जलम् अमूल्यम् -सम्भाषणकविता।

विजयन् वि. पट्टाम्बि।

बालः

कोकिल कोकिल किं ते वदनं

शोकभरं तत् परिशुष्कम्

घोरनिदाघे तावकवदनं

जातं रूपविहीनमहो

कोकिलः

अपिबं बालक जलमल्पं मे

भारतनद्याः गतदिवसे

हन्त हतोस्मि वदनम् उदरं

नेत्रद्वयमपि परिशुष्कम्।

बालः-

अयि भो कष्टं जलमखिलं तत्

शुष्कं जातं विषलिप्तम्।

कोकिलः –

कष्टं कष्टं दुष्टजनैस्त-

दखिलं दूषितमनुनिमिषम्।

ज्ञेयं मानवकुलजैः सर्वैः

जीवजलामृतमतिमूल्यम्।।

5 Responses to जलम् अमूल्यम् -सम्भाषणकविता।

  1. रजनी.के says:

    उततमं

  2. जलकविता उत्तमा

  3. Shijith kumar pm says:

    Uttamam

  4. Prasad says:

    👌

  5. अत्युत्तमम्

Leave a Reply

Your email address will not be published. Required fields are marked *