राष्ट्रं प्रकम्पयन् धूलीवातः वृष्टिश्च, मृतानां संख्या १२४. केरलमभिव्याप्य दशसु राज्येषु जाग्रतानिर्देशः।

नवदिल्ली- राष्ट्रं प्रकम्पयन् अतिशक्तः धूलीवातः महावृष्टिश्च १२४ जनानां प्राणान् अपाहरत्। उत्तरभारते प्रचण्डधूलीवातेन वृष्ट्या च महान् नष्टः आवेदितः। उत्तरप्रदेशे ७३ जनाः मृताः शताधिकाः व्रणिताः। राजस्थाने ३५ जनाः मृताः द्विशताधिकाः व्रणिताः। हैदरबादे षट्जनाः तेलङ्कानाराज्ये द्वौ च मृताः।

     केरलमभिव्याप्य दशस्सु राज्येषु मेय् पञ्चतः सप्त पर्यन्तं प्रचण्डवातः महावृष्टिः विद्युद् विभ्रमश्च भवितारः इति वातावरणनिरीक्षणकेन्द्रम् असूचयत्। असम्, मेघालय,नागालान्ट्, मणिपूर, मिसोराम्, त्रिपुरा ओडीषा कर्णाटका प्रभृतिषु राज्येषु दिनद्वयात्मकः जाग्रतानिर्देशः धोषितः।

Leave a Reply

Your email address will not be published. Required fields are marked *