Category Archives: News Updates

एस्.एस्.एल्.सी. परीक्ष श्वःप्रभृति, 435142 परीक्षार्थिनः परीक्षां लेखिष्यन्ति।

तिरुवनन्तपुरम्- अस्मिन् वर्षे एस्.एस्.एल्.सी. , टी.एच्.एल्.सी., ए.एच्.एल्.सी. परीक्षाः बुधवासरे प्रारभन्ते। 435142 परीक्षर्थिनः अस्मिन् वर्षे परीक्षार्थं सन्नद्धाः भवन्ति। एषु 2,22,527 बालकाः 212,615 बालिकाश्च भवन्ति।

     केरलस्थेषु 2923 केन्द्रेषु लक्षद्वीपे नव केन्द्रेषु च परीक्षा प्रचलिष्यति। अपि च गल्फ् राष्ट्रेषु नव केन्द्राणि सन्ति। सर्वकारीयविद्यालयात् 142033 छात्राः निजीयादत्तवीद्यालयात् 262125 छात्राः निजीयानादत्तविद्यालयात् 30984 छात्पराश्रीचक्षां लिखन्ति। मार्च मासस्य 28 दिनाङ्कं यावत् परीक्षा भविष्यति।

केरलसर्वकलाशालायाः वेदान्तपठनकेन्द्रस्य आभिमुख्ये भाससमारोहो नाम आन्ताराष्ट्राघिवेशनम्।

तिरुवनन्तपुरम्- केरलसर्वकलाशालायाः वेदान्तपठनकेन्द्रस्य आभिमुख्ये अस्य मासस्य ११,१२,१३ दिनाङ्केषु पालयं सेनट् हाल् वेदिकायां भाससमारोह इति नाम्ना अन्ताराष्ट्राधिवेशनम् आयोजयिष्यति। भारतीयसाहित्ये भासस्य योगदानानि इति विषये एव अधिवेशनम्।

अधिवेशनस्यास्य उद्घाचनं विख्यातः वार्ताप्रवाचकः डो. बलदेवानन्दसागरवर्यः विधास्यति। केरलसर्वकलाशालायाः कुलपतिः डो. पी.पी. अजयकुमारः आध्यक्ष्यमलङ्करिष्यति। कालटि संस्कृतविश्वविद्यालयस्य भूतपूर्वकुलपतिः डो. एन्.पी. उण्णिः मुख्यप्रभाषणं विधास्यति। देशविदेशेषु विश्वविद्यालयस्थाः प्रगद्भाः प्राचार्याः प्रबन्धं प्रस्तोष्यन्ति।

सैनिकानां छायाचित्राणि निर्वाचनप्रचारार्थं न योजयेरन् इति राजनैतिकदलेभ्यो निर्देशः।

नवदेहली- सैनिकानां सैनिकयुक्तानाम् अधिवेशनानां वा छायाचित्राणि निर्वाचनस्य प्रचारार्थं न योजयेरन् इति निर्वाचनायुक्तस्य विज्ञापनम्। कानिचन दलानि ईदृशं चित्रं तेषां प्रचाराय उपयुञ्जते इति सूचानानुसारमेव राष्ट्रिय-प्रादेशिक-राजनैतिकदलेभ्य निर्वाचनायुक्तेन एषा सूचना दत्ता।

नेतारः एतत्सम्बन्धीनि विज्ञापनानि प्रत्याशिभ्यो दद्युः इत्यपि निर्वाचनायुक्तेन सूचितम्।

अयोध्या समस्यापरिहाराय त्रयाङ्गमाध्यस्थसमितिः।

नवदिल्ली- अयोध्यायां रामजन्मभूमि-बाबर् ई मस्जिद् भूतर्कविषयः सर्वोच्चन्यायालयेन मध्यस्थचर्चायै नीतः अङ्गत्रयेण युक्ता समितिरेव सर्वोच्चन्यायालयस्य संविधानसभया निर्दिष्टा। सर्वोच्चन्यायालयस्य भूतपूर्वः प्राड्विवाकः इब्राहिं खलीफुल्लायाः आध्यक्ष्ये निर्मितायां समित्यां श्री श्री रविशङ्कर् वर्यः वरिष्टः अभिभाषकः श्रीरां पञ्चु वर्यश्च अङ्गे भवितारौ।

