कोच्ची मेट्रो संस्थानस्य अद्य प्रथमं वार्षिकम्, पिष्टापूपवितरणेन सह आघोषः।

कोच्ची- कला-सांस्कृतिककार्यक्रमेण सह कोच्ची मेट्रो संस्था अद्य प्रथमं वार्षिकमाचरति। इटप्पल्ली मेट्रो निलये सामाजिकाः तद्देशीयाः के.एं.आर्. एल्. सेवकाश्च संभूय महान्तं पिष्टकापूपं छित्वा आघोषाणामारभमकुर्वन्।आघोषस्य भागत्वेन गोपिनाथ् मुतुकाट् इति मान्त्रिकस्य मेट्रो टैं माजिक् इति मायाजालप्रकटनं कलाशाला छात्राणां सांस्कृतिककार्यक्रमाश्च भविष्यन्ति। एकसप्ताहात्मकः आघोष एव आसूत्रितः।

One Response to कोच्ची मेट्रो संस्थानस्य अद्य प्रथमं वार्षिकम्, पिष्टापूपवितरणेन सह आघोषः।

  1. SURESHBABU C C says:

    मेट्रो चालक्कुटीतः अस्ति चेत् निशेचयेन लाभः भवेत्।

Leave a Reply to SURESHBABU C C Cancel reply

Your email address will not be published. Required fields are marked *