विद्या नैव विनश्यति – 21-07-2018
नूतना समस्या –
“विद्या नैव विनश्यति”
ഒന്നാംസ്ഥാനം
जातुचित् कल्पवृक्षस्य
फले ग्लानिर्भविष्यति।
किन्तु कल्पलतातुल्या
विद्या नैव विनश्यति၊၊
Dr. Nidheesh Gopi
“അഭിനന്ദനങ്ങള്”
नूतना समस्या –
“विद्या नैव विनश्यति”
ഒന്നാംസ്ഥാനം
जातुचित् कल्पवृक्षस्य
फले ग्लानिर्भविष्यति।
किन्तु कल्पलतातुल्या
विद्या नैव विनश्यति၊၊
Dr. Nidheesh Gopi
“അഭിനന്ദനങ്ങള്”
ഒന്നാംസ്ഥാനം
जातुचित् कल्पवृक्षस्य
फले ग्लानिर्भविष्यति।
किन्तु कल्पलतातुल्या
विद्या नैव विनश्यति၊၊
उत्तमं
सौम्या या साक्षरा विद्या
श्रेष्ठा या चायुधाश्रया।
विनयेनान्विता सा तु
विद्या नैव विनश्यति।।
विद्याधनं धनं नित्यं
विद्या बन्धुश्च सर्वदा।
विद्या क्षेमकरी चैव
विद्या नैव विनश्यति।।
सूर्यबिम्बे यथा ज्योतिः
तरङ्गः सागरे यथा।
तथा नित्यं लसन्तीयं
विद्या नैव विनश्यति।।
यथाकालं समारब्धा
यावज्जीवं समार्जिता।
संस्कृतिधनमञ्जूषा
विद्या नैव विनश्यति।।
विनयेनान्विता नित्यं
विनालस्येन संस्थिता।
उद्यमेन सदा बद्धा
विद्या नैव विनश्यति।।
രണ്ടാംസ്ഥാനം
विनश्यति धनं धान्यं
शक्तिः कान्तिश्च यौवनम्।
सर्वोन्नतिकरी सैषा
विद्या नैव विनश्यति।।
മൂന്നാംസ്ഥാനം
या श्रेष्ठा सर्वसम्पत्सु
या सर्वोन्नतिकारिका।
सर्वैश्वर्यप्रदा सैव
विद्या नैव विनश्यति।।
दीयमाना नवावाण्या
सद्भिः संप्रेरिता मुदा ।
नित्यनूतनवक्तृणां
विद्या नैव विनश्यति ।।
കർമ്മം നിത്യം പരിശീലയതി
ധർമം ദിനംപ്രതി വർധയതി
ജ്ഞാനം സദാ ആർജയതി
വിദ്യാ നൈവ വിനശ്യതി |
सृष्टिः स्थिति: प्रलय
देवाः सत्क्रियेदम् लोके l
तासां उत्कृष्ट कारकम्
विद्या नैव विन३यति ll