माध्यस्थसमितेः प्रवर्तनानि सप्ताहचतुष्टयाभ्यन्तरे प्रारभन्ते। अष्टसप्ताहाभ्यन्तरे निर्णयः स्वीररणीयः। अवश्यं चेत् समित्यां पुनरपि अङ्गानि योजयितुं समितिः प्रभवति।

अयोध्या व्यवहारः- मगध्यस्थाय सर्वोच्चन्यायालयस्य निर्देशः।

नवदिल्लली -अयोध्याव्यवहारः विधिनिर्णयाय विन्यस्तः। माध्यस्थस्य साध्यता अन्वेष्टव्या इति निरीक्षणेन सहैव सर्वोच्चन्यायालयेन व्यवहारः विधिनिर्णयार्थं न्यस्तः। माध्यस्थानां नामनिर्देशायापि न्यायालयेन  आदिष्टः।

     एतस्मिन्नन्तरे माध्यस्थचर्चायां हिन्दूसंघटनाः अतृप्तिं सूचिवन्तः। माध्यस्थचर्चामधिकृत्य ज्ञातुं सामान्यजनाः विज्ञापनीयाः इति ते आवेदयन्। माध्यस्थचर्चायै सन्नद्धा इति इस्लां संघटनाःअसूचयन्। व्यवहारे परिभाषितानां रेखानां संशोधनाय षट्सप्ताहाधिकं समयं न्यायालयः अन्ववदत्। एतस्मिन्नन्तरे माध्यस्थमपि समायोजनीयं भवति। माध्यस्थचर्चा पराजयते चेत् अन्तिमवादाय न्यायालयः सन्नद्धो भविता।

प्रोः मुरलीमाधवः राष्ट्रपतिपुरस्कारेण बहुमानितः।

तृश्शूर् – 2017 वर्षस्य राष्ट्रपतिपुरस्कारेण प्रसिद्धः संस्कृतपण्डितः प्रोः मुरलीमाधवः बहुमानितः। संस्कृतभाषाप्रवर्तनानि तथा साहित्ययोगदानानि च परिकल्प्य अयं पुरस्कारः समर्प्यते। पञ्चलक्षं रुप्यकाणि प्रशस्तिपत्रं स्मारकफलकञ्च पुरस्कारस्वरूपम्। मार्च् मासस्य अन्तिमवारे आयोज्यमाने सम्मेलने पुरस्कारं समर्पयिष्यति।

     प्रोः मुरलीमाधवः श्रीशङ्कराचार्यसंस्कृतसर्वकलाशालायां तथा राष्ट्रीय संस्कृत संस्थानस्य गुरुवायूर् केन्द्रे च संस्कृतसाहित्यविभागस्य अध्यक्षपदवीम् आवहन्नासीत्। कलाशालायाः शासकसमित्या संस्कृतस्य प्रतिनिधिरूपेण, केन्द्रसाहित्य अक्कादमी संस्थायाः उपदेशकरूपेण च कर्मनिरतः आसीत् अयं पण्डितः। संस्कृतम् आङ्गलेयम् कैरली भाषासु प्रवीणो∫यं 25 अधिकान् ग्रन्थान् शताधिकान् अनुसन्धानप्रबन्धान् च व्यरचयत्।

     प्रोः मुरलीमाधवः संस्कृतभाषाप्रचारणप्रवर्तनेषु तत्परो भवति। संस्कृतपण्डितस्य पि.सि. वासुदेवन् इलयत् वर्यस्य तथा पार्वती वर्यायाश्च पुत्रः भवति अयं महात्मा।

     महात्मने तस्मै नववाणीपरिवारस्य आशंसाः समर्पये।

केरलीय संस्कृतसंधस्य नेतृत्वे द्विदिवसीया शिल्पशाला

तृशूर्- केरलीयसंस्कृतसंघस्य नेतृत्वे द्विदिवसीया शिल्पशाला २०१९ मार्च मासस्य ९,१० दिनाङ्कयोः तृशूर् केरलवर्मा कलालये आयोज्यते।
अस्य उद्घाटनं केरलकलामण्डलं कल्पितविश्वविद्यालयस्य कुलपतिः डो. टी.के. नारायणन् वर्यः निर्वक्ष्यति। उद्घाटनाधिवेशने डो, कावुम्पायि बालकृष्णन् वर्यः अध्यक्षो भविता। डो. वी.के. विजयन् स्वागतं व्याहरिष्यति।

