Category Archives: News Updates

गौरियम्मावर्यायाः शततमजन्मदिनाघोषस्य अद्य शुभारम्भः।

आलप्पुषा – राजनैतिककेरलस्य मातामह्याः के.आर्. गौरियम्मा वर्यायाः शततमं जन्मदिनं रविवासरे वर्तते। तत्सम्बन्धिनः आघोषस्य अद्यैवारम्भः। आलप्पुषा रैय्बान् स्थले आयोज्यमाने समारोहे प्रातः ११ वादने गौरियम्मा अपूपछेदनेन आमोदं वितरति। तस्यै दन्मदिनाशंसया सह मन्त्रिणः राजनैतिकनेतारश्च शनिवासरे एव प्राप्ताः। सर्वेभ्यः मधुरस्मरणया सह मधुरं वितीर्यैव स तान् स्वीकृतवती।

राजनैतिकजीवने राष्ट्रस्य जनानां च कृते निस्तुलं योगदानं कृतवती भवति गौरियम्मा इति के.पी.सी.सी. अध्यक्षः एं.एं. हसन् वर्यः सभार्यः आगत्य अवदत्। मन्त्रिणी मेसिक्कुट्टियम्मा अरुणपुष्पदानेन ताम् अमानयत्।

परीक्षणोड्डयने विमानं भूमौ पतितम्।

परीक्षणोड्डयने विमानं भूमौ पतितम्। स्वजीवत्यागेन दुरन्तमपाकर्तुं प्रयतितायाः वनिता चालिकायाः आश्रुपूरिता अन्त्याञ्जलिः।

मुम्बै – परीक्षणोड्डयने विमानम् अग्निगोलसृशं भूमावपतत्। मुम्बै महानगरं प्रकम्पितस्य विमानापघातस्य सततदृश्यानि लब्धानि। भग्नस्य प्रासादस्य समीपस्थे गृहे संस्थिते सी.सी.टी.वी. दृश्ये एव अग्निगोलरूपेण पतितस्य विमानस्य दृश्यं वर्तते। विमानस्थायाः वनिताचालिकायाः प्रत्युत्पन्नमतिरेव महादुरन्तमपाकरोत् इति भूतपूर्व व्योमयानमन्त्री प्रफुल् पट्टेल् वर्यः ट्विट्टर् द्वारा सूचयामास।

स्वजीवं तृणवद्गण्यैव सा चालिका विमानं जनसम्मर्दरहिते स्थले अपातयत्। तस्यै स अभिवाद्यमार्पयत्। मृतानां पारिवारिकान् प्रत्यपि स अन्वशोचत्।

गुरुवासरे मध्याह्ने सार्धैकवादने आसीदपघातः। परीक्षणोड्डयनस्य भागत्वेन जुहु तः प्रस्थितं द्वादशासन्दयुक्तं विमानमेव अपघाते पतितम्। मुम्बै अन्ताराष्ट्रविमानपत्तने आसीत् निश्चितम् उत्तारणम्। परन्तु ततः पूर्वं विमानं भग्नमभवत्। समीपदेशे निर्मीयमानस्य प्रासादस्य भित्तिकायां घट्टनेन विमानम् उत्तारितम्, अग्निशमनसेनायाः आगमनात् पूर्वं विमानम् अग्निसादभवत्।

विश्वविद्यालयानुदानायोगः उत्सार्यते, तत्स्थाने उन्नत शिक्षा आयोगः।

नवदिल्ली-  विश्वविद्यालयानुदानायोगम्(यू.जी.सी.)उत्सारयितुं केन्द्रसर्वकारस्य निर्णयः। तत्स्थाने उन्नत शिक्षा आयोगः रूपवत्करोति। आयोगे/स्मिन् १४ अङ्गानि भविष्यन्ति। नियमनिर्माणार्थं निर्देशान् समर्पयितुं जूलै ७ पर्यन्तम् अधिकारः वर्तते। गते मेय् मासे  यू.जी.सी तथा ए.ऐ.सी.टी.ई. इति संस्थाद्वयोः स्थाने नूतनम् अभिकर्तारम् आयोजयितुं केन्द्रसर्वकारेण निर्णीतमासीत्। उच्चतर शिक्षा प्रबलीकरण व्यवस्थापन अभिकर्ता (Higher Education Empowerment Regulation Agency)अथवा हीरा(HEERA) इति नूतनं नाम स्यात् इत्यावेदनम्।

