निपा विषाणुः- विद्यालयेषु १२ दिनाङ्के कक्ष्या प्रवर्तते।

तिरुवनन्तपुरम्- कोषिक्कोट् जनपदः निपा विषाणोः मुक्तो/भवत्। विषाणौ नियन्त्रणविधेये जाते सामान्यकार्यक्रमाणां विद्यालयप्रवर्तनानां च कल्पितानि नियन्त्रणानि न दीर्घीकुर्वन्ति इति स्वास्थ्यमन्त्री श्रीमती के.के. शैलजावर्या अवदत्। अतः सर्वे विद्यालयाः कलालयाश्च १२ दिनाङ्कात् प्रभृति साधारणतया प्रवर्तिष्यन्ते। परन्तु निपाविषाणुबाधितैः सह सम्पर्कं कृतवतां निरीक्षणम् अनुवर्तते। २६४९ जनाः अधुना निरीक्षणे सन्ति। इतः पर्यन्तं परीक्षितेषु ३१३ जनेषु २९५ जनाः निपाबाधिताः न सन्तीति परीक्षणफलम्। विषाणोः उत्पत्तिस्थानमधिकृत्य अन्वेषणं पुरो गच्छति इत्यपि मन्त्री असूचयत्।

Leave a Reply

Your email address will not be published. Required fields are marked *