मच्चिते सन्निधिं कुरु । Vijayan V Pattambi

मच्चिते सन्निधिं कुरु ।
– – – – – – – – – – – – –
सरस्वति नमस्तुभ्यं
सर्वपापविनाशिके ।
शारदे मायिके देवि !
मच्चित्ते सन्निधिं कुरु ॥ ।

मातृरूपेण भूतेषु
सततं संस्थिता हृदि ।
सर्वेषां सौख्यलाभाय
देवि तुभ्यं नमो नमः ॥ २

पद्मनाभप्रिये देवि
पद्मपीठसुसंस्थिते ।
पद्मगन्धेन सम्पन्ने
पद्माक्षि ! पाहि मां सदा॥3

शुभ्रवस्त्रप्रिये देवि
रत्नहारविभूषिते ।
शरच्चन्द्रोज्वले धन्ये
चन्द्रिकाधवलप्रभे ॥ 4

कमण्डलुमक्षमालाञ्च
धारयन्ती करेषु या
सा मे चित्ततमः हन्तु
सर्वपापानि सर्वदा। । 5

चलत्पद्मविलोलाक्षि !
विमले विश्वरक्षिके ।
विलोलाक्षियुगे पुण्ये
मच्चित्ते सन्निधिं कुरु ॥ 6

ब्रह्मणा शङ्करणापि
विष्णुना चापि पूजिते ।
सर्वदेवकुलै र्नित्यं
पूजिते जगदम्बिके ॥ 7

जाड्यापहारिके देवि
कष्टसङ्कटनाशिके ।
शिष्टानां जनजालानां
रक्षिके शक्तिरुपिणि । । 8

शिवे च शिवदे देवि
शिवचित्तनिवासिनि ।
शिवेतरविनाशाय |
शैलपुत्रि ! नमो नमः ॥ 9

पाहि पाहि सदा पाहि
पावनेष्वतिपावने ।
पापान्मां मोचय भद्रे
परमानन्ददायिके ॥ 10

Leave a Reply

Your email address will not be published. Required fields are marked *