मानव-विभवशेषीविभागः नीती आयोगश्च संयुक्ततया नियमस्यास्य प्रारूपं व्यवस्थापयतः।

केरलेषु पलास्तिकवस्तूनां सम्पूर्णनिरोधः। नियमलङ्घने सप्तलक्षरूप्यकाणि कारावासश्च दण्डः।

तृशूर् – सम्पूर्ण पलास्तिकनिरोधस्य भागत्वेन प्रथमघट्टे सञ्चार-स्वास्थ्यमेखलाभ्यः कूपीजलस्योपयोगं निरोद्धुं राज्यसर्वकारः निरणयत्। षण्मासाभ्यन्तरे ५०० तल्पादधिकयुक्तेभ्यः चिकित्सालयेभ्यः अतिसौविध्यभोजनालयेभ्यः शय्यागृहेभ्यः नौकागृहेभ्यश्च कूपीजलं निष्कासयितुं राज्य मलिनीकरण-नियन्त्रण-संस्थायाः निर्णयः।

जूण् तः षण्मासावधिरेव कूपीजलं निष्कासयितुं समयः दत्तः। पलास्तिकपात्रस्य स्थाने स्फाटिकं पात्रमुपयोक्तुं तथा सुरक्षितपेयजललाभार्थं जलशुद्धीकरणयत्रं स्थापयितुं च निर्देशः दत्तः।

मलिनीकरणनियन्त्रणसंस्थानस्य जनपदीयकार्यालयद्वारा एतत्सम्बन्धि परिपत्रम् अचिरेण दीयते। पञ्चलक्षतः सप्तलक्षपर्यन्तं रूप्यकाणां दण्डः तथा कारादण्डश्च नियमलङ्धकेभ्यः दीयते।

केरल संस्कृताध्यापकफेडरेषन् राज्यस्तरीयवनितामेलनम्-मातृकम् २०१८ कालटी ब्रह्मानन्दोदयं विद्यालये।

कालटी- वनिताप्रबलीकरणस्य कालिकप्राधान्यमवबोधयितुं केरल संस्कृताध्यापक फेडरेशन् इति संघेन मातृकं २०१८ नाम्ना संस्कृताध्यापिकानां संगमम् आयोज्यते। आदिशङ्करस्य जन्मभूमौ कालटिदेशे २०१८ जूलै १४ दिनाङ्के अधिवेशनमिदम् आयोक्ष्यते। कालटी ब्रह्मानन्दोदयम् उच्चतरविद्यालयम् अस्य सङ्गमस्य वेदिका भविता।

केरल वनिता आयोगस्य अध्यक्षा श्रीमती एं.सी. जोसफैन् वर्या अधिवेशनस्यास्य उद्घाटनं निर्वक्ष्यति। सामाजिक-राजनैतिक-सांस्कृतिकमण्डलेषु प्रमुखाः भागभाजः भविष्यन्ति। कालटी श्रीरामकृष्ण अद्वैताश्रमस्य अध्यक्षः स्वामी श्रीमत् श्रीविद्यानन्दः अनुग्रहभाषणं विधास्यति।

अधिनिवेशस्य भागत्वेन वनिता प्रबलीकरणस्य कालिकी प्रसक्तिः इति विषये विचारसत्रमपि आयोक्ष्यते। कोडुङ्ङल्लूर् विवेकानन्द वेदिक् विषन् निदेशिका डो. एम. लक्ष्मीकुमारी विषये/स्मिन् प्रभाषणं करिष्यति। संस्कृताध्यापकसंघस्य नेतारः भागभाजिनः भविष्यन्ति।

