Monthly Archives: August 2024
AMMA इति मलयालचलचित्राभिनेतृसङ्घटनस्य अध्यक्षस्थानं मोहन् लालः अहासीत्।सङ्घटनस्य निर्वाहकसमितिं उदसृजत्।
कोच्ची- ए एं एं ए इति सङघटनस्य आध्यक्ष्यात् मोहन् लालः त्यागपत्रम् अदात्। सङ्घटने भिन्नाभिप्रायः अतिरूक्षः इत्यतो स्थानत्यागम्। पूर्वं कानिचन अङ्गानि स्थानत्यागसन्नद्धतां संसूचयन्ति आसन्। १७ अङ्गयुक्ता निर्वाहकसमितिमपि उदसृजत्।
हेमा समितेः आवेदनस्य प्रकाशनानन्तरं ए एं एं ए सङ्घस्य कानिचन वरिष्ठाङ्गानि लैङ्गिकारोपणम् अभिमुखीकुर्वन्ति आसन्। एतस्यां भूमिकायामेव अध्यक्षस्य स्थानत्यागः निर्वाहकसमितेः उत्सर्जनं च सञ्जातम्। मासद्वयाभ्यन्तरे अध्यक्षस्य नूतननिर्वाहकसमितेश्च चयनं भविता इति मोहनलालेन निगदितम्।
संस्कृतस्य दिनं महत् (भागः ३५४) 31-08-2024
EPISODE – 354
नूतना समस्या –
“संस्कृतस्य दिनं महत्”
प्रथमस्थानम्
“विज्ञानसागरस्यास्य
सर्वज्ञैः पूजितस्य च ।
जनन्याः सर्वभाषाणां
संस्कृतस्य दिनं महत्” ॥
Srividya
“अभिनन्दनानि”
सौशील्यं साधुलक्षणम् (भागः ३५३) 24-08-2024
EPISODE – 353
नूतना समस्या-
“सौशील्यं साधुलक्षणम्”
प्रथमस्थानम्
“कौशलत्वं सदा निन्द्यं
वत्स ! सन्त्यज तं जवात् ।
सुशीलो भव लोकेfस्मिन्
सौशील्यं साधुलक्षणम् “॥
Sridevi
“अभिनन्दनानि”
संस्कृतदिनगीतम् 2024
संस्कृतजीवनम्
संस्कृतभाषामधुरं पिबतु
मधुरं मधुमधुरम् ।
संस्कृतभाषां श्रृणुतान्नित्यं
मुरलीनिनदसमाम् ।
पठताद्भाषां ललितां सरलां
पावनचरितां ताम्
परमपवित्रां सागरतुल्यां
मधुरां पदललिताम् ।
वदतान्मानव ! संस्कृतभाषां
वीणाक्वणितसमाम्
लिखतान्नितं सरसमनोज्ञां
सारां चार्थभराम् ।
संस्कृतमेतत् जीवनमखिलं
सर्वजनानां मे
तस्मिन्नेव हि सततं भूयात्
स्नेहामृतवर्षम् ॥
Vijayan V Pattambi
राज्यस्तरीयाः चलचित्रपुरस्काराः घोषिताः
।
पृथ्वीराज् उत्कृष्टः नटः,उष्कृष्टा नटी विभागे द्वे। उर्वशी बीना चन्द्रन् च ।
तिरुवनन्तपुरम्- ५४ तमः राज्य-चलचित्रपुरस्कारः घोषितः। आटुजीवितम् इति तलचित्रे उत्कृष्टाभिनयं प्रकटितवान् पृथ्वीराज् वर्यः उत्कृष्टनटत्वेन चितः। उल्लोषुक्क् इति चलचित्रे श्रेष्ठाभिनयं प्रकटितवती उर्वशी तथा तटव् इति चित्रे श्रेष्ठाभिनयं प्रकटितवती बीना चन्द्रन् च उत्कृष्टे नट्यौ स्तः।
उत्कृष्टः निदेशकः ब्लसीवर्यः, उत्कृष्टं चलचित्रं तटव् च भवति। फासिल् रजाक् वर्यः तटव् इति चलचित्रद्वारा उत्कृष्टो नवागतनिदेशको Sach। नवधिकैः पुरस्कारैःआटुजीवितम् इति चलचित्रम् उत्कृष्टतामवाप।
भूयाद्राष्ट्रं समुन्नतम् (भागः ३५२) 17-08-2024
EPISODE – 352
नूतना समस्या –
“भूयाद्राष्ट्रं समुन्नतम्”
പ്രഥമസ്ഥാനം
“സൗഭ്രാത്രേണ ച സ്നേഹേന
സമൃദ്ധ്യാ സേവനേന ച
സുസമ്പന്നം മദീയം ഹാ!
