लक्षद्वीपं प्रति जलयानसौविध्यं निरुद्धम्, मत्स्यबन्धननौकाः कूलं नीताः।

तिरुवनन्तपुरम्-  बेप्पूर् नौानिस्थानात् लक्षद्वीपं प्रति आयोजितं जलयानं निरोद्धुं निर्देशः। केरलतीरे न्यूनमर्दं शक्तमभवदिति कारणेन जाग्रतारूपेणायं निर्देशःकल्पितः। महतीवृष्टिः तथा सागरक्षोभश्च भविता इत्यतः मत्स्यबन्धनार्थं गताः नौकाः लक्षद्वीपतीरं प्रापयत्। जाग्रतानिर्देशानुसारमेवेदं कर्म। केरलतीरे शक्तः चक्रवातः भविष्यतीति वातावरणनिरीक्षणकेन्द्रस्य जाग्रतानिर्देशः अस्ति। चक्रवातस्य वेगः प्रतिहोरं ६५ कि.मी. मितं भविष्यतीति निरीक्षणकेन्द्रस्य सूचना।

Leave a Reply

Your email address will not be published. Required fields are marked *