सामान्य विद्यालयेषु छात्रसंख्यायां महती वृद्धिः।

कोच्ची- राज्ये सर्वकारीय-निजीयविद्यालयेषु अस्मिन्नध्ययनवर्षे प्रविष्टानां छात्राणां संख्यायां महती वृद्धिः। गतवर्षापेक्षया ३२३४९ छात्राः अस्मिन् वर्षे अधिकतया प्रविष्टाः। विश्वोत्तरमहिमायुक्ता शिक्षा सर्वेषां कृते दातव्या इति लक्ष्यमेव सर्वकारस्यास्ति। अयमुत्कर्षः विद्याभ्याससंरक्षणयज्ञे निरतानां सर्वेषाम् अधिकार एवेति मुख्यमन्त्री पिणरायि विजयः अवदत्।
अस्मिन् वर्षे सामान्यविद्यालयाः इतिहासस्य भागत्वेन परिणताः। २५ वर्षेभ्यः अनुवर्तमाना छात्रन्यूनता इति रीतिः अवसिता। सामान्यविद्यालयेषु अस्मिन् वर्षे १८५९७१ छात्राः नूतनतया प्रविष्टाः। गतवर्षे १४८२०५ छात्राः प्रविष्टाः आसन्। सर्वेषु विद्यालयेषु प्रथमकक्ष्यायां छात्राः अधिका जाताः। सर्वकारीयविद्यालयेषु सर्वासु कक्ष्यासु छात्राः अधिकाः सन्ति। एष उत्कर्षः अभिमानकर एव।

कण्णूर् विानपत्तनं सेप्तम्बर् मासे प्रवर्तनसज्जं भविता।- सुरेष् प्रभुः।

नवदिल्ली – कण्णूर् विमानपत्तनस्य प्रवर्तनं २०१८ सेप्तम्बर् मासे आरब्स्यते, तदर्थं सर्वाणि कार्याणि करिष्यति इति व्योमयानमन्त्री सुरेष् प्रभुवर्यः अवदत्। दिल्यां केरलमुख्यमन्त्रिणा पिणरायि विजयवर्येण सह साक्षात् सम्भाषणे अयं निर्णयो जातः।

     विमानपत्तनस्य प्रवर्तनं त्वरयितुं निर्देशाः दत्ताः इति सुरेष् प्रभुः वार्तामाध्यमान् आवेदयत्। प्रवर्तनस्य एकोपनार्थं राज्यसर्वकारस्य कश्चन प्रतिपुरुषः दिल्ल्यां नियोक्तव्यः इत्यपि स अवदत्।

     विमानपत्तनस्य प्रवर्तनं राज्यस्य समस्तासु मेखलासु ऊर्जं प्रदास्यति इति प्रतीक्षा अस्ति। सञ्चार-वाणिज्यादिक्षेत्राणि परिपोषयितुं योगदानं करिष्यतीत्यपि केन्द्रमन्त्री अवदत्।

भारतस्य अभिमाननिदानम्, विश्वं योगदिवसमाचरितम्।

नवदिल्ली- चतुर्थम् अन्ताराष्ट्रयोगदिनम् आविश्वम् आचरितम्। विविधेषु राष्ट्रेषु योगप्रशिक्षणकक्ष्याः विचारसभाः शिबिराणि च प्रचलितानि। लक्षाधिकाः जनाः एषु कार्यक्रमेषु भागमभजन्त।
सौदी राष्ट्रे भारतस्थानपतेः अहम्मद् जावेदस्य आमुखभाषणेन सह योगदिनकार्यक्रमाः आरेभिरे। न केवलम् आरोग्यसंरक्षणं किन्तु एकता शान्तिश्च योगप्रशिक्षणेन साध्ये भवतः इति स्थानपतिरवदत्। सामान्यवेदिकायां योगचर्यावतारणाय सौविध्यं प्रदत्तस्य सौदीप्रशासनस्य कृते स कृतज्ञतां व्याजहार।
भारते उत्तराखण्ड् राजधान्यां डराडूणे विपिनानुसन्धानसंस्थाने प्रचलिते योगाभ्यासे प्रधानमन्त्री नरेन्द्रमोदीवर्यः नेतृत्वमदात्। उत्तराखण्ड् मुख्यमन्त्री त्रिवेन्द्रसिंह् रावत्, केन्द्रमन्त्री श्रीपाद नायक् च सन्निहितावास्ताम्। २०१४ तमे वर्षे एव जूण् २१ अन्ताराष्ट्र योगदिनत्वेन ऐक्यराष्ट्रसभया अङ्गीकृतम्। प्रधानमन्त्रिणः मोदीवर्यस्य प्रेरणयैव एष अङ्गीकारः लब्धः।

