Category Archives: News Updates
अद्य वाचनदिनं, वाचनस्य महिमानम् आवेदयति पी.एन्.पणिक्कर् वर्यस्य जीवनम्।
कोट्टयम्- केरलेषु वाचनेन परिवर्तनं कर्तुमुद्यतस्य परिवर्तनवादिनः स्मरणदिनं भवति जूण्-१९ दिनाङ्कः। सममेव पुस्तकेषु स्निग्धं तं वाचनराजं प्रति आदरस्य प्रतीकत्वेन आचर्यमाणं राष्ट्रिय़ वाचवदिनमपि भवत्ययं दिनाङ्कः। पुतुवायिल् नारायण पणिक्कर् इति पी.एन्. पणिक्कर् वर्यः तथा तस्य प्रवर्तनेन उत्फुल्लितं फलितं च ग्रन्थशालाप्रस्थानं च राष्ट्रे सुवर्णलिपिषु अङ्कितं वर्तते।
१९९६ तः २०१६ पर्यन्तं केवलं केरलराज्ये एव जूण् १६ तमे दिने आचरितमासीत् वाचनदिनम्।१९९५ जूण् १६ दिने कालयवनिकामन्तरितं तं महाशयं प्रत्यादरः एव तदेव दिनं वाचनदिनत्वेन परिकल्पितम्। परं २१ वर्षे अतीते २०१७ तः जूण् १९ राष्ट्रिय वाचनदिनत्वेन भारतं स्वीचकार। तेन मलयालस्य प्रसक्तिः अक्षराणां शक्तिः तस्य महतः प्रशस्तिश्च आभारतं प्रसारितमिति केरलानाम् अभिमानास्पदं भवति। अन्तर्जालबद्धे अस्मिन् समाजे वाचनस्य महत्वम् प्रामुख्यं च अद्यावधि नास्तंगतमिति समाश्वासस्य विषयः।
सर्वेभ्यो वाचनदिनाशंसाः।
कञ्चिक्कोट् रेयिल्वे पथिकयानयन्त्रशालापद्धतिः न परित्यक्ता,- पीयूष् गोयल्।
नवदिल्ली- पालक्काट् कञ्चिक्कोट् रयिल्वे पथिकयान यन्त्रशालापद्धतिः न परित्यक्ता इति रेयिल्वे मन्त्री पीयूष् गोयल् अवदत्। यन्त्रागारस्य प्रवर्तनार्थं सर्वाणि कार्याणि आलोच्य अन्तिमं निर्णयं भविष्यतीति स असूचयत्। अत्रान्तरे रेल् परिवहणविकासार्थं राज्यसर्वकारस्य सहकरणं नास्ति, स्थलस्वीकारविषये अधुनापि मन्दगतिः अस्ति इति मन्त्री विमर्शनमकरोत्।
आवश्यार्थं पथिकयानं नास्तीत्यतः यात्रिकाः कष्टमनुभवन्ति। प्रारम्भप्रवर्तनार्थं सर्वकारः सज्जः भवेत् इति स अवदत्।
पथिकयानयन्त्रशाला पालक्काट् कञ्चिक्कोट् सथले एव स्थापनीया इत्यावश्यमुन्नीय मुख्यमन्त्री पिणरायि विजयः केन्द्रमन्त्रिणे लेखं लिखितवानासीत्।
कोच्ची मेट्रो संस्थानस्य अद्य प्रथमं वार्षिकम्, पिष्टापूपवितरणेन सह आघोषः।
कोच्ची- कला-सांस्कृतिककार्यक्रमेण सह कोच्ची मेट्रो संस्था अद्य प्रथमं वार्षिकमाचरति। इटप्पल्ली मेट्रो निलये सामाजिकाः तद्देशीयाः के.एं.आर्. एल्. सेवकाश्च संभूय महान्तं पिष्टकापूपं छित्वा आघोषाणामारभमकुर्वन्।आघोषस्य भागत्वेन गोपिनाथ् मुतुकाट् इति मान्त्रिकस्य मेट्रो टैं माजिक् इति मायाजालप्रकटनं कलाशाला छात्राणां सांस्कृतिककार्यक्रमाश्च भविष्यन्ति। एकसप्ताहात्मकः आघोष एव आसूत्रितः।
