नारीणां गतिरीदृशी – 13-10-2018
नूतना समस्या –
“नारीणां गतिरीदृशी”
ഒന്നാംസ്ഥാനം
पुरा महानसे बद्धाः
विद्यया या विमोचिताःI
ताभिर्देवार्चना नेति
नारीणां गतिरीदृशी ॥
V Madhavan Pillai
“അഭിനന്ദനങ്ങള്”
नूतना समस्या –
“नारीणां गतिरीदृशी”
ഒന്നാംസ്ഥാനം
पुरा महानसे बद्धाः
विद्यया या विमोचिताःI
ताभिर्देवार्चना नेति
नारीणां गतिरीदृशी ॥
V Madhavan Pillai
“അഭിനന്ദനങ്ങള്”
മൂന്നാംസ്ഥാനം
भाषणं सर्वनारीणां
भूषणं परिकल्पितम्।
भूषणाधिक्यभावात्तु
नारीणां गतिरीदृशी।।
स्त्रियः देवतातुल्याः
देशस्यास्य प्रवर्धिकाः।
पूते भारतभूखण्डे
नारीणां गतिरीदृशी।।
शिक्षायामुन्नतं स्थान-
मलङ्कुर्वन्ति योषितः।
समत्वं नैव वाञ्छन्ति
नारीणां गतिरीदृशी।।
एकत्र समराघोषः
अन्यत्र शान्तिमन्त्रणम्।
सर्वत्र महिला दृष्टाः
नारीणां गतिरीदृशी।।
രണ്ടാംസ്ഥാനം
വിനാ ദൈന്യം വിനാ പാപം
പീഡ്യന്തേ ചാത്ര സ്ത്രീജനാഃ
സര്വധര്മാശ്രിതാനാം തു
നാരീണാം ഗതിരീദൃശീ
सर्वाः क्लेशभूयिष्ठाः
सर्वाश्च दुःखिता भृशम्।
अत एव वदन्त्येवं
नारीणां गतिरीदृशी।।
रोदनं सर्वनारीणां
कार्यसिद्धिप्रदायकम्।
आजीवं हा रुदन्तीनां
नारीणां गतिरीदृशी।।
काश्चन कचभारेण
कुचभारेण काश्चन।
नताः जघनभारेण
नारीणां गतिरीदृशी।।
ഒന്നാംസ്ഥാനം
पुरा महानसे बद्धाः
विद्यया या विमोचिताःI
ताभिर्देवार्चना नेति
नारीणां गतिरीदृशी ॥