५००० वर्षेभ्यः पूर्वं भारते एव योगदर्शनम् उपस्थापितम्। आरोग्यसंरक्षणेन सह एकता अखण्डता सौहार्दं च प्रबलयितुं योगाभ्यासः प्रभवतीति प्रथानमन्त्री अवदत्।

प्रथम-द्वितीयकक्ष्याछात्रेभ्यः गृहपाठं न दद्यात्,- शिक्षामन्त्री।

तिरुवनन्तपुरम्- राज्ये प्रथम-द्वितीयकक्ष्ययोः छात्राणां कृते गृहपाठं न ददाति इति कार्यं सर्वकारः  दृढीकरिष्यति इति शिक्षामन्त्री प्रोफ. सी. रवीन्द्रनाथवर्यः विधानसभायां व्यजिज्ञपत्। विद्यालयनिरीक्षणसमये एतत्कार्यं सुदृढं करिष्यति।

     सी.बी.एस्.ई. विद्यालयेषु प्रथम-द्वितीयकक्ष्ययोः छात्राणां कृते गृहपाठं न दद्यात् इति मद्रपुरी उच्चन्यायालयेन समीपकाले निर्दिष्टमासीत्। एतत् केरलीयविद्यालयेष्वपि प्रावर्तिकं करिष्यति वा इति सामाजिकस्य अन्वर् सादत् वर्यस्य प्रश्नम् प्रतिवदन्नासीत् मन्त्री।

डो. जी. गङ्गाधरन् नायर् वर्यः अन्ताराष्ट्र योगाधिवेशने प्रबन्धं प्रस्तौति।

तृप्पूणित्तुरा- विश्वयोगदिने न्यूयोर्क् देशे आयोजिते प्रथमे अन्ताराष्ट्र-योगाधिवेशने विशिष्टातिथिरूपेण आमन्त्रितः डो. जी. गङ्गाधरन् नायर् वर्यः। लोकक्षेमाय योगसूत्राणि इति विषये स तत्र प्रबन्धं प्रस्तौति। संस्कृतप्रचारणाय स्वजीवितं समर्पितवानयं महाशयः अधुनापि भारते विदेशेषु च एतत्कर्मनिरतः एव कालं नयन्ति। संस्कृतपठनानुसन्धानमण्डले समग्रयोगदानमभिलक्ष्य लाल् बहदूर् शास्त्री संस्कृतविश्वविद्यालयः महामहोपाध्याय बिरुदेन एनं महाशयं बह्वमन्यत।

केरले नैकेषु कलालयेषु अयं संस्कृतं पाठितवान्। पालक्काट् विक्टोरिया कलालयः, तिरुवनन्तपुरं तृप्पूणित्तुरा संस्कृतकलालयौ, कालटी श्रीशङ्कराचार्य-स्स्कृतविश्वविद्यालयश्च तेषु अन्तर्भवन्ति। विरामावसरे कालटी संस्कृतविश्वविद्यालये विभागाध्यक्षः आसीत्। अधुना एकसप्ततितमे वयस्यपि संस्कृतपठने निरतः भवत्ययं महानुभावः। विश्वसंस्कृतप्रतिष्ठानस्य रक्षाधिकारी, चिन्मयामिषन् संस्थायाः वेलियनाट् केन्द्रस्थे शोधसंस्थाने अध्यक्षः, कोच्ची श्री सुकृतीन्द्र-ओरियन्टल् इन्स्टिट्यूट् मध्ये मानितप्राध्यापकः इत्यादिरूपेण अयमधुनापि संस्कृतप्रचारणनिरतो वर्तते।
तस्मै महात्मने नववाण्याः शुभाशयाः।