Daily Archives: October 3, 2025
स्तवविंशति:
विद्या चारभ्यते ह्यत्र दिनेस्मिन् मङ्गले शुभे।
वाणीस्तुतिपरै : कैश्चित् श्लोका मृतपल्लवैः ॥
श्वेतपद्मासने देवि ! सरस्वति नमोस्तुते ।
शुभ्रवस्रावृते धन्ये वन्दे त्वां कामरूपिणीम् ॥
कुन्देन्दुधवले दीप्ते पूर्णचन्द्रानने शुभे ।
कामाक्षि करुणापूर्णे वाणि !तुभ्यं नमो नमः ॥
वीणावादनसंलग्ने चारुशीले मनोहरे ।
सर्वसिद्धिप्रदे धन्ये वाणि तुभ्यं नमोस्तु ते ॥
सर्वपापहरे देवि सर्वदे ! करुणा परे ।
शब्दार्थसुखबोधाय देवि तुभ्यं नमो नमः ॥
हिमशैलसुते पुण्ये सर्वहृदय वासिनि !
साहित्यामृतकल्लोले ज्ञानवारिधि सन्निभे ॥
कामदे करुणानेत्रे कामरूपे च शैलजे ।
महाशक्ते महापुण्ये जयतात् वरवर्णिनि ॥
सत्यकण्ठप्रदानाय शीलस्य पालनाय च
सौम्ये देवि सदा रक्ष भद्रे पालय पाहि माम् ॥
चरन्तं चन्द्रिकास्वद्य पामरं कुक्कुटोपमम् ।
विज्ञानदीपसाह्येन मां रक्ष भुवनेश्वरि !!
सौवर्णभूषिते देवि सर्वरत्न प्रभूषिते ।
सर्वज्ञे मङ्गले धन्ये रक्ष मां जगदीश्वरि ॥
तिमिरान्धस्य नेत्रस्य यथा शस्त्र क्रिया वरा
तथा सरस्वती पूजा सूक्ष्मशब्दार्थ दर्शिका ॥
नवरात्रेषु तत्पूजा मुख्या च फल दायिका ।
सारस्वतस्य बोधाय पूजेयं कीर्तिता बुधैः ॥
कर्मसाफल्यलामाय . शब्दार्थ बोधनाय च
वन्दे त्वां वरदे धन्ये सुन्दरे हिम शैलेजे ॥
साहित्यरसिके देवि सङ्गीतप्रवरे शुभे
जगताञ्च समस्तानां कुरुतात् मङ्गलं शुभे ॥
देव्यानुग्रहमात्रेण पामर : पण्डिता यते
उन्मीलयति चक्षूंषि देवी भक्त परायणा ॥
साहित्यं चाथ सङ्गीतं वाणीदेण्याः स्तनद्वयम् ।
चिन्तामधुरञ्चैकं चान्यच्छ्रवण चोदकम् ॥
दुष्टनिग्रहलाभाय दुर्गारूप मुपाश्रिते ।
दुष्टान् सर्वांश्च संहत्य शिष्टान् रक्ष महाभुजे ॥
अधर्मस्य निरासाय ह्युग्ररूपं समाश्रिते
धर्मसंस्थापिके देवि ! वन्दे त्वामुग्र मूर्त्तिके ॥
मकुटाभे महामन्त्रे नवलावण्य संयुते ।
साकारे करुणानेत्रे सर्वपापहरे शुभे ॥
कर्मसाफल्यलाभाय सर्वमर्त्य हिताय च
देवि तुभ्यं नमस्कृत्य विद्या चारभ्यते मया ॥
Vijayan V Pattambi