केजरिवाल् वर्यस्य समरः षष्ठं दिनं प्राविशत्। आवश्यानि नाङ्गीक्रियन्ते चेत् रविवासरे आम् आद्मी पार्टी सामाजिकाः प्रधानमन्त्रिणः सद्मनः पुरतः समरं करिष्यन्ति।
दिल्ली- निस्सहकरणे वर्तमानाः भरणनिर्वहणसेवकाः कर्मणि प्रवेष्टुं निर्देष्टव्याः इत्यावश्यमुन्नीय दिल्ली उपराज्यपालस्य वसतौ दिल्ली मुख्यमन्त्री अरविन्द केजरिवाल तथा त्रयः मन्त्रिणश्च कुर्वाणः समरः अद्य षष्टे दिने प्रविशति। आवश्यानि यावदङ्गीक्रियन्ते तावत् समरः इति स्थैर्ये तिष्ठन्ति मन्त्रिणः। उपमुख्यमन्त्री मनीष् सिसोदिया, सत्येन्द्र जेयिन् गोपाल् रोय् इति मन्त्रिणौ च केजरिवालेन सह समरे सन्ति। आवश्यानि नाङ्गीक्रियन्ते चेत् प्रधानमन्त्रिणः वसतेः पुरतः प्रक्षोभं संघाटयितुम् आम् आद्मी नेतारः सामाजिकाश्च निश्चितवन्तः।
ऐ.ए.एस् सेवकाः गतेन मासचतुष्टयेन समराङ्गणे सन्ति। कर्मणि पुनः प्रवेष्टुं ते प्रेरणीयाः इति केजरिवालस्य मुख्यम् आवश्यम्। विषयेस्मिन् यथोचितं परिहारं कर्तुं प्रधानमन्त्रिणे लेखद्वारा अर्थयामास केजरिवाल् वर्यः। अस्मिन्नन्तरे मुख्यमन्त्रिणः समरं विरुद्ध्य भा.ज.पा. दलनेतारः रङ्गमागताः सन्ति।
प्रावृट् विपत्तिः। राज्ये ह्यः १४ जनानां जीवाः अपहृताः। २४ होराः जाग्रता निर्देशः। तिरोभूतानां कृते मार्गणमनुवर्तते।
कोषिक्कोट्- प्रावृडापत्त्या इतः पर्यन्तं मृतानां संख्या ७ जाता। अद्य वर्षापातस्य ईषत् शमनमस्ति। दुरन्तनिवारणसमितिः रक्षाप्रवर्तनानि ऊर्जितानि अकरोत्। मृत्पादेन तिरोभूतानां कृते मार्गणम् अद्याप्यनुवर्तते। प्रतिकूलवातावरणेन ह्यः रात्रौ मार्गणं स्थगितमासीत्। शनिवासरपर्यन्तं घोरा वृष्टिर्भविता इति वातावरण निरीक्षणकेन्द्रस्य सूचना अस्ति।
रष्या विश्वस्य मूर्ध्नि, विश्वचषक पादकन्दुकक्रीडायाः अद्य शुभारम्भः।
मोस्को- इतः परं ३२ दिनानि सर्वेषां श्रोत्रनयनानि रष्यां प्रति भविष्यति। पादकन्दुकक्रीडायाः विश्वस्पर्धा अद्य भारतसमयं रात्रौ ८.३० वादने मोस्को नगरे आरभते। ३२ तमे दिने अस्यामेव वेदिकायां विश्वचषककिरीटं कस्येति निर्णयमपि भविता।