ഭൂയാദ്രാഷ്ട്രം സമുന്നതം”
Radhakrishnan
“അഭിനന്ദനങ്ങൾ”
८,९ कक्ष्यायोः सम्पूर्णोत्तरणं न भविता। दशमकक्ष्यायां उत्तारणाय न्यूनतमाङ्कः अवश्यं करिष्यतिl
तिरुवनन्तपुरम्- केरलराज्यस्य पाठ्यक्रमानुसारम् अध्ययनं कुर्वतां छात्राणां कृते न्यूनतमाङ्कः अवश्यं क्रियते। अद्य समायोजिते मन्त्रिमण्डलाधिवेशने एवायं निर्णयः। जूण् मासे समायोजिते शिक्षासम्मेलने अयं निर्देशः सूचितः आसीत्
अष्टम्यां नवम्यां च कक्ष्यायाम् इतःपरं सम्पुर्णोत्तरणं न भविता। उत्तरणाय न्यूनतमाङ्कः अवश्यं क्रियते। २०२५-२६ अध्ययनवर्षे एस् एस् एल् सि परीक्षा एतदनुसारम् आयोजयिष्यति।
सम्पूर्णोत्तरणं राज्ये शिक्षायाः गुणवत्तान्यूनतायै कारणं स्यादिति सूचनानुसारमेव अयं निर्णयः स्वीकृतः।
दुरन्तः केन वार्यते (भागः ३५१) 10-08-2024
EPISODE – 351
नूतना समस्या –
“दुरन्तः केन वार्यते”
പ്രഥമസ്ഥാനം
“വിത്തമേവോത്തമം കാര്യം
മന്യമാനൈർനരാധമൈ:
സംസൃഷ്ടോഽയം മഹാകഷ്ടം
ദുരന്ത: കേന വാര്യതേ ?”
Radhakrishnan
“अभिनन्दनानि”
वयनाट् देशे प्रकृतिदुरन्तेभ्यः पीडितानां छात्राणाम् अध्ययनाय सुविधाः आयोजयिष्यति- मन्त्री शिवन् कुट्टि वर्यः।
कोल्लम्- वयनाट् देशे आपतिताभ्यः प्राकृतिकदुर्घटनाभ्यः अनेके जनाः समाश्वासकेन्द्रे संसक्षणायां वर्तन्ते। तेषु छात्राः अधिकाः सन्ति। तेषां विद्यालयाः अपि आपदि संलग्नाः विद्यन्ते। समाश्वासकेन्द्रेषु वसतां छात्राणाम् अध्ययनाय सर्वाः सुविधाः आयोजयिष्यति इति केरलीय शिक्षाविभागमन्त्री वि शिवन् कुट्टि वर्यः अब्रवीत्।
अद्य दुरन्तप्रदेशे सन्दर्शनं कृत्वा स इदमपि न्यगादीत् यत् विंशति दिनाभ्यन्तरे एतेषाम् अध्ययनप्रवर्तनानि प्रारभ्यन्ते इति। प्रथमदिने छात्राणां मानसिकप्रबलीकरणाय प्रवर्तनानि भविष्यन्ति। विद्यालयानां पुनर्निर्माणादिकं अचिरेण भविता। तदर्थम् उदारमतीनां साहाय्यं नूनं भविष्यति इत्यपि तेन निगदितम्।