मातृस्नेहः।

कविता – वि.विजयन् पट्टाम्बी।

 

 

 

माता∫स्ति मामक गेहे

गेहस्य शोभां तनोति।

मातरं नित्यं प्रणम्य भक्त्या

विद्यालयः मया गम्यः।

जन्मनः पूर्वं सा साध्वी-मम

सौभाग्यकारणं जातम्।

पूर्वे वयसि च नित्यं जल-

पानं च भोज्यं च दत्तम्।

वर्णयुतकं मे वस्त्रं – तया

धारितं सर्वमङ्गेषु।

क्षीरं मधुरसभोज्यं -तया

पानाय नित्यं प्रदत्तम्।

पुस्तकं स्यूते निक्षिप्य – मम

हस्ते तया नित्यं दत्तम्।

मध्याह्नभोजनं पात्रे नित्यं

सस्नेहं मह्यमयच्छम्।

मामकमाता मे इष्टा – तस्याः

भाषणं श्रोत्रपियूषम्।

प्रत्यक्षदेवता माता – मया

नित्यं प्रणामश्च कार्यः।।

One Response to मातृस्नेहः।

  1. Airish says:

    നല്ല സൃഷ്ടി

Leave a Reply

Your email address will not be published. Required fields are marked *