उद्घाटनानन्तरं प्रभाषणानि भवितारः। नवोत्थानवीक्षणानि इति विषये डो. राजा हरिपिरसाद्, धर्मविश्वासः मानविकता च इति विषये डो. के.जी. पौलोस्, ज्योतिषं ज्योतिश्शास्त्रं च इति विषये डो. वी. आर्. मुरलीधरन्, मण्डलस्थेषु मन्दिरेषु आचारः विश्वासश्च इति विषये मुल्लमङ्गलं नारायणन् नम्पूतिरि , भारतीयदर्शनानि इति विषये डो. जे. प्रसाद् इत्येते प्रभाषणानि विधास्यन्ति।

कुवैत् राष्ट्रे योगप्रशिक्षणकेन्द्रं प्रवर्तनम् आरब्धम्।

कुवैत्- कुवैत् राष्ट्रे योगा हेल्त् प्लस् इति नामना योगप्रशिक्षणकेन्द्रं प्रवर्तनमारब्धम्। जीवितशैलीरोगान् योगाभ्यासद्वा  कथं प्रशमयितुं शक्यते इति मुख्यप्रभाषिका डो. अखिला विनोद् वर्या प्रत्यपादयत्। साल्मिया नाफो मण्डपे आयोजितं योगा हेल्त् प्लस् इत्यस्य उद्घाटनं डो. अखिला विनोद् वर्यया साकं नाफो अध्यक्षः विजयकृष्णः, राजीव् मेनोन्, लक्ष्मी प्रमोद्, अनिल् कुमार् इत्येये सम्भूय निरवहन्।

एफ् १६ विमानस्य उपयोगमनुबन्ध्य पाकिस्तानं विरध्य अमेरिक्का स्पष्टीकरणम् अचोदयत्।

वाष्ङ्टण्- अमेरिक्कया निर्मितं एफ्-१६ युद्धविमानं भारतं प्रति प्रयुक्तमित्यतः अमेरिक्काराष्ट्रं पाकिस्तानात् स्पष्टीकरणं समचोदयत्। समयानुसारं एफ्-१६ विमानं भारतं प्रति प्रयोक्तुं पूर्वानुमतिः आवश्यकी। पूर्वानुमतिं विना अस्योपयोगः समयालङ्घनमेव इत्यतः स्पष्टीकरणं चोदितम्।
बालक्कोट् व्योमाक्रमणस्य पश्चात् पाकिस्तानस्य एफ्-१६ विमानानि भारतसीमायां प्रवेष्टुं उद्यतानि इति रेखासहितं भारतेन आवेदितमासीत्। तदनन्तरमेव अमेरिकायाः अयमुद्यमः।

भारतस्य वीरपुत्रः अभिनन्द् वर्धमान् वर्यः श्वः मुक्तो भविष्यति।

इस्लामाबाद्- पाकिस्तानेन बन्दिरुपेण गृहीतः भरतस्य वायुसेना विंग् कमान्टर् अभिनन्द् वर्धमान् वर्यः श्वः मुक्तो भविष्यति। पाक् प्रधानमन्त्रिणा इम्रान् खान् वर्येण इस्लामाबादे इदम् उद्घोषितम्। अभिनन्द् वर्धमान् वर्यस्य ग्रहणे अन्ताराष्ट्ररंगे महान् विमर्शः पाकिस्तानं विरुध्य प्रचरति इत्यतः पाकिस्तानस्य अयं निर्णयः। समाधानसन्देश इति रुपेणैव अभिनन्द् वर्यं मोचयतीति इम्रान् खान् अवदत्।

     ह्यस्तने सीमामुल्लङ्ख्य आगतानि पाक् विमानानि सीमातः दूरीकर्तुं यतमान आसीत् अभिनन्द् वर्यः। तदन्तरे मिग् 21 इति विमानं भञ्जयन् पाक् सैन्यं अभिनन्द् वर्धमानम् अग्रहीत्। सः झटित्येव मोचनीय इति भारतेन सूचित आसीत्।