यत्नं कुरुत साम्प्रतम् – 01-12-2018

 

नूतना समस्या –

“यत्नं कुरुत साम्प्रतम्”

ഒന്നാംസ്ഥാനം

सुखकालॆ य़दाप्नोति
आपदि तत्सहाय़कम् ।
जीवितॆ सुय़शः प्राप्तुं
य़त्नं कुरुत साम्प्रतम् ।।

LIJINA GHS CHALIYAPURAM

“അഭിനന്ദനങ്ങള്‍”

13 Responses to यत्नं कुरुत साम्प्रतम् – 01-12-2018

  1. एम्, शंकरनारायणन नंपूतिरि, चप्पारप्पटव् कण्णूर् says:

    अनेकैस्तापसश्रेष्ठै:
    प्रोक्तं कार्य तथाविधम्।
    कुरुते च सदाकालं
    स्मर्तव्यं साधुभाषितम्।।

  2. Parameswaran H says:

    മൂന്നാംസ്ഥാനം

    अतिवृष्टेश्च पश्चात्‍तु
    अनावृष्टिर्भविष्यति ।
    तस्माज्जीवनरक्षार्थं
    यत्नं कुरुत साम्प्रतम् ॥

  3. ശ്രീജാ മുംബൈ says:

    കേരളം കേരകേദാര-
    സമ്പന്നം സുമനോഹരം
    സൗന്ദര്യം ശാശ്വതം കര്‍തും
    യത്നം കുരുത സാമ്പ്രതം

  4. നാരായണന്‍ മുംബൈ says:

    മൂന്നാംസ്ഥാനം

    ക്ലേശാംസ്തു തൃണവത്കൃത്യ
    നവവാണീ പ്രവര്‍ത്തതേ
    തസ്യാഃ പ്രോത്സാഹനം കര്‍തും
    യത്നം കുരുത സാമ്പ്രതം

  5. Rosily Mathew says:

    उन्मादिनो भ्रमन्त्यत्र
    रुजाबाधायुताश्च ते।
    तेषां साधु सुरक्षायै
    यत्नं कुरुत सांप्रतम्।।

  6. अक्षय् कुमार्। says:

    मृषाभक्तसमूहेन
    दुष्टं जातं तु मन्दिरम्।
    भक्ताः साधवाः यूयं
    यत्नं कुरुत सांप्रतम्।

  7. आदिदेवः। says:

    രണ്ടാംസ്ഥാനം

    मालिन्यक्षेपणाद्हेतोः
    देशो मे पूतिपूरितः।
    पूतिगन्धविनाशाय
    यत्नं कुरुत सांप्रतम्।।

  8. पद्मनाभः पि says:

    अज्ञानतिमिरे मग्नाः
    तिरस्कुर्वन्ति संस्कृतम्।
    संस्कृतस्य प्रचाराय
    यत्नं कुरुत सांप्रतम्।।

  9. Adhil Sudhakaran says:

    स्त्रीजनाः बालकाः वृद्धाः
    भीता जाताश्च भूतले।
    परित्राणाय साधूनां
    यत्नं कुरुत सांप्रतम्।।

  10. विजयन् वि पट्टाम्बि says:

    महता जलपातेन
    देशो नरकसम्मितः।
    देशाभिमानिनो यूयं
    यत्नं कुरुत सांप्रतम्।।

  11. M Sankaranarayanan says:

    भारतस्योन्नतिम् द्दष्ट़वा
    प्रयत्नं कुरु मानव।
    जनानां सौहदं श्रेष्ठं
    यत्नं कुरुत सांप्रतम्।

  12. लिजिना...GHS Chaliyappuram.Kondotty.Malappuram. says:

    ഒന്നാംസ്ഥാനം

    सुखकालॆ य़दाप्नोति
    आपदि तत्सहाय़कम् ।
    जीवितॆ सुय़शः प्राप्तुं
    य़त्नं कुरुत साम्प्रतम् ।।

  13. Bhagyavathy says:

    അസാധ്യം കിംചിത് കാര്യം
    യദി ലബ്ധും യോഗ്യമപി
    ആത്മവിശ്വാസേന സഹ
    യത്നം കുരുത സാമ്പ്രതം

Leave a Reply

Your email address will not be published. Required fields are marked *