलाभावे विनश्यति”
प्रथमस्थानम्
पञ्चभूतेषु सर्वेषु
जलमेव प्रधानकम् ।
सर्वं चराचरं हा धिक्
जलाभावे विनश्यति ॥
Narayanan Namboothiri
“अभिनन्दनानि”
जलं जीवनमाधारं ।
जलं प्राणभूतं भवेत्।।
मानवाः भूमे स्थितिं।
जलाभावे विनाश्यति।।
जलमेव हि सर्वेषां
जीवनस्य नियामकम् ।
सर्वं चराचरं विश्वे
जलाभावे विनश्यति ॥
अपिबन्तो जलं किञ्चित्
देवतापि न जीवति ।
स शक्त इन्द्रचापो /पि
जलाभावे विनश्यति ॥
ജലം വിനാ ന ഭൂതാനാം
സമസ്താനാഞ്ച ഭൂതലേ
ജീവനം ദുഷ്കരഞ്ചൈവ
ജലാഭാവേ വിനശ്യതി.
ജലം ബലം ഹി മത്സ്യാനാം
മർത്യാനാഞ്ച തഥൈവ ച
ജലമേവ ജഗത്സർവം
ജലാഭാവേ വിനശ്യതി.
द्वितीयस्थानम्
കുരുതേ വസുധാം വാരി
സസ്യശ്യാമലകോമലം
ഇയം കോമലിമാ ഹന്ത!
ജലാഭാവേ വിനശ്യതി.
तृतीयस्थानम्
ഉർവ്യാന്തു ബഹു രത്നാനി
തേഷു മുഖ്യം ജലം മതം
ഭൂമിർഭൂസ്ഥം സമസ്തം ഹാ!
ജലാഭാവേ വിനശ്യതി.
हिमभावेन विख्यातो
हिमालयो महाचलः ।
नगाधिपस्य नामापि
जलाभावे विनश्यति ॥
सागरश्च तथा वापी
नदीकुल्यादिकं क्षणात् ।
किमुत ! तत् वनञ्चापि
जलाभावे विनश्यति ॥
प्रथमस्थानम्
पञ्चभूतेषु सर्वेषु
जलमेव प्रधानकम् ।
सर्वं चराचरं हा धिक्
जलाभावे विनश्यति ॥