अद्य प्रचाल्यमाने उद्घाटनमत्सरे आतिथेयराष्ट्रं रष्या सौदी अरेभ्या राष्ट्रस्य प्रतिद्वन्दी भविष्यति। आहत्य ३२ राष्ट्राणि स्पर्धायां भागं गृह्णन्ति। मोस्को, सेन्ट् पीट्टेर्स् वर्ग्, सोच्च प्रभृतिषु ११ नगरेषु १२ क्रीडाङ्गणेषु स्पर्धा भविष्यति। जूलै १५ तमे दिनाङ्के अन्तिमपादस्पर्धा भविष्यति। ग्रूप् तः अन्तिमपादपर्यन्तं ६४ प्रतियोगितायां ३२ राष्ट्रेभ्यः ७३६ क्रीडकाः भागभाजः सन्ति।
काश्मीरे पाकिस्तानस्य भुषुण्डिप्रयोगः, चत्वारः सैनिकाः मारिताः।
दिल्ली- जम्मूकाश्मीरस्थे साम्बा स्थले पाकिस्तानेन कृते भुषुण्डिप्रयोगे सीमासुरक्षाबलस्य उपाधिपेन सह चत्वारः सैनिकाः मारिताः। त्रयः रुग्णाश्च सञ्जाताः।
गतरात्रै चाम्ब्लियाल् प्रान्ते रांगर् अन्ताराष्ट्रसीमायामेव पाकिस्तानेन भुषुण्डिविरुद्धसमयः लङ्घितः। रात्रौ १०.३० तः आरब्धःगोलिकाप्रहारः प्रातः ४.३० पर्यन्तं व्याप्तः इत्येवावेदनम्।
गते सप्ताहे प्रकोपनं विना जम्मूसीमायाम् अघ्नूर् प्रान्ते पाकिस्तानेन प्रहारः कृतः आसीत्। तत्र द्वौ सैनिकौ मृतावास्ताम्।
ट्रम्प् वर्यः किंवर्यश्च शान्तिसमये हस्ताक्षरमकुरुताम्।
सिङ्गप्पूर्- अमेरिक्का राष्ट्रपतिः डोणाल्ड् ट्रम्प् वर्यः उत्तरकोरिया भरणाधिरारिणा किं जोङ् उन् वर्येण सह शान्तिसमये हस्ताक्षरमकरोत्। उन् वर्येण सह साक्षात्कारः स्व प्रतीक्षायाः अधिकमभवत् इति ट्रम्प् वर्यः अवदत्। उत्तरकोरियया सह सुशक्तः संबन्धः भवेदिति स असूचयत्। सिङ्गप्पूर् काप्पल्लेलस्थले अभिमुखं ४५ निमेषपर्यन्तमभवत्।
राज्य परिवहणनिगमस्य कर्मकराः अभिनन्दनमर्हन्ति।
चवरा,कोल्लम्- यात्रिकाः बस्यानं प्रतिपाल्य तिष्ठन्तीति साधारणमेव। किन्तु बस्यानं यात्रिकां परिपाल्य अतिष्ठदिति नवीना वार्ता। प्रातः सार्धैकवादने विजने प्रदेशे अवतारितांय युवतीं प्रतिपाल्य तस्थैः यात्रिकैः साकं बस्यानं अतिष्ठत्। तस्याः सोदरः आगत्य यावत् तां नीतवान् तावत् बस्यानं यात्रिकाश्च तत्रैव प्रतिपल्य अतिष्ठन्। सा बालयुवतिरेव कार्यमिदं सामाजिकमाध्यमद्वारा लोकान् अवेदयत्। ततः प्रभृति बस् चालकं नियन्त्रकं च अभिनन्द्य बहवः आगताः।
नियन्त्रकः पि.बि. षैजू तथा चालकः के. गोपकुमारश्च यात्रिकैः समं सार्धसप्तनिमेषपर्यन्तं युवत्याः रक्षकौ जातौ। कोयम्पत्तूरुतः तिरुवनन्तपुरं प्रस्थितं राज्य परिवहण निगमस्य बस् यानमेव चवरा शङ्करमङ्ङलं बस् निस्थाने अवतारितां युवतीं प्रपाल्य तस्थौ। द्विचक्रिकायाम् आगतः तस्याः सोदरः महावृष्ट्या चिरायितः अभवत्।














